________________
४४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । प्रत्यक्षत्वव्यापकत्वात् प्रकृतसिद्धेश्च” इत्यादिनव्यकल्पनाऽपि निरस्ता, एवं सति द्रव्यविषयकप्रत्यक्षस्य वस्तुविषयकप्रत्यक्षस्य वा यत्किञ्चित्पर्यायविशिष्टविषयकत्वनियमेन भावनिर्विकल्पस्य शुद्धभावप्रत्यक्षस्यापि चासम्भवात् । ____ अत एव सविचारणया सामान्यदृष्ट्या च सर्व निर्विकल्पकं विशेषदृष्ट्या च सर्व सविकल्पकमित्यनेकान्तः पुरुषदृष्टान्तेन संमतौ प्रतिपादितः। तथाहि
" वंजणपज्जायस्य उ पुरुसो पुरुसो त्ति निश्चमविअप्पो । बालाइविगप्पं पुण पासइ से अत्थपज्जाओ ॥ ३४ ॥ सविअप्प-णिव्विअप्पं इय पुरिसं जो भणेज अविअप्पं । सविअप्पमेव वा णिच्छएण ण स णिच्छिओ समये ॥ ३५ ॥
-[ सम्मतितर्ककाण्ड०]
वच्छिन्नकार्यतानिरूपितकारणतावच्छेदकावच्छिन्नस्य सत्त्वं न तद्धर्मावच्छिन्नोत्पत्तौ प्रयोजकम्, किन्तु घटत्वविशिष्टस्य प्रतियोगित्वलक्षणवैशिष्टथविषयकप्रत्यक्षत्वं भवत्येवाभावलौकिक प्रत्यक्षत्वस्य तदभाववदवृत्तित्वलक्षणव्याप्यत्ववत् , तदवच्छिन्नयत्किञ्चिद्वयक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकयावदन्तर्गतविशेषणबुद्धित्वावच्छिन्नस्य सत्त्व एवाभावलौकिकप्रत्यक्षत्वावच्छिन्नोत्पत्तिरित्यभावलौकिकप्रत्यक्षं विशिष्टविषयकमेव भवति, तथा तद्धर्मोऽभावलौकिकप्रत्यक्षत्वम् , तद्वयाप्यं घटविशिष्टाभावलौकिकप्रत्यक्षत्वम् , तद्वयापकधर्मों घटत्वविशिष्टवैशिष्ट्यविषयक प्रत्यक्षत्वम् , तदवच्छिन्नयत्किञ्चिद्वयक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकयावद्धर्मान्तर्गतविशेषणबुद्धित्वावच्छिन्नसत्त्वे सत्येवाभावलौकिकप्रत्यक्षत्वावच्छिन्नस्योत्पत्तिरिति तस्य घटत्वादिविशिष्टवैशिष्ट्यविषयक त्वसिद्धिरित्यर्थः । निरासहेतुमुपदर्शयति- एवं सतीति- कार्यतावच्छेदकीभूततद्धर्माश्रययत्किञ्चिद्वयक्तिनिष्टकार्यतानिरूपित कारणतावच्छेदकं यावत् प्रत्येकं तदच्छिन्नस्य सत्त्वेऽवश्यं तद्धर्मावच्छिन्नोत्पत्तिरित्यादिनियमाभ्युपगमेनाभावलौकिक प्रत्यक्षस्य विशिष्टविषयकत्वमेवेति नियमस्योपपादने सतीत्यर्थः । द्रव्यविषयकप्रत्यक्षस्येति- कार्यतावच्छेदकीभूततद्धर्मो द्रव्यविषयकप्रत्यक्षत्वम् , तदाश्रययत्किञ्चिद्वयक्तियत्किञ्चित्पर्याय विशिष्टद्रव्यविषयकप्रत्यक्षव्यक्तिः, तन्निष्टकार्यता यत्किञ्चित्पर्यायविशिष्टद्रव्यविषयकबुद्धित्वावच्छिन्न कार्यता, तन्निरूपितकारणता यत्किञ्चित्पर्यायरूप विशेषणविषयकबुद्धित्वावच्छिन्न कारणता, तदवच्छेदकयावद्धर्मान्तर्गत्यत्कित्किञ्चित्पर्यायरूपविशेषणविषयकबुद्धित्वरूपधर्मावच्छिन्नस्य सत्वे एव द्रव्यविषयकप्रत्यक्षत्वावच्छिन्नस्योपपत्तिरिति तस्य यत्किञ्चित्पर्यायवैशिष्ट्यविषयकत्वस्य, तथा वस्तुविषयकप्रत्यक्षत्वरूपकायतावच्छेदकीभूतधर्माश्रययत्किञ्चित्पर्यायविशिष्टवस्तुविषयकप्रत्यक्षव्यक्तिनिष्ठयत्किञ्चित्पर्यायविशिष्टवस्तुविषयकप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितयत्किञ्चित्पर्यायविषयकबुद्धित्वावच्छिन्न कारणतावच्छेदकयावदन्तर्गतयश्चित्किञ्चित्पर्यायविषयबुद्धित्वावच्छिन्नस्य सत्त्व एव वस्तुविषयकप्रत्यक्षत्वावच्छिन्नस्योत्पत्तिरिति तस्य यत्किञ्चित्पर्यायवैशिष्ट्यविषयकत्वस्य च, नियमेन भावनिर्विकल्पकस्य शुद्धभावप्रत्यक्षस्यापि चासम्भवादित्यर्थः । एवं 'तद्धर्मव्याप्यधर्मावच्छिन्न'इत्यादिनियमे 'तद्धर्मव्याप्यव्यापकधर्मावच्छिन्न' इत्यादिनियमेऽपि चोक्तासम्भवो बोध्यः । . अत एव अभावस्येत्येव सापेक्षत्वं न भावस्येकान्तस्योक्तयुक्त्या निरासेन निरपेक्षत्वपक्षे इदन्त्वादिनाऽभावज्ञानमपि प्रतियोगिज्ञानं विना भवति, तथा भावज्ञानमपि, सापेक्षत्वपक्षे अभावज्ञानस्येव भावज्ञानस्यापि सविकल्पकत्वमेवेत्यस्य व्यवस्थित. वादेव । सामान्यदृष्ट्या सर्व निर्विकल्पकं विशेषदृष्टया सविकल्पकमित्येवमनेकान्तस्य पुरुषदृष्टान्तेन समर्थकं सम्मतिगाथायुगलमुल्लिखति-वंजण. इति- "व्यञ्जनपर्यायस्य तु पुरुषः पुरुष इति नित्यमविकल्पः । बालादिविकल्पं पुनः पश्यति तस्यार्थपर्यायः ॥ सविकल्प-निर्विकल्पमिति पुरुषं यो भणेदविकल्पम् । सविकल्पमेव वा निश्चयेन न स निश्चितः समये ॥" इति संस्कृतम् । विवृणोति-व्यञ्जयतीति । व्यञ्जनपदेनार्थमात्रवाचकस्य शब्दस्यैव ग्रहणम्, न शब्दनयस्येत्याह-न पुनः