________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
विशिष्टविषयकप्रत्यक्षत्वयोर्व्याप्यव्यापकभावाभावात् कथं विशेषसामग्रीत्वमिति वाच्यम् , कार्यतावच्छेदकीभूततद्धर्माश्रययत्किश्चिद्व्यक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकं यावत् प्रत्येकं तावदवच्छिन्न[स्य] सत्त्वेऽवश्यं तद्धविच्छिन्नोत्पत्तिरित्येव नियमात् , 'तद्धर्मव्याप्यधर्मावच्छिन्नयत्किञ्चिद्व्यक्तिनिष्ठकार्यतानिरूपित०' इत्याद्युक्तौ व्याप्तिज्ञान-परामर्शयोः सतोर्बाधधीसत्वेऽप्यनुमित्यापत्ती, 'तद्धर्मव्याप्यव्यापकधर्मावच्छिन्नयत्किञ्चद्व्यक्तिनिष्ठकार्यतानिरूपित०' इत्याद्युक्तौ गौरवात्, घटत्वादिविशिष्टवैशिष्ट्यविषयकप्रत्यक्षत्वस्याभावलौकिकप्रत्यक्षत्वव्याप्यत्वात् तत्तद्भावलौकिकप्रत्यक्षत्वव्याप्यतत्तदभावलौकिक
क्षिपति-न चेति- अस्य ‘वाच्यम्' इत्यनेनान्वयः । निषेधे हेतुमाह-कार्यतावच्छेदकीभूतेति- कार्यतावच्छेदकीभूततद्धर्मोऽभावलौकिक प्रत्यक्षत्वम् , तदाश्रयकिच्चिद्वयक्तिर्घटविशिष्टाभावलौकिक प्रत्यक्षव्यक्तिः, तनिष्टकार्यता अभावलौकिकप्रत्यक्षत्वावच्छिन्न कार्यता अभावलौकिकप्रत्यक्षत्वव्यापकाशेषधर्मावच्छिन्नकार्यता घटविशिष्टाभावलौकिकप्रत्यक्षत्वावच्छिन्नकार्यता च, तन्निरूपित कारणतावच्छेदकं यावत्- अभावलौकिकप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकाऽभावलौकिकप्रत्यक्षत्वव्यापकाशेषधर्मावच्छिन्न कार्यतानिरूपितकारणतावच्छेदक- घटविशिष्टाभावलौकिक प्रत्यक्षत्वावच्छिन्न कार्यतानिरुपितकारणतावच्छेदकानां समुदायः, प्रत्येकं तावदवच्छिन्नस्य सत्त्वेऽवश्यं तद्धर्मावच्छिन्नोत्पत्तिः- अभावलौकिकप्रत्यक्षत्वोत्पत्तिरित्येव नियमात् , तथा च 'प्रत्येक ताक्दवच्छिन्नस्य' इत्यनेन घटात्मक विशेषणज्ञानस्यापि प्रहणेन तत्सत्त्वे जायमानस्याभावलौकिकप्रत्यक्षस्य घटविशिष्टविषयकत्वस्याऽवश्यम्भावेनाऽभावनिर्विकल्पकप्रत्यक्षस्य 'न' इत्याकारकप्रत्यक्षस्य चासम्भवादित्यर्थः, 'कार्यतावच्छेदकीभूततद्धर्माश्रयत्किञ्चिद्वयक्तिनिष्टकार्यतानिरूपितकारणतावच्छेदकं यावत्' इत्यस्य स्थाने 'कार्यतावच्छेदकीभूततद्धर्मव्याप्यधर्मावच्छिन्नयत्किञ्चिद्वयक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकं यावत्' इत्युक्तिर्न सम्भवति, तथा सति व्याप्तिज्ञान-परामर्शादिकार्यतावच्छेदकीभूतधर्मोऽनुमितित्वम् , तद्वयाप्यधर्मः पर्वतविशेष्यकवहिप्रकारकानुमितित्वम् , तदवच्छिन्ना या 'पर्वतो वह्निमान्' इत्याकारकानुमित्यात्मकयत्किञ्चिद्वयक्तिनिष्ठकार्यता, तन्निरूपितकारणतावच्छेदकं