________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः । "जीवो गुणपडिवन्नो नयस्स दव्वछिअस्स सामइयं । सो चेव पज्जवहिअणयस्स जीवरस एस गुणो॥"
[विशेषावश्यकनियुक्तिगाथा-२६४३ ] ॥ . इत्यत्रैकैकनयस्येतरासमानविषयत्वध्रौव्यमुद्भाव्य भिन्नाभिन्नदव्य-पर्यायोभयग्राहके(क)नयद्वयवादिव्याख्यातृमतं भाष्यकृता निरस्तमिति चेत् ? तत्र 'किं सामायिकं गुणो द्रव्यं वा' इति शुद्धगुणत्वव्यत्वान्यतरप्रकारकजिज्ञासायां शुद्धद्रव्यास्तिक-पर्यायास्तिकनययोरेवाश्रयणस्य युक्तत्वात्, अवा. न्तरभेदाश्रयणे तादृशजिज्ञासाया अनिवृत्तिप्रसङ्गादिति बोध्यम् । अत एवैकैकस्योभयविषयकत्वाभ्युपगमे संयोगस्योक्तजिज्ञासाऽनिवर्तकाधिकविषयानुपकत्वेनानतिप्रयोजनत्वमेव दोषो भाष्यकृतोद्भावितः, अन्यथा तु प्रत्येकमेकैकविषयत्वेऽप्युभयोर्मिलनस्य स्यात्कारलाञ्छनेन सम्यक्त्वापादनं यत् प्रयोजनं तस्य प्रत्येकनियममाश्रित्य भाष्यकृता “जीवो गुणपडिवन्नो०” इत्यादिगाथाव्याख्याकर्तुः पर्यायार्थिको भिन्नद्रव्य पर्यायोभयग्राहको द्रव्यार्थिकोऽभिन्नद्रव्य-पर्यायोभयग्राहक इत्येवं भिन्नाभिन्नद्रव्य-पर्यायोभयग्राहकद्रव्यार्थिक-पर्यायार्थिकनयद्वयवादिनो मतं कथं प्रतिक्षिप्तमिति शङ्कते-कथमिति- अस्य 'निरस्तम्' इत्यनेनान्वयः। जीवो० इति-"जीवो गुणप्रतिपन्नो नयस्य द्रव्यार्थिकस्य सामायिकम् । स एव च पर्यवार्थि कनयस्य जीवस्यैष गुणः" ॥ इति संस्कृतम् । अत्र एतदाथाव्याख्याने । एकैकेति-द्रव्यार्थिको नयः पर्यायार्थिकनयासमानविषय एव, पर्यायार्थिको नयो व्यार्थिकनयासमानविषय एवेत्येवमुद्भाव्येत्यर्थः । भिन्नेति- प्रत्येकं भिन्नद्रव्यपर्यायोभयग्राहकमभिन्नद्रव्यपर्यायोभयग्राहकं यन्नयद्वयं तद्वादी यो व्याख्याता तस्य मतमित्यर्थः। “जीवो गुणपडिवनो." इति गाथा यादृशजिज्ञासानिवृत्त्यर्थमुपदिष्टा सा जिज्ञासा शुद्धद्रव्यास्तिकनयाश्रयणेन शुद्धपर्यायास्तिकनयाश्रयणेन चोक्तगाथाव्याख्यानत एवं निवर्तयितुं शक्या नान्यथेत्यतो द्रव्य-पर्यायोभयविषयकद्रव्यार्थिक-पर्यायार्थिकनयावान्तरनयाश्रयणेन व्याख्यानं नास्या युक्तमित्याशयेनैव भाष्यकृता तन्मतं व्युदस्तमिति समाधत्ते- तत्रेति- “जीवो गुणपडिवनो." इति गाथाव्याख्यायामित्यर्थः । ताहशजिज्ञासायाः शुद्धगुणत्व-द्रव्यत्वान्यतरप्रकारकजिज्ञासायाः, स्वविषयसिद्धयैव जिज्ञासानिवृत्तिः, प्रकृतजिज्ञासाविषयश्च