________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
भवितव्यम्, ततश्चाज्ञाना इति स्यात्, नैष दोष:- ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शन सहचरितत्वात्, ततश्च जातिशब्दत्वादज्ञानिका इति प्रयोगस्यैव युक्तत्वात्, अभ्युपगमस्याणिनिप्रत्ययार्थत्वेनाज्ञानाभ्युपगन्तार इति बोधस्य तत एव सम्भवाद्, बहुव्रीहौ सम्बधिमात्रस्यैव बोधापत्तेः; यद्वाऽज्ञानेनाचरन्ति तत्प्रयोजना वा अज्ञानिकाः, असश्चिन्त्य कृतबन्धवैफल्यादिप्रतिपत्तिलक्षणा अमुनोपायेन सप्तषष्टिर्ज्ञातव्याः, तथाहि - जीवादीन् नवपदार्थान् पूर्ववदवस्थाप्य पर्यान्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्वम् १, असत्वम् २, सदसत्त्वम् ३, अवाच्यत्वम् ४, सदवाच्यत्वम् ५, असदवाच्यत्वम् ६, सदसदवाच्यत्वम् ७ चेति सदादय:, तथा चैकैकस्य जीवादेः सप्त सप्त विकल्पा इत्येते नव सप्तकाविषष्टिः ६३; उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा - सत्वम् १, असत्त्वम् २, सदसत्त्वम् ३, अवाच्यत्वम् ४ चेति, ते त्रिषष्टिमध्ये प्रक्षिप्ताः सप्तषष्टिः ६७ भवन्ति, को जाना जीवः सन् किं वा तेन ज्ञातेन प्रयोजनमित्येको विकल्पः, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्य वेति को जानात्येतत् किं वा तज्ज्ञानप्रयोजनमित्यादिप्रयोगः; ननूत्पत्तेः सत्त्वा ऽसत्त्वादयः सप्त भेदाः कुतो नोपन्यस्यन्ते, उत्पत्तेः सर्वाश्रयत्वात् ; देशविषयान्त्यभङ्गत्रयस्य बहुव्रीहीतरवाक्यात् तद्धितप्रत्ययो न भवति, तद्धित प्रत्ययमन्तरेणैतद्वाक्य बहुव्रीहिस्तदर्थप्रतीतिं यदि जनयतीत्यर्थ तात्पर्य कस्य लाघवमूलकस्य 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर ' इत्यनुशासनस्योक्तार्थोपोद्बलकस्य सद्भावादित्याशयेन शङ्कते - नन्वेवमिति । ततश्च लाघवाद् बहुव्रीहिसमासस्यात्र प्राप्तत्वाच्च । अज्ञानशब्दोऽत्र न वाक्यरूपः किन्तु ज्ञानत्वावान्तरजातिविशेषावच्छिन्न शकत्वाज्जातिशब्दः पदरूप एव, एकपदे च न कस्यापि समासस्य सम्भव इति बहुव्रीहेर प्राप्तौ तद्धितप्रत्ययान्ताज्ञानिकशब्दः साधुरेवेत्यज्ञानिका इति प्रयोगस्य युक्तत्वादिति समाधत्ते नैष दोष इति - अनन्तरोपदर्शितदोषो नात्र सम्भवतीत्यर्थः । तत्र हेतुमाह - ज्ञानान्तरमेवाज्ञानमिति । ननु एकज्ञानभिन्नं द्वितीयं ज्ञानं यथा ज्ञानमित्येवोच्यते तथाऽभिमतज्ञानविशेषोऽपि ज्ञानशब्दव्यपदेश्य एव स्यान्नाज्ञानशब्दव्यपदेश्य इत्यत आह- मिथ्यादर्शनेति । तत् किं निरुक्तो ज्ञानसम्बन्धी यः कश्चित् स सर्वोऽप्यज्ञानिकशब्दव्यपदेश्यः ? नैवम्- अज्ञानाभ्युपगन्तार एवाज्ञानिका इत्येवं व्यपदिश्यन्ते, अतोऽपि नात्र बहुव्रीहिः, ततोऽज्ञानसम्बन्धिनोऽखिलस्यैव प्रतीत्यापत्तेः किन्त्वभ्युपगमार्थकत द्धितप्रत्ययान्त एवाज्ञानिकशब्दस्तेनाज्ञानिका इत्यनेना ज्ञानाभ्युपगन्तार इति बोधस्यैवोदयादित्याह - अभ्युपगमस्येति । तत एव तद्धितान्ताज्ञानिकशब्दादेव | अज्ञानिकशब्दवाच्या अज्ञानकरणकाचरणशीला अज्ञानप्रयोजना वेत्यर्थान्तरावेदकं पक्षान्तरमुपदर्शयतिद्वेति । असञ्चिन्त्येति अज्ञात्वाऽविचार्य वा कृतस्य पुण्य-पापलक्षणकर्मबन्धस्य वैफल्यमेवेत्याद्यभ्युपगमस्वरूपा अज्ञानिकाः, अमुनोपायेन - तथाद्दीत्यादिना वक्ष्यमाणप्रकारेण, सप्तषष्टिसंख्यका ज्ञातव्या इत्यर्थः । सदादयः के ? इत्यपेक्षायामाह - सत्त्वमित्यादि । एवं च सप्तषष्टिसङ्ख्याः सम्पद्यन्त इति दर्शयति तथा चेति - इत्यनुपन्यासे चेत्यर्थः । त्रिषष्टिश्चोत्पत्तिसम्बन्धिप्रकारचतुःसङ्ख्या मिलिता सप्तषष्टिसङ्ख्या सम्पद्यत इत्याह- उत्पत्ते स्त्विति- उत्पत्तिसम्बन्धिनश्चतुरः प्रकारानेव भावयति - तद्यथेति - एते च सप्तषष्टिसङ्ख्यका अज्ञानिकविकल्पाः सच्छन्दघटितप्रयोगेण तदतिदिष्टप्रयोगेण च भाव्यन्ते । को जानातीत्यादिना । तेन जीवसत्त्वेन । उत्पत्तेश्वत्वार एव विकल्पा इत्यसहमान: शङ्कते - नन्वित्यादिना । सप्तभेदोपन्यासे हेतुमाह- उत्पत्तेः सर्वाश्रयत्वादिति । अत्रोत्तरमाशङ्कते - देशेति- उत्पत्यात्मकवस्तुन एकस्मिन् देशे सत्वं विवक्षितमन्यस्मिंश्च देशेऽवाच्यत्वं विवक्षितमिति सदवाच्यत्वभङ्गो देशविषयः, वस्तुन एको देशोऽसत्तया विवक्षितोऽन्यश्चावक्तव्यतयेत्येवमसदवाच्यत्वभङ्गो देशविषयः, वस्तुन देश: सत्तया विवक्षितश्चैको देशोऽसत्तया विवक्षितः, ताभ्यामन्यश्च देशोsवक्तव्यतया विवक्षित इत्येवं सदसदवाच्यत्वभङ्गो देशविषय इति भावनयाऽन्त्यभङ्गत्रयस्य देशविषयत्वेन सम्पूर्णोत्पत्तिस्वरूपाविषयत्वेन च त्यागात्वादित्यर्थः । एवमाशङ्कितमुत्तरं दूषयति- तर्हीति एकस्मिन् देशे सत्त्वं विवक्षितमपरस्मिंश्च देशेऽसत्त्वं विवक्षितमिति कृत्वा निष्पन्नस्वरूपस्तृतीयः सदसत्त्वभङ्गोऽपि देशविषयत्वात् त्याज्यः स्यादित्यर्थः । तृतीय
-
३९०