________________
२३०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
किमाविष्क्रियते अननुमतानो जातीनामित्र व्यक्तीनामप्यसौ सादृश्येनैवानुगमसंभवेन जात्युच्छेदापतिः, घटपदस्य नानार्थत्वे स्पष्ट एव लौकिकव्यवहारबाधश्च ।
घटत्वाविकमेकत्वकृत्त्येव मृत्त्वादिकमेव वा तथा, कुम्भकार-स्वर्णकारादेर्विजातीयकृतिमत्वेन चक्रा. दि(लोह)वर्तुलादेश्य कथञ्चिद्विजातीयव्यापारकत्वेन हेतुत्वमित्यादिनवीनकल्पना तु दोषादेकत्वामहेऽपि घटत्वादिग्रहात् ,एकत्वस्यैकत्वात् ,प्रसिद्धरूपेण कार्यकारणभावोच्छेदे व्यवहारविलोपाचानुपपना, इति क्य
वरमतिरिक्त मातिमस्वीकृत्यैव सौस दृश्येन व्यक्तीनामनुगमनम् , तत एव चानुगतप्रतीतिरिति सर्वत्र जातेरभ्युपगमने न किश्चित् प्रयोजनमिति मार्दव-सौवर्णघटादिषु सौसादृश्येनानुगतप्रतीतिमभ्युपगच्छद्भिर्नैयायिकादिमिर्जातिमात्राय जलाञ्जलिरेव वितीर्णा स्यात् , यथा च सौवर्ण-मार्दवादिघटेष्वेकस्य घटत्वसामान्यस्याभावे नानाथत्वं तथा गोत्वादिजात्यभावेऽपि गवादिपदानां नानार्थत्वमेवास्त्वित्यतोऽपि जात्युच्छेदापत्तिः स्वहस्तितैव स्यादित्यर्थः । 'व्यक्तीनामपसौ' इत्यस्य स्थाने " व्यकीनामपि सौ" इति पाठो युक्तः । घटपदस्यक प्रवृत्तिनिमित्तकत्वलक्षणमेकार्थत्वमेव लौकिकैर्व्यवह्रियते, तस्य नानाप्रवृत्तिनिमित्तकत्व लक्षणनानार्थत्वाभ्युपगमे तदाधोऽपीत्याह-लौकिकव्यवहारबाधश्चेति । घटत्वे मृत्त्वादिजातिसार्यपरिहाराय स्वर्णघटादौ चक्रादीनां कुम्भकारादीनां चककारणत्वोपपत्तये या नवीनानां कल्पना तामुपन्यस्य दूषयति-घटत्वादिकमेकत्ववृत्त्येवेतिमार्दव-सौवर्णादिघटगतैकत्ववृत्त्यैव घटत्वादिकम् , तस्य च मृत्त्वसुवर्णवादिना सामानाधिकरण्याभावान्न सायम् घटादौ तस्य स्वाश्रयैकत्ववत्त्वसम्बन्धेनेव वृत्तित्वम् , तस्य तेनैव सम्बन्धेन घटोऽयं घटोऽयमित्यनुगतप्रतीतिनिबन्धनत्वमित्यनुगतप्रतीत्युपपत्तिः, उक्तपरम्परासम्बन्धेनवैकत्ववृत्तेरपि घटत्व जातेर्घटपदप्रवृत्तिनिमित्तत्वमित्येकार्थत्वव्यवहारोपपत्तिश्चेत्यर्थः । वा अथवा । मृस्वादिकमेवेति-आदिपदात्, स्वर्णत्वादेः परिग्रहः, एवकारेण घटत्वादेरेकत्ववृत्तित्वस्य व्यवच्छेदः । तथा घटादिगतैकत्ववृत्तिः, एवमपि घटत्वस्य न मृत्वादिना सायम् , घटत्वं हि घटात्मकद्रव्ये वर्तते, मृस्वादिकं च न घटात्मकद्रव्ये किन्तु तद्तैकत्वे, एवं च तयोः सामानाधिकरण्याभावात् कुतः साकर्यम्, एवमभ्युपगमे घटादिव्ये मृत्वादिप्रतीतिः स्वाश्रयैकत्वसम्बन्धेन, घटोऽयं घटोऽयमित्यनुगतप्रतीतिनियामकत्वं