________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
मुभयविषयकत्वाभ्युपगमेऽपि निष्प्रत्यूहत्वात् , तव मते ' स्याद्गुणविशिष्टजीव एव सामायिकं स्याज्जीव. गुण एव सामायिकम्' इति मिलिताभिलापवत् मम मते ' स्याज्जीवाभिन्नगुण एव सामायिकं स्याज्जीवभिन्नगुण एव सामायिकम् 'इति मिलिताभिलापस्यापि सम्भव इति न कश्चिद् दोष इति परेण वक्तुं शक्यत्वात् । न चैवं भङ्गद्वयेऽपि द्वयप्राधान्यालाभः, ' स्याज्जीवाभिन्नगुण एव' इत्यादेः 'स्याद्गुणाभिन्नजीव एव' इत्यादेरपि समानसंविसंवेद्यतया लाभाभ्युपगमात् । किञ्च, मम मते 'जीवो गुणप्रतिपन्नः' इति नियुक्तिप्रतीके 'गुणाभिन्नः' इत्यर्थे साम्मुख्यम् , तव मते तु गुणानामौत्प्रेक्षिकत्वेन शुको रजतस्येव जीवे गुणानां वैज्ञानिकसम्बन्धस्यैवाभ्युपगमेन ‘गुणनिरूपितवैज्ञानिकसम्बन्धवान्' त्वमित्येवं प्रत्येकमेकै कविषयत्वेऽपि । उभयोमिलनस्य द्रव्यार्थिकपर्यायार्थियोः संयोगस्य । स्यात्कारलाञ्छनेन स्यात्पदसंयोजनेन 'स्याद्गुणविशिष्ट जीव: सामायिकम् ' इत्येवंरूपेण । सम्यक्त्वापादनं सम्यक्त्वसंपादनं, 'यत् प्रयोजनम्, इत्यत्र 'उभयोमिलनस्य' इत्यत्त्य सम्बन्धः, तस्य स्यात्कारलञ्छनेन सम्यक्त्वापादनलक्षणप्रयोजनस्थ, प्रत्येकमभयविषयकत्वाभ्युपगमेऽपि द्रव्यार्थिकस्य द्रव्यपर्यायोभयविषयकत्वं पर्यायार्थिकस्य द्रव्यपयायोभयविषयकत्वमित्यभ्युपगमपक्षेऽपि, उभयोर्मिलनस्य निष्प्रत्यइत्वात् निर्विघ्नं सम्भवात् ; प्रत्येकमेकैकविषयत्वे मिलनस्य यत् प्रयोजनं स्यात्कारलाञ्छनेन सम्यक्त्वापादनं तदेव प्रयोजनं मिलनस्य प्रत्येकमुभयविषयकत्वाभ्युपगमेऽपीर्थः । मिलिताभिलापो यथा प्रत्येकमेकैकविषयत्वाभ्युपगमपक्षे तथा प्रत्येकमुभयविषयकत्वाभ्युपगमपक्षेऽपि स इत्याह- तवेति- प्रत्येकमेकैकविषयकत्वाभ्युपगन्तुरित्यर्थः। मिलिताभिलापखरूपमुलिखति-स्यारणविशिष्टेति । मम मते प्रत्येकमुभयविषयकत्वमित्यभ्युपगन्तुर्मते । तत्र मिलिताभिलापस्वरूामुल्लिखति- स्याज्जीवाभिनेति । परेण उभयोः प्रत्येकमुभयविषयकत्वमि. त्यभ्युपगन्त्रा। ननु मम मते 'स्याद्गुणविशिष्ट जीवः सामायिकम् ' इति भरे विशेष्यतया जीवस्य प्राधान्यात् प्राधान्येन द्रव्यग्राहिणो द्रव्यार्थिकस्य मतेऽयं भङ्गः, 'स्थाजीवगुण एव सामायिकम् ' इति भने विशेष्यतया गुणलक्षणपर्यायस्य प्राधान्यात् प्राधान्येन पर्यायमभ्युपगच्छतः पर्यायार्थिकन यस्य मतेऽयं भङ्ग इति विवेकः सम्भवति, तव मते तु भादयेऽपि विशेष्यतया गुणस्यैव प्राधान्याद् द्रव्यस्य कुत्रापि प्राधान्यालाभेन 'स्याजीवभिन्नगुण एव सामायिकम्' इत्यस्येव 'स्थाजीव भिन्नगुण एक सामायिकम् ' इत्यस्यापि पर्यायार्थिकनयमान्यत्वमेव स्यान्न द्रव्याथिकनयमान्यत्वमित्याशय प्रतिक्षिपति-न चेति । गुणे जीवाभिन्नत्वस्य यत्र ज्ञाने भानं तत्र जीवे गुणाभिन्नत्वमपि भासत एव, एवं गुणे जीवभिन्नत्वस्य यत्र ज्ञाने भानं तत्र जीवे गुणभिन्नत्वमपि भासत एव, नहि गुणे जीवाभिन्नत्वेन ज्ञाते जीवो गुणा भिन्नत्वेन न ज्ञात इति संभवति, एवं नहि गुणे जीवभिन्नत्वेन ज्ञाते जीवो गुणभिन्नत्वेन न ज्ञात इत्यपि संभवति तथा च गुणगतजीवाभिन्नत्व-जीवगतगुणाभिन्नत्वयोर्गुणगतजीवभिन्नत्व-जीवगतगुणभिन्नत्वयोश्च समानसंविसंवेद्यत्वेन गुणे जीवाभिन्नत्वप्रतिपादकभङ्गेन जीवे गुणाभिन्नत्वस्यापि प्रतिपादनात् तस्य द्रव्यार्थिकनयमान्यत्वं स्यादेवेति निषेधहेतुमुपदर्शयति- स्याजीवाभिन्नेति-प्रथमादिपदेन 'स्याजीवभिन्नगण एव' इत्यस्य द्वितीयादिपदेन 'स्याद्गुणभिन्न जीव एव' इत्यस्योपग्रहः, प्रथमादिषदं पञ्चम्यन्तं द्वितीयादिपदं षष्ठ्यन्तं बोध्यम् , यद्यपि उक्तदिशा प्रथमभङ्गेऽपि द्रव्यस्य पर्यायस्य च प्राधान्यं लब्धं द्वितीयभङ्गेऽपि, एवं च द्रव्यप्राधान्याद् द्रव्यार्थिकमान्यत्वं पर्यायप्राधान्यात् पर्या पार्थिकमान्यत्वं भगदयेऽप्यविशेषेण प्राप्तम् , तथापि पर्यायार्थिको द्रव्यं पर्यायच भिन्नतयैवाभ्युपैति, द्रव्यार्थि कश्च तयोरभिन्नत्वमेव स्वीकरोति, तथा च प्रथमभङ्गे द्रव्य पर्याययोरुभयोः प्राधान्येऽप्यमेदस्यैवावगाहना द्रव्यार्थिकमान्यत्वम्, द्वितीयभङ्गेऽपि द्वयोः प्राधान्येऽयि भेदस्यैवावगाहनात् पर्यायार्थिकमान्यत्वमिति । नययस्य द्रव्य-पर्यायोभयविषयकत्वमित्युपगन्ता स्वपक्षे 'गुणप्रतिपन्न.' इति नियुक्तिदलस्य 'गुणाभिन्न ' इत्यर्थे साम्मुख्यमक्लिष्टत्वलक्षणम् , परपक्षे तस्य 'गणनिरूपितवैज्ञानिकसम्बन्धवान् ' इत्यर्थेऽसाम्मुख्यं क्लिष्टकल्पनयोपनीतत्वलक्षणमिति विशेषोपदर्शनेन स्वपक्षस्य ज्यायस्त्वमावेदयति-किञ्चेति । मम मते नयद्वयस्य द्रव्य-पर्यायोभयग्राहकत्वमित्यभ्युपगन्तुर्मते । तव मते तु नयद्वयस्य प्रत्येकमेकै कविषयकत्वमित्यभ्युपगन्तुमते पुनः । औत्प्रेक्षिकत्वेन कल्पनामात्रगोचरत्वेन । वैज्ञानिकसम्बन्धस्यैव स्वप्रकारकज्ञानविषयत्वलक्षणसम्बन्धस्यैव । ननु भवन्मते द्रव्यार्थिको द्रव्य-गुणयोरभेदमभ्युपगच्छनीति यदेव द्रव्यं तदेव गण इति द्रव्यस्य वाचको यथा द्रव्यशब्दस्तथा