शुद्धगुणत्व-द्रव्यत्वान्यतरप्रकारकसामायिकविशेष्यकज्ञानम् , तच्च गुणः सामायिक द्रव्यं सामायिकम्' इत्येवंरूपमेव, न तु 'जीवभिन्नगुणः सामायिक जोवाभिन्नगुणः सामायिकम्' इत्येवंरूपमिति तादृशज्ञानजनकान्तरनयाश्रितव्याख्यानस्योक्तजिज्ञासानिवर्तकतद्विषयसिद्धचनसत्वेनायुक्तत्वमित्याशयवतो भाष्यकृतो भिन्नाभिन्नद्रव्यपर्यायोभयग्राहकनयद्वयवादिव्याख्यातृमतखण्डनं नायुक्तमित्यर्थः । अत एव अवान्तरनयभेदाश्रयणेन व्याख्यानस्योक्तजिज्ञासाविषयसिद्धथनाधायकत्वेनोक्तजिज्ञासानिवर्तकत्वाभावादेव । एकै. कस्य प्रत्येक द्रव्यार्थिकस्य पर्यायार्थिकस्य च । उभयविषयकत्वाभ्युपगमे द्रव्य-पर्यायोभयविषयकत्वाभ्युपगमे । संयोगस्य द्रव्यनयविषये पर्यायनयविषयसंयोजनस्य पर्यायनयविषये द्रव्यनयविषयसंयोजनस्य च । 'विषयानुपकत्वेन' इत्यस्य स्थाने 'विषयानुमापकत्वेन' इति पाठः 'विषयाधायकत्वेन' इति वा पाठो भवितुमर्हति, उक्कजिज्ञासाया अनिवर्तको योऽधिकविषयस्तदनुमारकत्वेन तदाधायकत्वेन वेत्यर्थः । अनतिप्रयोजनत्वमेव विशिष्टप्रयोजनवाभाव एव, यदि संयोजनेऽकृते उक्कजिज्ञासा न निवर्तेत, कृते च संयोजने सा निवर्तेत, तदा संयोगस्य विशिष्टप्रयोजनत्वं स्यात्, न चैवम्, कृते संयोजने योऽधिकविषयः स जिज्ञ साया अनिवर्तक एवेत्यर्थः, 'अनतिप्रयोजनत्वमेव' इत्येवकारेण सामान्यतो निष्प्रयोजनत्वस्य व्यवच्छेदः, सामान्यतो निष्प्रयोजनत्वस्य संयोगेऽभावादेव न तद्दोषतया भाष्य. कृतोद्भावितमित्यर्थः। अथवा “विषयानुपधायकत्वेन" इत्येव पाठः, 'जिज्ञासानिवर्तक' इत्यत्र 'जिज्ञासानिवर्तक' इत्यकारप्रश्लेषो न कार्यः, तथा चैकस्योभयविषयकत्वाभ्युपगमे संयोजनेऽप्युभयविषयकत्वमेव भवति, तच स्वभावत एक प्राप्तमिति संयोगस्योभयनयमेलनस्य जिज्ञासानिवर्तको योऽधिकविषयः- प्रत्येकनयविषयातिरिक्तविषयस्तस्यानुपधायकत्वेन- असमर्पकत्वेन, अनतिप्रयोजनत्वमेव-विशिष्टप्रयोजनाभाववत्त्वमेव दोषो भाष्यकृतोद्भावित इत्यर्थः । अन्यथा उक्तरीत्या निरुक्तजिज्ञासाऽनिवर्तकत्वेनानतिप्रयोजनत्वस्य दोषत्वं संयोगेऽनभ्युपेत्य सामान्यतो निष्प्रयोजनत्वस्य दोषतयोपगमे । सामान्यतो निष्प्रयोजनस्वस्य तत्राभावादेव तस्य दोषत्वं न सम्भवतीत्यवगतये एकैकस्योभयविषयकत्वाभ्युपगमेऽपि संयोगस्य सप्रयोजनत्वमुपपादयति-प्रत्येकमिति- केवलस्य द्रव्यार्थिकस्य द्रव्यमात्रविषयकत्वं केवलस्य पर्यायार्थिकस्य पर्यायमात्रविषयक