________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतौ भयोपदेशः ।
विशेषेण तत्र तत्र व्यावृत्तिविशेषरूप सामान्याभ्युपगमं बिना न निर्वाह इति । प्रकृते कार्यकरणकालेव्यावृतिविशेषरूपप्रस्थकत्वसामान्याभावाभ्युपगमे न क्षतिरिति किमतिप्रपचितेन ॥ ६५ ॥
प्रस्थकश्चर्जुसूत्रस्य, मानं मेयमिति द्वयं ।
न ज्ञ-कर्तृगताद् भावाच्छब्दानां सोऽतिरिच्यते ॥ ६६ ॥
नयामृत० - प्रस्थकश्चेति ऋजुसूत्रस्य मानं मेयं चेति द्वयमेव प्रस्थकस्वरूपम्, तन्मे धान्ये च समवहित एव प्रस्थक व्यवहारादू एकतरविनाभावे तत्परिच्छेदासम्भवात् किञ्च, मेयारूढः प्रस्थकत्वेन व्यपदेश्य इति सङ्ग्रहनयमते मेयारूढः प्रस्थकारूढं मेयं वा तथेत्यत्र विनिगमकाभावादुभयत्रैव प्रस्थकं पदशक्तेर्व्यासज्यवृत्तित्वं युक्तम्, कथं तर्हि प्रस्थकेन धान्यं मीयत इति प्रयोगः, एकत्रो भयवाचकपदेनैकस्यानुपस्थानादिति चेत् ? न- एतन्नयेन कथञ्चित् प्रस्थकपदशक्यतावच्छेदकस्य व्यासज्यवृत्तित्वेन विवक्षाभेदात् करणरूपानुप्रवेशस्यापि सम्भवान्न तदनुपपत्तिरिति द्रष्टव्यम् ।
तस्मान्नैयायिकादिपरिकलितमतिरिकसामान्यं न सम्भवत्येव कित्वनुगतप्रतिकार्यकारणभावं घटादिशब्देकार्थत्वाद्यनुरोधेनातद्व्यावृत्तिविशेषरूपमेव घटत्वादिसामान्यमभ्युपगन्तव्यम् मापनकार्याकरणकाले च प्रस्थकव्यक्तौ तादृशस्यापि प्रस्थकत्व - सामान्यस्याभ्युपगमे न किश्चित्प्रयोजनमिति प्रस्थकत्वसामान्याभावाभ्युपगमोऽपि न दोषावह इत्युपसंहरति- इति नयविशेषेणेति । प्रकृते प्रस्थके । अन्यत् स्पष्टम् ॥ ६५ ॥
प्रस्थ के ऋजुसूत्रनयाभ्युगमविशेषस्य साम्प्रतसमभि रूढैवम्भूतै तत्रयात्मक शब्दन याभ्युपगमविशेषस्य चोपदर्शकं षदषष्टितमपद्यं विवृणोति - प्रस्थकश्चेतीति । केवलं मानं मेयं वा कथं न प्रस्थकस्वरूपमित्याकाङ्गायामाह तन्मेयधान्ये इति - प्रस्थ कमानमेयधान्य इत्यर्थ: । ' समवहित एव' इत्येवकारेण मेयधान्यासमवहिते प्रस्थ के प्रस्थकव्यवहारो न भवतीत्यर्थो ज्ञापितः । कथं मेयधान्यसमवहित एव प्रस्थ के प्रस्थकव्यवहारो भवन्नपि प्रामाणिकैरुपादेय इत्यपेक्षायामाह - एकतरविनाभाव इति - मानमेययोरेकतरस्याभावे इत्यर्थः । तत्परिच्छेदासम्भवादिति इदं प्रस्थकमितं धान्यं, प्रस्थकमितधान्यमापकश्चायं प्रस्थक इत्येवं निश्चयस्यासम्भवादित्यर्थः । मानं मेयं द्वयं प्रस्थकपदवाच्यमिति युक्तयन्तरेण व्यवस्थापयति- किञ्चेति । 