________________
२२८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
कत्वप्रसनः, तदर्थक्रियां विना तत्त्वायोगात् ; घटादिशब्दार्थक्रिया यथाकथञ्चित् तत्रास्त्येवेति चेत् ? नअसाधारणतदर्थक्रियाकारित्वस्यैव तदात्मकत्वप्रयोजकत्वात् ; तथापि प्रस्थकक्रियाविरहे नायं प्रस्थको घटाधनात्मकत्वाच्च नाप्रस्थक इत्यनुभयरूप: स्यात् ? न स्यात्- प्रतियोगिकोटौ स्वस्यापि प्रवेशेन यावद् घटाद्यनात्मकत्वासिद्धेः; अर्थक्रियाभावा-ऽभावाभ्यां द्रव्यभेदाभ्युपगमे ऋजुसूत्रमतानुप्रवेश इति चेत् ? ननैगमनयोपगतार्थसङ्कोचनाय काचित्कतथोपगमेऽपि सर्वत्र तथाभ्युपगमाभावेन तदननुप्रवेशात् ; इत्थं
भावाद् घटाद्यात्मकत्वमपि न सम्भवतीति निषेधहेतुमुपदर्शयति- तदर्थक्रियां विनेति-घटादिकार्यजलाहरणादिलक्षणार्थक्रियां विनेत्यर्थः । तस्वायोगात् घटाद्यात्मकत्वायोगात् । ननु घटादेरर्थस्य जलाद्याहरणादिलक्षणार्थक्रिया यथा कार्य तथा घटाद्यर्थज्ञानतो घटादिशब्दप्रयोगस्तत्र भवतीति स्वज्ञानद्वारा घटादिशब्दोऽपि तस्य कार्यम् , लक्षणया घटादिशब्दप्रयोगः प्रस्थकेऽपि भवतीति घटादिकार्यघटादिशब्दलक्षणार्थक्रियाकारित्वान्मापनकार्याकरणकाले प्रस्थके घटाद्यात्मकत्वप्रसङ्गः स्यादेवेत्याशङ्कते-घटादिशब्दार्थक्रियेति- घटादिशब्दप्रयोगलक्षणघटाद्यर्थकार्यार्थक्रियेत्यर्थः । यथाकथञ्चित तात्पर्यादितः। तत्र प्रस्थके। या चार्थक्रिया यस्मादेव भवति न तु तदन्यतस्तादृशासाधारणार्थक्रियाकारित्वमेव तदात्मकत्व. प्रयोजकमिति जलाद्याहरणादिलक्षणासाधारणार्थक्रियाकारित्वमेव घटाद्यात्मकत्वप्रयोजकम् , जलाहरणाद्यर्थक्रियाकारित्वं च न प्रस्थके इति न तस्य घटाद्यात्मकत्वप्रसङ्ग इति समाधत्ते-नेति । असाधारणेति-घटाद्यन्याप्रभवत्वे सति घटादिप्रभवे. त्यर्थः। तदर्थक्रियेति- जलाहरणादिलक्षणार्थक्रियेत्यर्थः । तदात्मकत्वेति-घटाद्यात्मकत्वेत्यर्थः। ननु मापनलक्षणार्थक्रियाविरहकाले आसादितप्रस्थकपर्यायोऽपि प्रस्थकः प्रस्थको न भवति, जलाहरणादिलक्षणाप्रस्थकघटादिकार्यकारित्वाभावादप्रस्थकोऽपि न भवतीति प्रस्थकाऽप्रस्थकान्यतरानात्मकोऽयं स्यात्, न चैवमभ्युपगन्तुं युक्तम् , विधिनिषेधयोरेकतरनिषेधे परविधिध्रौव्यात् , प्रस्थकतया निषिद्धस्याप्रस्थकरूपत्वस्याप्रस्थकतया निषिद्धस्य प्रस्थकरूपत्वस्य चावश्यम्भावात् 'परस्परविरोधे हि न प्रकारान्तरस्थितिः' इति वचनादित्याशयेन शङ्कते-तथाऽपीति-घटाद्यात्मकत्वप्रसङ्गाभावेऽपीत्यर्थः। अनुभयरूपः स्यात् प्रस्थका-प्रस्थकान्यतरानात्मकः स्यात् । प्रस्थकभिन्नं यद् तत् सर्वमप्रस्थकमिति