व्याप्तिज्ञानत्व-परामर्शत्वादिकम् , न तु बाधज्ञानाभावत्वम् , बाधज्ञानस्य विशिष्टबुद्धिमानं प्रत्येव प्रतिबन्धकत्वेन बाधज्ञानाऽभावत्वेन विशिष्टबुद्धित्वेनैव कार्यकारणभावः, न तु बाधज्ञानाऽभावत्वेनाऽनुमितिविशेषत्वेनेति बाघधीसत्वे बाधज्ञानाभावाऽसत्त्वेऽपि व्याप्तिज्ञान-परामर्शयोः सत्त्वेन निरुककारणतावच्छेदकयावदवच्छिन्नस्य सत्तयाऽनुमित्यापत्तिः स्यादित्याह-तद्धर्मव्याप्येति । 'प्यनुमित्यापत्ती' इति स्थाने 'प्यनुमित्यापत्तेः' इति पाठो युक्तः । यद्युक्तापत्तिवारणाय 'कार्यतावच्छेदकीभूततद्धर्मव्याप्यधर्मावच्छिन्ना, या च कार्यतावच्छेदकीभूततद्धर्मव्यापकधर्मावच्छिन्ना यत्किञ्चिद्वयक्तिनिष्टकार्यता तन्निरूपितकारणतावच्छेदकं यावत् , इत्याद्यच्यते तदा कार्यतावच्छेदकीभूतानामितित्वव्याप्यपर्वतविशेष्यकवह्निविधेयकानुमितित्वावच्छिन्ना कार्यता तादृशानुमितित्वव्यापकविशिष्टबुद्धित्वावच्छिन्ना च कार्यता ग्रहीतुं शक्या, तन्निरूपितकारणतावच्छेदकयावन्मध्ये बाधज्ञानाभावत्वमपि भवति, तदवच्छिन्नस्य सत्त्वं बाधधीसत्त्वे न भवतीति बाधधीसत्त्वे व्याप्तिज्ञान-परामर्शयोः सतोरप्यनुमित्यापत्तिर्न सम्भवति, किन्त्वेवमुक्तौ गौरवं स्यादित्याह-तद्धर्मव्याप्यव्यापक धर्मति- 'तद्धर्म' इत्यस्य व्याप्ये व्यापके चान्वयः, अथवाऽग्रिम ग्रन्थस्वारस्यात् तद्धर्मव्याप्यस्य व्यापको यो धर्मस्तदवच्छिन्नयत्किञ्चिद्वयत्तिनिष्टकार्यतेत्यादिरप्यर्थः सम्भवति, तत्रापि तद्धर्मस्यानुमितित्वस्य व्याप्यं पर्वतविशेष्यकवह्निविधेयकानुमितित्वादि, तद्वय पकं विशिष्बुद्धित्वम् , तदवच्छिन्नयत्किञ्चिद्वयक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकं बाधज्ञानाभावत्वं भवति, तदवच्छिन्नस्य सत्त्वं बाधधीसत्त्वे न भवतीति न बाधधीसत्त्वेऽनुमित्यापत्तिरित्येवमुक्तापत्तिवारणं सम्भवतीति । अनुमित्यापत्तिगौरवदोषतः 'तद्धर्मव्याप्य' इत्यादि 'तद्धर्मव्याप्यव्यापक'इत्यादिनियमद्वयासम्भव उपदर्शितः, उक्तनियमद्वयोररीकारेऽप्यभावस्य विशिष्टबुद्धयात्मकमेव प्रत्यक्षम्, न निर्विकल्पक 'न' इत्याकारकं वेति प्रकृतसिद्धिर्भवत्येवेत्याह-घटत्वादीति- तद्धर्मोऽभावलौकिकप्रत्यक्षत्वम् , तथाप्यत्वं तदभाववदवृत्तित्वरूपं यथाश्रुते घटत्वविशिष्टवैशिष्टयविषयक प्रत्यक्षत्वे न सम्भवति, अभावलौकिकप्रत्यक्षत्वाभाववति 'घटवद् भूतलम्' इति प्रत्यक्षे घटत्वविशिष्टवैशिष्टयविषयकप्रत्यक्षत्वस्य सत्त्वात्, स्वसमानाधिकरणत्वे सति स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वलक्षणन्यूनवृत्तित्वरूपव्याप्यत्वस्य सम्भवेऽपि तथाविधव्याप्यत्वाकान्तधर्मा