च घटत्वस्य समवायसम्बन्धेनैव, तेनैव सम्बधेन घटत्वस्य घटपदप्रवृत्तिनिमित्तत्वमपीति न घटपदस्य नानार्थत्वप्रसङ्गोऽपीति भावः । या मार्दवघटानुकूला कुम्भकारे कृतिः, या च सौवर्णादिघटानुकूला स्वर्णकारादिगता कृतिस्तत्र सर्वत्र वैजात्यविशेष उपेयते, तादृशवैजात्यविशेषाकलितकृतिमत्त्वेन कुम्भकार स्वर्णकारादेरेकघटत्वावच्छिनं प्रत्येकमेव कारणत्वमुपेयत इति न व्यतिरेकव्यभिचारोऽपि, एवं चक्रादेर्यादृशव्यापारण मार्दवघटो जायते, लोहवर्तुलादेश्च यादृशव्यापारेण सौवर्णादिघटो जायते, तत्र सर्वत्र व्यापारे वैजात्यविशेष उपेयते, ताशवैजात्यविशेषाकलितव्यापारवत्वेन चक्रादेोहवर्तुलादेश्चैकघटत्वावच्छिन्नं प्रत्येकमेव कारणत्वमुषेयत इति नात्रापि व्यतिरेकव्यभिचार इति न नानाकारणत्वासा इत्याह- कुम्भकार-स्वर्णकारादरिति- कुम्भकार-स्वर्णकारादेविजातीयकृतिमत्त्वेन हेतुत्वमित्यन्वयः, हेतुत्वमित्यस्य घटत्वावच्छिन्नं प्रति हेतुत्वमित्यर्थः । 'इत्यादिनवीन कल्पना तु' इत्यस्य 'अनुपपन्ना' इत्यनेनान्वयः। अनुपपन्नत्वे हेतुमाह-दोषादेकवाग्रहेऽपीति-घटत्वादेर्मृत्वादेर्वा सार्वपरिहाराय घटादिगतैकत्ववृत्तित्वं यत् परिकल्प्यते तन्न युक्तं धर्मिज्ञाने सत्येव तद्गतधर्मस्य ज्ञानमिति नियमेन घटादिगतकत्वज्ञाने सलोव घटत्वादिज्ञानं यदि भवेत् तदा घटस्वादकत्ववृत्तित्वं सम्भाव्यतापि, न चैवम् , समूहग तत्वादिदोषाद् घटादावे करवस्याग्रहेऽपि घटत्वादेर्ग्रहादित्यर्थः । किश्च व्यकोनामनेकवे सत्येवानुगतप्रतीत्यनुरोधेन तत्र जातिः परिकल्प्यते, अत एव निसले सत्यनेकसमवेतत्वमिति जातिलक्षणं तत्र समनुगतं भवतीति, प्रकृते तु घटोऽयं घटोऽयमित्यनुगतप्रतीतिबलाद् यथा घटत्वादिकमेकं तथाऽयमेकोऽयमेक इत्यनुगतप्रतीतिबलादेकत्वमपि घटपटादिगतमेकमेव भवितुमर्हतीति न तत्रैकव्यक्तिकत्वाजातिकल्पना भद्रेत्याह-एकत्वस्यैकत्वादिति । यदपि कुम्भ कार स्वर्ण कारादिगतघटानुकूलकृतिगतं वैजात्यमुररीकृत्य विजातीयकृतिमत्त्वेन कुम्भकारस्वर्णकारादेरेकघटत्वावच्छिनं प्रति कारणत्वमेकं परिकल्पितम् तथा चक्रादिव्यापार-लोहवर्तुलादिव्यापारगतवैजात्यविशेषपरिकल्पनापुरस्सरं विजातीयव्यापारवत्वेनैकधर्मेण चक्रादेोदवलादेश्चैकघटत्वावच्छिन्न प्रत्येककारणत्वपरिकल्पनम, तदुभयमपि न युक्तम् , कुम्भकारकत्वादिना घटत्वादिना प्रसिद्धरूपेण चकत्वादिना घटत्वादिना प्रसिद्धेन रूपेण कार्यकारणभावस्य व्यवडियमाणस्यैवं सत्युच्छेदे व्यवहारविलोपप्रसङ्गादित्याह-प्रसिद्धरूपेणेति ।