________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। .
३८९
-
पतितत्वेन नित्यत्वं क्षणिकत्वेनानित्यत्वं च स्वाभ्युपगमादेव बाह्यं तस्योत्कटत्वेन निषेढुं न शक्यमिति चेत् ? तर्हि यादृशं परमतसिद्धं नित्यत्वमनित्यत्वं च तादृशमेव निषिध्यताम् , अन्यथा धर्मिणो निषेधेऽपि व्याघातापरिहारात्, अथात्मत्वं शरीरातिरिक्तावृत्तीत्यादिरेव निषेधार्थः बाध-सिद्धिसाधनादिभयानुपनिपातादिति चेत् ? तर्हि आत्मत्वं न नित्यात्मसमानाधिकरणम् , आत्मपदवाच्यं न नित्यपदवाच्यमित्यादिरीत्या नित्यानित्यभेदवादे प्रक्षेपेणापि कथं नाक्रियावादोक्तिः इति चेत् ? अत्रेदमाभाति-विकल्पसिद्धस्य निषेध्यत्वेऽपि स्वतः कालतः इत्यादिपदार्थस्य निषेधप्रतियोगिविशेषणविधयाऽन्वयसाकासत्वेन तदुपादानं, नित्यानित्यपदे तूहेश्यधर्मिण्येव स्वार्थान्वयसाकाङ्के इति तत्परित्यागः इति प्राचीनप्रणयानुरोधेन स्थितस्य गतिचिन्तनं चैतदिति नाधिकविकल्पकल्लोललोलं चेतो विधेयम् । अज्ञानिकानां सप्तषष्टिर्भेदाः, तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः, नन्वेवं लाघवात् प्रक्रमस्य बहुव्रीहिणा
व्याख्यानमत्रादरणीयम्- ननु नित्यत्वमनित्यत्वं चाभ्युपगच्छत्येवाक्रियावादी, यतः क्षणिकविज्ञानाभिरूपात्मादिपदार्थस्तेनाभ्युपगतः, तत्र सदृशक्षणपरम्परापतितत्वलक्षणं नित्यत्वं क्षणिकत्वस्वरूपमनित्यत्वं च स्वीकृतम् , ततः कथं नित्यत्वाऽनित्यत्वोपरागेणाऽऽत्मनो निषेधस्तन्मते ? इति नित्याऽनित्यपदत्यागेऽस्त्येव बीजमिति पराकूतमुपदर्य दूषयति-क्षणिकविज्ञानामिन्नेति । "बाह्यं तस्योत्कटत्वेन" इत्यस्य स्थाने " सिद्धं तन्नोत्कटत्वेन" इति पाठो युक्तः, तत स्वमतप्रसिद्ध नित्यत्वमनित्यत्वं च, उत्कटत्वेन स्वसमये सुदृढानरूढत्वेन । निषेद्धं न शक्यमिति चेत?, एवं यधुपैयते, तर्हि तदा, यादृशं यादग्भूतमप्रच्युतानुत्पन्नस्थिरैकस्वभावादिलक्षणं, नित्यत्वं प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वलक्षणं स्वप्रागभावध्वंसानधिकरणयावत्कालस्थायित्वलक्षणं, वाऽनित्यत्वं च परमतसिद्धं नैयायिकादिमतसिद्धम् , ताशमेव तारस्वरूपमेव नित्यत्वं निषिध्यतामित्यर्थः, तथा च परमतसिद्धनित्यत्वाऽनित्यत्वोपरागेणात्मनो निषेधसम्भवादुक्तन्यासे नित्यानित्यपदप्रवेश एव युक्त इति नित्यानित्यपदपरित्यागे किं बीजमित्याशङ्का तदवस्थैवेत्याशयः। अन्यथा परमतसिद्धत्वस्यानादरे। धर्मिणो निषेधेऽपि आत्मनो निषेधेऽपि । व्याघातापरिहारात् यथाऽसतः शशशङ्गादनिषेधो न कालेश्वरादितो नियन्तुं शक्यस्तथाऽऽत्मनो निषेधोऽपीत्येवं व्याघातस्य परिहत्तमशक्यत्वात् । शङ्कतअथेति । उक्तनिषेधार्थाश्रयणे बाध-सिद्धिसाधनादिदोषोऽपि नास्तीत्याह- बाघेति- आत्मा शरीरातिरिक्तो न भवतीत्येवं निषेधार्थाभ्युपगमे परमतसिद्धस्यात्मनो धर्मित्वे तत्र शरीरातिरिक्तत्वमेवेति बाधः, शरीरमेवात्मेति मतसिद्धशरीररूपात्मनो धर्मित्वे शरीरे शरीरातिरिक्तत्वं नास्तीति सर्वैरभ्युपेयत एवेति सिद्धसाधनं स्यादेवेति । समाधत्ते-तीति । नित्या. नित्यमेदवादे" इत्यस्य स्थाने "नित्यानित्यपद" इति पाठो युक्तः, अर्थस्तु व्यक्त एव । ननु निषेधे' इत्यादि. प्रश्न प्रन्थकृत् स्वमनीषोद्भासितं प्रतिविधानमुपदर्शयति- अत्रेति- अनन्तरोपवर्णितप्रश्न इत्यर्थः । इदं विकल्पसिद्धस्येत्यादिना वक्ष्यमाणं प्रतिविधानम् । आभाति मम भासते। विकल्पसिद्धस्य परसमयप्रभवविकल्पात्मकज्ञानसिद्धस्याऽऽत्मनः । निषेध्यत्वेऽपि निषेधप्रतियोगित्वेऽपि । तदुपादानं स्वतः कालत इत्यादिपदस्योपादानम् । उद्देश्यधर्मिण्येव उद्देश्य यदात्मस्वरूपं धर्मि तस्मिन्नेव । स्वार्थान्वयसाकाङ्के स्वार्थस्य नित्यत्वादिधर्मस्यान्वये साकाङ्के स्वार्थान्वयबोधजनके। इति एवं स्वरूपविशेषात् । तत्परित्यागः निरुक्तन्यासे नित्यानित्यपदत्यागः। ईदृशप्रतिविधानादरे हेतुमुपदर्शयति-प्राचीनेति प्राचीनानां सिद्धान्तकपरिशीलनस्वभावानां सूरीणां यः प्रणयः तन्मतश्रद्धालक्षणस्तदनुरोधेन । स्थितस्य तदुक्तौ स्थितस्य विदुषः । गतिचिन्तनं तदुपपादनप्रकारविचारणम् । एतत् अनन्तरोपवर्णितं प्रतिविधानम् । इति एतस्मात् कारणात् । अस्मिन् विषये अधिकाश्चतुरशीतिविकल्पभिन्ना ये नित्यानित्यपदप्रवेशेन विकल्पास्तदात्मका ये कल्लोलास्तरजास्तैर्लोले चञ्चलमस्थिरविचारं चेतो न विधेयमित्यर्थः । अज्ञानिकभेदान् प्ररूपयति- अज्ञानिकानामिति । अज्ञानिकशब्दव्युत्पत्त्युपदर्शनेनाज्ञानिकस्वरूपमावेदयति-तत्रेति- अज्ञानिकानां सप्तषष्टिसंख्यकभेदेषु निरूपणीयेषु ननु न विद्यते सम्यग्ज्ञानस्वरूपं ज्ञानं येषां ते अज्ञाना इति बहुव्रीहिसमासाश्रयणादज्ञानशब्दादेवाज्ञानिकरूपार्थलाभसंभवात् तत्र लाघवतर्कसहकारस्यापि भावात् तद्धिताणिनिप्रत्ययमज्ञानशब्दादानीयोक्तव्युत्पत्तिकाज्ञानिकशब्दस्वरूपशब्दनिष्पादनं न सम्भवति