SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २२७ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । नयामृत-तमिति । अतिशुद्धौ त्वेती-नेगम-व्यवहारनयौ, तं-प्रस्थकम् , उत्कीर्णनामानंप्रस्थकपर्यायवन्तम् , प्रस्थकमाहतुः, उत्कीर्णनाम्नो द्रव्यादविशेषादिति भावः । सङ्ग्रहनयस्तु चितम्शासादितप्रस्थकपर्यायम्, मितम्-आकुट्टितनामानम् , मेयं-धान्यविशेषमारूढं च प्रस्थकमाह, मेयारूढपदेन तदनारूढस्यान्यद्रव्याविशिष्टस्यासनहान्नैगमोपदर्शितार्थसङ्कोचकत्वेन स्वनाम्नोऽन्वर्थसिद्धेः, अयं हि विशुद्धत्वात् कारणे कार्योपचार कार्याकरणकाले प्रस्थकं च नाङ्गीकुरुते, न च तदा तस्य घटाद्यात्म अतिशुद्धौ तु नैगम-व्यवहारनयौ निष्पन्नप्रस्थकपर्यायवन्तमेव प्रस्थकं कथयतः सङ्ग्रहस्तु मापनक्रियाविष्टमेव निष्पन्नप्रस्थकपर्यायवन्तं प्रस्थकं कथयतीत्यावेदकं पञ्चषष्टितमपद्यं विवृणोति-तमितीति । एताविति मूलस्य विवरणम्-नैगमग्यवहारनयाविति-एतच्छब्दस्य प्रकान्तपरामर्शकत्वात् । तच्छब्दस्यापि प्रकृतार्थपरामर्शकत्वात् तमिति मूलत्य विवरणम्-प्रस्थकमिति-तस्यैव प्रकृतत्वात् । उत्कीर्णनामानमिति- उत्- उपरि, कीर्णम्- अयश्शलाकादिनोल्लिखितम् , नाम - प्रस्थकेति संज्ञा यस्य स उत्कीर्णनामा, तमुत्कीर्णनामानमिति, प्रस्थकपर्यायवत्तयोत्पन्नेऽपि काष्ठ दिद्रव्यविशेषे यावन्न प्रस्थकोऽयमित्यापामरसाधारणप्रत्ययोत्पत्तिस्तावन्न ततो लौकिकपरीक्षकाणां प्रस्थकमितधान्यादिक्रयविक्रयादिव्यवहारोऽसन्दिग्धतया समुल्लसतीत्युत्कीर्णनामत्वमावश्यकम्, यश्च काष्ठद्रव्यादिपर्यायविशेषः कूटव्यवहारिणा प्रस्थकपर्यायानात्मकोऽ. प्युत्कीर्णपर्यायसंज्ञो नैतावता वस्तुतः स प्रस्थक इत्यतः 'उत्कीर्णनामानम्' इत्यस्य फलितविवरणम्-प्रस्थकपर्यायवन्तमिति- एवम्भूतं द्रव्यविशेष प्रस्थकम् , आहतुः कथयत इत्यर्थः । नाममात्रस्य शब्दस्वरूपस्य प्रस्थकपर्यायापनकाष्ठद्रव्याद् भिन्नत्वेऽपि उत्कीर्णनानः प्रस्थकपर्यायस्य द्रव्यादभिन्नत्वादित्थमभिधानमित्याह-उत्कीर्णनाम्न इति । सहमन्तव्योपदर्शकमुत्तरार्द्ध विवृणोति-सड़हनयस्त्विति । चितमिति मूलस्य विवरणम् - आसादितप्रस्थक पर्यायमिति । मितमिति मूलस्य विवरणम् - आकुट्टितनामानमिति- उत्कीर्णनामानमित्यस्य य एवार्थः स एवास्यापि, प्रयोजनमपि पूर्वप्रदर्शितमेव । 