'मेयारूढः' इत्यत्र मेयमारूढं यं स मेयारूढ इति बहुव्रीहिः प्रस्थक इति दृश्यम्, एवमग्रेऽपि । प्रस्थकारूढमित्यत्र प्रस्थ के आरूढं प्रस्थकारूढमिति सप्तमीतत्पुरुषः । तथा प्रस्थकत्वेन व्यपदेश्यः । उभयत्रेव मान-मेयोभयस्मिन्नेव एवकारेण मानमात्रे मेयमात्रे च प्रस्थकपदशक्तेर्व्यवच्छेदः । ननु प्रस्थकपदशक्तेर्मानमेयोभयस्मिन्नेव व्यासज्यवृत्तिले प्रस्थकपादात् तदुभयस्यैवोरस्थितिर्न केवलस्य मानविशेषरूपस्य प्रस्थकस्योपस्थितिः, प्रस्थकपदजन्योपस्थितौ च मापनक्रियाकरणत्वेनैव प्रस्थकस्य भानमिति तस्य करणत्वबोधिका तृतीयाऽपि पृथक्कया करणत्वोप स्थापिका न युक्तेति केवलमापके प्रस्थ के ' प्रस्थकेन धान्यं मीयते' इति वाक्ये प्रस्थकपदप्रयोगोऽनुपपन्न इत्याशङ्कते - कथं तति । ' प्रयोगः, एकत्रोभय " इत्यस्य स्थाने प्रयोग एकत्र, उभय' इति पठो युक्तः, एकत्र प्रयोगः कथमित्यन्वयः, एकत्रेत्यस्य मानमात्रे प्रस्थ के इत्यर्थः । कथं न प्रयोग इत्यपेक्षायामाह - उभयेति- मानमेयोभयवाचकप्रस्थकपदेनैकस्य मानमात्रस्यानुपस्थापनादित्यर्थः । समाधत्ते नेति । एतन्नयेन ऋजुसूत्रनयैन, कथञ्चिद्' इत्यस्य ' अव्यासज्यवृत्तित्वेन ' इत्यनेनान्वयः, " प्रस्थक पदशकयतावच्छेदकस्य व्यासज्यवृत्तित्वेन " इत्यस्य स्थाने " 'प्रस्थकपदशक्यतावच्छेदकस्याव्यासज्यवृत्तित्वेन " इति पाठो युक्तः, करणरूपानुप्रवेशस्यापि " इत्यस्य स्थाने 'करणरूपाननुप्रवेशस्यापि ' इति पाठः सम्यक्, तथा च ऋजुसूत्रनयेन प्रस्थकपदशक्यतावच्छेदकस्य प्रस्थकात्मकमापनकरण - धान्याद्यात्मकमेयगतद्वित्वस्य कथञ्चिदव्यासज्यवृत्तित्वेन प्रत्येकावच्छेदेन माने मेये च वृत्तित्वेन प्रस्थ कपदेन मापन करणत्वेनोपलक्षितस्य प्रस्थकस्वरूपस्य विवक्षातः करणत्त्रमनुपादाय प्रस्थकपदजन्योपस्थितौ प्रस्थक स्वरूपमा श्रमानलक्षणस्य करणरूपाननुप्रवेशस्यापि सम्भवात् प्रस्थकपदोत्तर तृतीय। विभक्तयैव करणत्वस्योपस्थितिसम्भवेन प्रस्थकेन धान्यं मीयते' इति वाक्यात् प्रस्थकनिष्ठ करणतानिरूपकमापमक्रियाकर्न धान्यमिति बोधस्य सम्भवेन न ' प्रस्थ केन धान्यं मीयते' इति वाक्ये तृतीयान्तप्रस्थकपदप्रयोगानुपपत्तिरित्येवं ज्ञातव्यमित्यर्थः ।
6
66
२३१
"6