________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः ।
२२९ चार्थक्रियाकारि-तदकारिप्रस्थकव्यक्तिभेदार्थ क्रियाजनकप्रस्थकव्यक्तौ प्रस्थकत्वसामान्यमपि नास्तीत्यभ्युपगमेऽपि न कश्चिद् दोषः।
वस्तुतो व्यावृत्तिविशेषाद्यतिरिक्तेन नैयायिकादिकल्पितसामान्येन ( न ) कचिदपि निर्वाहस्तन्मते घटत्वादिसामान्यस्यापि समर्थयितुमशक्यत्वात्, मृत्-स्वर्ण-रजत-पाषाणादिघटेषु मृत्त्व-स्वर्णत्वादिना सार्येण तदसिद्धेः, अस्तु मृत्त्व-स्वर्णवादिव्याप्यं नानैव घटत्वम् , कुलाल-स्वर्णकारजन्यतावच्छेदकतया तन्नानात्वस्यावश्यकत्वात् , नहि स्वर्णघटादौ चक्रादिकं मृद्घटादौ च लोहवर्तुलादिकं हेतुः, अनुगतधीस्तु कथञ्चिदसौ सादृश्यात्, घटपदं तु नानार्थकमित्य भ्युपगमे कथञ्चिदित्याधनिर्वचनेनैवाशक्तिः
जनिकायां प्रस्थकत्वसामान्यस्य नास्तित्वाभ्युपगमे ऽपि न कश्चिद् दोषः, तत्र प्रस्थकत्वप्रतीतिर्दोषादेवेत्यर्थः। यदप्यतया वृत्तिव्यतिरिकं सामान्यं घटत्वादिकं नैयायिकादिभिरभ्युपगम्यते तदपि विचारं न सहत इति प्रस्थकत्वसामान्य तथाभूतमविचाररमणीयमेवेति सङ्ग्रहनयाकूतमुपदर्शयति-वस्तुत इति । व्यावृत्तिविशेषेति- अघटव्यावृत्त्यपटव्यावृत्त्यादिरूपव्यावृत्तिविशेषेत्यर्थः, आदिपदात् तत्तदर्थक्रियाजनकत्वाद्युपग्रहः । न कचिदपि निर्वाहः प्रस्थक एव प्रस्थकत्वसामान्यमतयावत्तिविशेषातिरिकं न सम्भवतीत्येवं न, किन्तु घट-पटादावपि घटत्व-पटत्वादिसामान्यमतय वृत्तिविशेषातिरिक्त न सम्भवतीत्याशयः। कथं न निर्वाह इत्यपेक्षायामाह- तन्मत इति- नैगमनयप्रभवनैयायिकादिमत इत्यर्थः । साङ्कर्यस्य
बाधकत्वं नेयायिकादिभिरुपगतम् , घटत्वादावरि साथ समस्तीत्यतो न घटत्वादिसामान्यसिद्धिरित्याह-मृत-स्वर्णेति । 'मत्व-स्वर्णवादिना' इत्यत्रादिपदाद रजतत्व-पाषाणत्वादेरुपग्रहः. मृत्वाभाववति सौवर्णादिघटे घटत्वं वर्तते. घटत्वा भाववति मार्दवशरावादौ मृत्त्वं वर्तत इत्येवं परस्परात्यन्ताभावसामानाधिकरण्यम् , मार्दवघटे च मृत्त्वमपि वर्तते घटत्वमपि वर्तत इति तयोः सामानाधिकरण्यमित्येवं मृत्त्वेन सह घटत्वस्य सार्यम् , तथा स्वर्णत्वाभाववति मार्दवादिघटे घटत्वं वर्तते, घटत्वाभाववति काञ्चनकटक केयूरादौ स्वर्णत्वं वर्तत इत्येवं परसरात्यन्ताभावसमानाधिकरण्यम्, सौवर्णघटे च स्वर्णत्वं च घटत्वं च वर्तत इति तयोः सामानाधिकरण्यमित्येवं स्वर्णत्वेन सह घटत्वस्य सार्यम् , अनयैव दिशा रजतत्वादिनाऽपि घटत्वस्य साङ्कर्यमित्येवं साङ्कर्येण घटत्वादिसामान्यस्यासिद्धरित्यर्थः । साङ्कर्यभयाद् घटत्वादेर्मृत्वादिव्याप्यस्य नानारूपस्य घटादिपदस्य नानार्थकस्य चाभ्युपगमे जात्युच्छेदापत्तिलौकिकव्यवहारबाधश्चेत्युपदर्शयति- अस्त्विति । नानाघटत्वाभ्युपगमो न निष्प्रमाणक इत्यावेदनायाह -कुलालेति- कुलालं विनाऽपि सौवर्णघटस्य स्वर्णकारं विनाऽपि मार्दवघटस्य भावेन व्यतिरेकव्यभिचाराद् घटत्वावच्छिन्नं प्रति न कुलालवेन नवा स्वर्णकारत्वेन कारणत्वं किन्तु मृत्त्वव्याप्यघटत्वावच्छिन्नं प्रति कुलालत्वेन कारणत्वम् , स्वर्णत्वव्याप्यघट वावच्छिन्नं प्रति स्वर्णकारत्वेन कारणत्वमित्ये कुलालत्वावच्छिन्नजनकतानिरूपितजन्यतावच्छेदकतया मृत्त्वव्याप्यघटत्वस्य स्वर्णकारत्वावच्छिन्नजनकतानिरूपितजन्यतावच्छेदकतया स्वर्णत्वव्याप्यघटत्वस्य सिद्धौ घटत्वजातिनानात्वस्यावश्यकत्वादित्यर्थः । नन्वेवं मार्दवघटं प्रत्येव चक्रादिकं जनकं न सौवर्णघटादिकं प्रति. एवं सौवर्णघटं प्रत्येव लोहवर्तुलादिकं जनकं न मार्दवघटादिकं प्रति व्यभिचारादित्यपि स्यादिति चेत् ? अत्र ओमित्येवोत्तरमित्याह-नहीतिस्वर्णघटादौ चकादिकं नहि हेतुः, मृद्घटादौ च लोहवर्तुलादिकं नहि हेतुरित्यन्वयः । ननु यदि मृत्त्वादिव्याप्यं नानव घटत्वं तर्हि घटोऽयं घटोऽयमित्यनुगतप्रतीतिर्दिव-सौवर्णघटादौ न स्यात्तन्नियामकस्यैकस्य घटत्वस्याभावादित्यत आहअनुगतधीस्त्विति । 'कश्चिदसौ सादृश्यात्' इस्यस्य स्थाने 'कथञ्चित्सौसादृश्यात्' इति पाठो युक्तः, सौसादृश्यम्- अतिशयेन सादृश्यम् । एवं सति घटपदस्य नानाप्रवृत्तिनिमित्तकत्वेन नानार्थकत्वमापतदिष्टापत्त्या न दोषावह मित्याह - घटपदं त्विति । इत्यभ्युपगमे एवं नैयायिकादिभिरुररीकारे । अत्र सङ्ग्रहनयवादी अरुचिमुपदर्शयति-कथाश्चिदित्यादीति-यदि मार्दवघटादावे घटलं नास्ति तर्हि नानारू तन तत्र सादृश्यनिबन्धनम् . तन्निबन्धनं तु घटस्वभिन्नं नोपदर्शयितुं शक्यमित्यशक्तिरेव तन्निर्वचनासामर्थ्यलक्ष गा नैयायिकादिभिः स्वस्याविष्क्रियते, तत् किमर्थम् , अतिरिकजातिस्वीकारेऽपि न तत्र जात्यानरमथापि घटत्वं सामान्यं पटत्वं सामान्यमित्येवमनुगतप्रतीतिरेकरूपेणाननुगतीकृतेष्वपि सामान्येषु भवतीत्येवं तैरुपगम्यते कथश्चित्सौसादृश्येनैव जातीनामनुगमनम्, ततश्च तेष्वनुगतमतिरित्य स्यावश्याश्रयणीयत्वे