'मेयं धान्यविशेषमारूढंच' इत्यस्य स्थाने तथा मेयारूढं धान्यविशेष. समारूढंच' इति पाठो युक्तः, अत्र मेयारूढमिति मूलस्य घान्यविशेष समारूढमिति विवरणम् । समुच्चयार्थकस्य तथाशब्दस्य समुच्चयार्थकश्चशब्दो विवरणम् । मेयारूढमित्यत्र मेय आरूढोऽयं स मेयारूढ इति बहुव्रीहिः मेयश्च मातुं योग्यो धान्यविशेषः, तथा च तद्विवरणस्य 'धान्यविशेषसमारूढम्' इत्यस्य धान्यविशेषकर्तृकारोहणकर्मेत्यर्थः। आसादितप्रस्थकपर्याय आकुट्टितनामा च प्रस्थको नैगमेऽपीति तन्मात्राभ्युपगमे सङ्घहस्य नैगमादू विशेषो न स्यादिति नैगमाभ्युपगमतः सङ्ग्रहाभ्युपगमे विशेषख्यापनायोकम् 'मेयारूढम्' इत्याह- मेयारूढपदेनेति । तदनारूढस्य मेयकर्तृकारोहणाकर्मीभूतस्य, आरोहणं च प्रकृते मध्यदेशमभिव्याप्य संयोगलक्षणावस्थानमेव, तत्कर्तृत्वं च तत्प्रतियोगित्वम् , तत्कर्मत्वं च तदनुयोगित्वम् , अन्यद्रव्याधिशिष्टस्य प्रस्थकपर्यायानापन्नद्रव्येण सह समानस्वभावस्य, यथा प्रस्थकपर्यायानात्मकं न धान्यमानविशेषावधारणलक्षणकार्यकुर्वद्रपात्मकं तथा धान्यविशेषासमारूढं प्रस्थकपर्यायापन्नद्रव्यमपीति । असहात समहणाभावात् । तथा च नैगमोपदर्शितार्थसोचकत्वेन नैगमनयेनोपदर्शितो यः प्रस्थकवाच्य आसादितप्रस्थकपर्यायोत्कीर्णनामकद्रव्यविशेषरूपोऽर्थः स मेयारूढो मेयानारूढश्च, तन्मध्यान्मेयारूढ एव प्रस्थको न मेयानारूढ इत्येवं सोचकारित्वेन समहनयस्य सङ्ग्रह इति यन्नाम तस्यान्वर्थत्वस्य सङ्गृह्णाति सङ्कोचयतीति साह इति निरुक्तिलभ्यार्थत्वस्य सिद्धः, 'अयम्' इत्यस्य 'नाङ्गीकुरुते' इत्यनेनान्वयः। अयं समहनयः । हि यतः। कारणे प्रस्थकमितधान्यादिमापनकार्यस्य परम्परया स्वरूपयोम्ये मापनकार्यकुर्वद्रूपानात्मके छेदन-तक्षणोरिकरणोल्लेखनादिक्रियायोग्यकाष्ठे । कार्योपचारं प्रस्थकपर्यायात्मक कार्योपचारम् । आसादितप्रस्थकपर्यायऽपि कार्याकरणकाले प्रस्थ मापन कार्याकरणकाले । प्रस्थकंच प्रस्थकेति नामव्यपदेश्यं च । नाङ्गीकुरुते न स्वीकरोति । ननु मापनकार्याकरणकाले आसादितप्रस्थकपर्यायेऽपि प्रस्थकात्मकत्वानजीकारे घटाद्यात्मकत्वं स्यादित्याशय प्रतिक्षिपति-न चेति । तदा प्रस्थक. कार्याकरणकाले। तस्य आसादितप्रस्थकपर्यायस्य । यो यन्नामव्युत्पत्तिनिमित्तार्थक्रियां करोति स तदर्थक्रियाकरणकाल एव तदात्मक इत्यभ्युपगन्त्रेवम्भूतनयमते जलाद्याहरणलक्षणचेष्टाकरणकाल एव घटादेरपि घटाद्यात्मकत्वस्य स्त पर्यायापन्नस्य मापनक्रियाऽकरणकाले यथा न प्रस्थकात्मकत्वं तथा तदानीं जलायाहरणलक्षणचेष्टात्मकार्थक्रियाकारित्वा
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy