________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
भावयोरुभयोः सन्निकर्षे घटाभावांशे प्रतियोगिविशेषितस्य पटाभावांशे च तदविशेषितस्य समूहालम्बनस्य प्रसङ्गात् । किञ्च, एवमिदन्त्वादिनाऽभावप्रत्यक्षं न स्यात् , न स्याच्च 'अभावप्रतियोगी घटः' इत्याद्याकारम् , ताशप्रत्यक्षेष्वपि पृथकारणत्वकल्पने चातिगौरवम् , तस्मात् सन्निकर्षमात्रस्यैव किञ्चिद्धर्मावच्छिन्नविषयतानिरूपितविषयताकप्रत्यक्षत्वावच्छिन्ने विशिष्टाकारप्रत्यक्षत्वावच्छिन्ने वा हेतुत्वम् , अतो नापाय. मात्रस्य विचारजन्यचरमशुद्धद्रव्योपयोगतुल्यतेति भावांशेऽभावांशे वा न शुद्धविषयकं प्रत्यक्षमित्यभाव एव सापेक्षो न भाव इति किमिदमर्द्धजरतीयम् । एतेन " अभावलौकिकप्रत्यक्षस्य घटाद्यन्यतमविशिष्टविषयकत्व नियमाद् विशेषसामग्री विना सामान्यसामग्रीमात्रात् कार्यानुत्पत्तेनाभाव निर्विकल्पकम् , 'न' इत्याकारकप्रत्यक्षं वा विशेषणादिज्ञानरूपविशेषसामग्र्यभावात् । न चाभावलौकिकप्रत्यक्षत्व-घटत्वादिविशेषितस्य पटत्वावच्छिन्नप्रतियोगितासम्बन्धेन पटाविशेषितस्य । समूहालम्बनस्य घटाभाव-पटाभावोभयविषयकसमूहालम्बनप्रत्यक्षस्य, तादृशप्रत्यक्षस्यापि प्रकारीभूतकिञ्चिद्धर्मो घटत्वम् , तदवच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकप्रत्यक्षत्वरूपकार्यतावच्छेदकधर्माकान्ततया विशेषणतासन्निकर्षतस्तदुत्पत्तिप्रसङ्गादित्यर्थः । अपि च प्रकारीभूतकिञ्चिद्धर्मावच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्षत्वरूपकार्यतावच्छेदकधर्माऽनाक्रान्ततयेदन्त्वादिनाऽभावप्रत्यक्षस्यभावप्रतियोगी 'अघटः' इत्यादिप्रत्यक्षाणां च विशेषणतासन्निकर्षादुत्पत्तिर्न भवेदिति तदुत्पत्तये कारणान्तरकल्पनं चातिगौरवं स्यादित्याह-किश्चेति । एवम् उक्तप्रकारेण विशेषणताया अभावप्रत्यक्ष प्रति कारण त्याभ्युपगमे । ताशप्रत्यक्षेष्वपि इदन्त्वादिनाऽभावप्रत्यक्षे 'अभावप्रतियोगी घटः' इत्यादिप्रत्यक्षेष्वपि । यादृश कार्यकारणभावस्वीकारे भावांशेऽभावांशे च किञ्चिद्विशेषणमुपादायैव प्रत्यक्षम्, न तु केवलाभावविषयकं केवलभावविषयकं वा प्रत्यक्षं तादृशकार्यकारणभावमुपदर्शयति-तस्मादिति- पराभ्युपगतकार्यकारणभावस्य दोषग्रस्तत्वादित्यर्थः । 'सन्निकर्षमात्रस्यैव' इत्येवकारेण केवलविशेषणताया व्यवच्छेदः। 'किञ्चिद्धर्म०'इत्यादि कार्यतावच्छेदककोटौ विशिष्य भावविषयताया अभावविषयताया वा अप्रवेशाद् भावप्रत्यक्षाऽभावप्रत्यक्षोभयोरपि निरुक्तकार्यतावच्छेदकाकान्तत्वात् सन्निकर्षमात्रेणैव जायमानं प्रत्यक्षं विशिष्टविषयकमेवेत्याह- अत इति- अनन्तरोपदर्शित कार्यकारणभाव भ्युपगमत इत्यर्थः । 'नापायमात्रस्य' इत्यत्र नजः 'तुल्यता' इत्यनेनान्वयः, अवग्रहेहाऽपायधारणारूपचतुष्टयात्मकमतिज्ञानतृतीयभेदस्याऽपायमात्रस्य, विचारजन्यः- सङ्ग्रहनय विचारप्रभवः यश्चरमशुद्धद्रव्योपयोग:- पर्यायाऽविशेषितद्रव्यमानोपयोगः, तत्तुल्यता नेत्यर्थः । एवं च भावांशेऽभावांशे वा शुद्धविषयक प्रत्यक्षं विशेषणासम्पृक्तविषयकप्रत्यक्षं सन्निकर्षमात्र कार्यतावच्छेदकधर्मानाक्रान्तत्वान्न भवत्येव, इति एतस्माद्धेतोः, परस्य यदभाव एव सापेक्षो न भाव इतीदं वचनमर्द्धजरतीयं किं-न किञ्चित् , अभावस्येव भावस्यापि किञ्चिद्विशिष्टतयैव प्रत्यक्षेण विषयीक्रियमाणत्वादुभयोः सापेक्षत्वमेवेत्याशयः ।
'एतेन' इत्यस्य 'इत्यादिनव्यकल्पनाऽपि निरस्ता' इत्यनेनान्वयः, अभावलौकिकप्रत्यक्षस्य घटाद्यन्यतमविशिष्टविषयकत्वनियमस्तदोपपद्येत यदि चक्षुरादीन्द्रियसम्बद्ध विशेषणतासन्निकर्षो घटादिज्ञानसहकृतो घटाद्यन्यतमविशिष्टाभावलौकिकप्रत्यक्षे कारणमित्येवं विशिष्य कार्यकारणभावः स्यात् , तथा च तादृशविशेषसामग्रीसहितैवाभावलौकिकप्रत्यक्षसामान्यसामग्री कार्यजनिका, न विशेषसामग्रीमन्तरा सामान्यसामग्री कार्य निका, विशेषसामग्री च घटादिविशिष्टाभावलौकिकप्रत्यक्षजनिकैवेति तत्सापेक्षसामान्यसामग्रीतोऽपि घटादिविशिष्टाभावलौकिक प्रत्यक्ष एव, नाऽभावनिर्विकल्पम् , 'न' इत्या कारकप्रत्यक्षं वा, तादृशप्रत्यक्षं च विशेषणज्ञानविरहकाल एव भवेत् , तदानीं च विशेषसामयभावात् तत्सहितायाः सामान्यसामाग्या अप्यभावे कार्यासम्भवादित्यर्थः । ननु अभावलौकिकप्रत्यक्षत्वावच्छिन्नं प्रति इन्द्रियसम्बद्धविशेषणता हेतुरित्येकः कार्यकारणभावः, अपरश्च घटत्वादिविशिष्टविषयकप्रत्यक्षत्वावच्छिन्नं प्रति घादिविशेषणज्ञानं हेतुरिति, तत्र घटादिविशेषणज्ञानसहकृतैवाभावलौकिक. प्रत्यक्षसामग्री कार्यजनिकेति नियमभावेऽभावलौतिकप्रत्यक्षं घटाधन्यतमविशिष्टविषयक मेवेति नियमो भवेत् , तादृशनियमसद्भावश्चाभावलौकिक प्रत्यक्षत्वस्य घटत्वादिविशिष्टविषयकप्रत्यक्षत्वव्यापकत्वे सति घटत्वादिविरि टविषयक प्रत्यक्षसामच्या विशेषसामग्रीत्वादुपपद्यते, न चाभावलौकिकप्रत्यक्षत्व-घटत्वादिविशिष्टविषयक प्रत्यक्षत्वयोाप्यव्यापकभावः समस्तीत्याशङ्कय प्रति