प्रस्थकोऽपि प्रस्थककार्याकरणकालेऽप्रस्थक एवेति घटादि' इत्यादिपदेन सोऽपि गृह्यत एवेति घटाद्यात्मकत्वमेव तस्येति घटायनात्मकत्वहेतोरसिद्धया न ततोऽप्रस्थकनिषेधः कर्तुं शक्य इत्यप्रस्थकरूपत्वान्नानुभयरूपोऽयमिति समाधत्ते-न स्यादिति-अनुभयरूपः प्रस्थककार्याकरणकाले प्रस्थको नापद्यत इत्यर्थः । तत्र हेतुमाह-प्रतियोगिकोटाविति-घटाद्यात्मा न भवतीत्येवंरूपो यो घटाद्यनात्मको निषेधस्तस्य प्रतियोगी घटाद्यात्मेति तत्रादिपदग्राह्यः प्रस्थककार्यकारिप्रस्थ कपर्यायभिन्नः सर्वोऽपि तन्मध्ये प्रस्थककार्याकरणकाले प्रस्थकोऽपीति घटाद्यात्मकस्य तस्य घटाद्यनात्मकत्वासिद्धरित्यर्थः । ननु ऋजुसूत्रनये यथाऽर्थक्रियाकारित्व तदकारित्वाभ्यां विरुद्धधर्माभ्यां द्रव्यस्य भेदस्तथा सङ्ग्रहनयेऽपि ताभ्यां तस्य भेद इत्यभ्युपगमे सङ्ग्रहनयाभ्युपगम ऋजुसूत्रनयाभ्युपगम एव स्यादित्याशङ्कते- अर्थक्रियाभावाऽभावाभ्यामिति - अर्थक्रियाकारित्व-तदकारित्वाभ्यामित्यर्थः । ऋजुसूत्रस्य सर्वत्रार्थक्रियाभावाऽभावाभ्यां द्रव्यभेदाभ्युपगमः, समहस्य तु न तथा सर्वत्राभ्युपगमः, किन्तु प्रस्थकस्थले नैगमनयेनाभ्युपगतस्योस्कीर्णनामकप्रस्थकार्यायापन्नद्रव्यरूपस्य प्रस्थकपदव्यपदेश्यस्य प्रस्थककार्यकारि-तदकारिप्रस्थकसाधारणस्यार्थस्य यत् सङ्कोचनं 'तथाभूतः प्रस्थककार्यकाव प्रस्थकः' इत्येवंरूपं तदर्थमर्थक्रियाकारित्व-तदकारित्वाभ्यां द्रव्यभेदाभ्युपगम इति न तथाऽभ्युपगन्तुः सङ्ग्रहस्य ऋजुसूत्रमतानुप्रवेश इति समाधत्ते-नेति । क्वाचित्काथोपगमेऽपि प्रस्थकस्थले द्रव्यभेदाभ्युपगमेऽपि । तथाऽभ्युपगमाभावेन द्रव्यभेदाभ्युपगमाभावेन । तदननुप्रवेशात् सङ्ग्रहस्यर्जुसूत्रनयेऽनुप्रवेशाभावात् । यदा च मापन कार्यकारि-तदकारिव्यक्त्योरर्थक्रियाकारित्व-तदकारित्वाभ्यां भेदः सङ्ग्रहनये सुव्यवस्थितस्तदा तन्ये मापनाकारिण्यां व्यक्तौ प्रस्थकोऽयमिति प्रतीतेः प्रमितिवाभावात् तत्र प्रस्थकत्वसामान्यमपि नास्ति किन्त्वस्थ कात्मिकैव सा व्यक्तिरिति चानुभयरूपत्वस्य तत्र प्रसङ्ग इत्याह-इत्थं चेति-सङ्ग्रहनये अर्थक्रियाभावाऽभावभ्यां क्वाचित्कद्रव्यभेदाभ्युपगमव्यवस्थितौ चेत्यर्थः । 'भेदार्थ कियाजनकपस्थकव्यक्तौ ' इत्यस्य स्थाने " भेदेऽर्थकियाऽजनकप्रस्थकव्यक्तौ " इति पाठो युक्तः, यदि यैव व्यक्तिर्मापनरूपार्थक्रियाकारिणी सैव मापनरूपार्थक्रियाऽजानकाऽपि तदा मापनरूयार्थक्रियाकारिण्यां प्रस्थकत्वसामान्यस्य सत्वे तदभिन्नायां मापनरूपार्थक्रियाऽजनिकायामपि तस्य सत्त्वमवश्याभ्युपगन्तव्यं स्यात् , तयो दे तु मापनरूपार्थक्रियाऽ