________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
धिष्ठान चैतन्यरूपस्य भानेऽप्यज्ञानोपहितचैतन्यरूपस्येश्वरस्याभानादज्ञानता स्फुरणे तदुपहितस्येश्वरस्य स्फुरणापत्तेः कर्तुमशक्यत्वात् तस्यायोग्यत्वात् नहि घटस्फुरणे घटोपहिताकाशादेरपि स्फुरणं केनचिदापादयितुं शक्यत इति, तत्र विशेष्यस्यायोग्यत्वम्, अत्र तु विशेषण - विशेष्ययोर्योग्यत्वमित्यस्ति विशेष इति चेत् ? न - तथाप्युपहितत्वसम्बन्धगर्भत्वेनादृष्टवज्जीवत्वेनेवा योग्यताया धौव्यात् ।
आभासवादिनो वार्तिकाचार्यास्तु - ' दर्पणादौ मुखान्तरोत्पत्ति स्वीकुर्वाणाश्चैतन्यस्यानादिभूताज्ञाने अज्ञानादिरेवाभासः समस्ति, न त्वसौ जीवो जडत्वात्, अतस्तत्तादात्म्यापन्नं चैतन्यं जीवः ' इत्याहुः । किमत्राभासाङ्गीकारे बीजमिति चेत् ? चैतन्ये अहङ्काराध्यासस्य निरुपाधिकस्येष्टत्वात्, निरुपाधिकाध्यासत्वावच्छेदेन च सादृश्यस्यापेक्षणात्, आभासतादात्म्यापत्त्या च सादृश्यापन्ने चैतन्येऽहङ्काराभ्यास'अज्ञाततास्फुरणे' इति पाठो युक्तः । तदुपहितस्य अज्ञाततोपहितस्य । नन्वज्ञातताऽपि भासते तद्रूपेण चैतन्यस्वरूपो जीवोऽपि भासते इति किमवशिष्टं यदभानादीश्वरस्याभानमित्यपेक्षायामाह - तस्यायोग्यत्वादिति- अज्ञात तोपहित चैतन्य • स्वरूपस्येश्वरस्यास्मदादिप्रत्यक्षा योग्यत्वादित्यर्थः । ईश्वरस्योपाधिभूतमज्ञानविषयत्वं योग्यत्वाद् भासते, ईश्वरस्त्वयोग्यत्वान्न भासते इत्येतद् दृष्टान्तावष्टम्भेन भावयति नहीति - अस्य 'शक्यते ' इत्यनेनान्वयः, यथा घटस्य प्रत्यक्ष मानेऽपि तदुपाधिकस्य घटावच्छिन्नाकाशस्यायोग्यत्वान्न प्रत्यक्षे भानं तथाऽज्ञानविषयत्वस्य प्रत्यक्षे मानेऽपि तदुपाधिकस्याज्ञानविषयत्वोपहितचैतन्यस्वरूपेश्वरस्यायोग्यत्वान्न प्रत्यक्षे भानमित्यर्थः । ननूपाधेर्घटस्य विशेषणीभूतस्य योग्यत्वेऽपि विशेष्यीभूतस्याकाशस्यायोग्यत्वमिति न घटावच्छिन्ना काशस्य प्रत्यक्षविषयत्वमिति युज्यते, प्रकृते त्वज्ञानविषयत्वलक्षणस्योपाधेर्विशेषणीभूतस्यापि योग्यत्वं विशेष्यीभूतस्य चैतन्यस्यापि योग्यत्वमिति विशेषस्य सद्भावात् कथं नाज्ञानविषयत्वोपहित चैतन्यस्वरूपेश्वरस्य प्रत्यक्षविषयत्वमित्याशङ्कते - तत्रेति-घटावच्छिन्नाकाशे इत्यर्थः । विशेष्यस्य आकाशस्य । अयोग्यत्वं प्रत्यक्षायोग्यत्वम् । अत्र तु अज्ञानविषयत्वोपहित चैतन्यखरूपेश्वरे पुनः । विशेषण- विशेष्ययोः अज्ञानविषयत्वलक्षणविशेषण - चैतन्य लक्षणविशेष्ययोः । योग्यत्वं प्रत्यक्ष योग्यत्वम् । इति एवम्। विशेष: घटावच्छिन्नाकाशादज्ञानविषयत्वोपहितचैतन्ये विशेषः । समाधत्ते - नेति । तथापि अज्ञानविषयत्वोपहितचैतन्यलक्षणेश्वरे अज्ञानविषयत्वलक्षणविशेषण चैतन्य लक्षणविशेष्ययोर्योग्यत्वेऽपि । उपहितत्वसम्बन्धगर्भत्वेनेति - नह्युपहितत्वं सम्बन्धमन्तरेण भवति, तथा सति सर्वस्य सर्वोपहितत्वं स्यात्, अतोऽवश्यमेवोपहितत्वं सम्बन्धविशेषेण भवतीति वाच्यम्, तथा च विशेषणविशेष्ययोर्योग्यत्वेऽपि सम्बन्धविशेषघटितस्य सम्बन्धविशेषप्रयुक्तस्य वोपहितत्वस्यायोग्यत्वमित्युपहितत्वसन्निविष्टसम्बन्ध उपहितत्वनियामकसम्बन्धो वा गर्भे खशरीरमध्ये यस्य स उपहितत्वसम्बन्धगर्भस्तत्त्वेन, अज्ञानविषयत्वोपहितचैतन्यस्य जीवस्य जीवत्वेन योग्यत्वेऽप्यदृष्टवज्जीवत्वेन यथायोग्यत्वं तथाऽयोग्यताया एव धौव्याद् - अवश्यम्भावादित्यर्थः ।
6
आभासवादिनां वार्तिककृतां वेदान्तिप्रवराणां मतमुपदर्शयति- आभासवादिन इति दर्पणादौ मुखान्तरोत्पत्तिं स्वीकुर्वाणा आभासवादिनो वार्तिकाचार्यास्त्वित्याहुरिति सम्बन्धः । किमाहुरित्यपेक्षायां तत्कर्मोपदर्शयति- चैतन्यस्येतिअनादिभूताज्ञाने चैतन्यस्याभासोऽज्ञानादिरेव समस्तीत्यन्वयः, अज्ञानादिरेवेत्येवकारेणाज्ञानादिव्यतिरिक्तरूपत्वस्य व्यवच्छेदः, न त्वसौ जीवः' इत्यनेनैव कारार्थव्यवच्छेदस्यैवोपदर्शनम्, असौ अनादिभूताज्ञाने चैतन्यस्याभासः, जीवो न तु जीवस्वरूपो नैव भवति । तत्र हेतुः - जडत्वात् जीवावृत्तिजडत्व धर्माक्रान्तत्वात् । अतः एतस्मात् कारणात् तत्तादात्म्यापन्नम् अनादिभूताज्ञानगत चैतन्याभास तादात्म्यापन्नम् । आभासः किमर्थमुररीक्रियत इति पृच्छति - किमिति - अस्य बीज मित्यनेनान्वयः । अत्र अनादिभूताज्ञाने । आभासाङ्गीकारे चैतन्याभासस्य स्वीकारे । उत्तरयति - चैतन्य इति । निरुपाधिकेति यत्र यस्य निरुपाधिकोऽध्यासस्तत्र तस्य सादृश्यमिति व्यात्या निरुपाधिकाध्याससामान्ये निमित्ततया सादृश्यस्यापेक्षणादित्यर्थः । एवं च यदि अनादिभूताज्ञाने चैतन्यस्याभासो नाङ्गीक्रियेत तदा चैतन्यस्य जडस्वरूपत्वाभावेन तत्र जडस्याहङ्कारस्य सादृश्याभावात् तद्रूपनिमित्ताभावेन चैतन्ये निरुपाधिकाहङ्कारो न भवेत्, अनादिभूताज्ञाने चैतन्याभासाङ्गीकारे तु अज्ञानस्य जडरूपत्वेन तत्र चैतन्याभासस्यापि जडरूपतया तत्तादात्म्यापन्नस्य चैतन्यस्यापि जडखेन
३९
३०५