________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समतो नयोपदेशः । त्यागाईत्वादिति चेत् ? तर्हि देशविषयः सत्त्वासत्त्वभङ्गोऽपि त्याज्यः स्यात् ; अवच्छेदकभेदेन सर्वाश्रय एवायमिति चेत् ? अन्यभङ्गत्रयेणापि किमपराद्धं यत् तस्यावच्छेदकभेदेन सर्वाश्रयत्वं न स्यादिति किं बहुना, यथा पदार्थानां ज्ञानं पर्यनुयोजनं तथा तदुत्पत्तिज्ञानं किमिति न पर्यनुयुज्यत इति ? सत्यम्साश्यानां मते सतः उत्पत्तिः, शाक्यानां नैयायिकानां चासतः, जैनानां सदसतो, वेदान्तिनां चानि. वाच्यस्येति दर्शनभेदेन चतुर्विधायाः प्रसिद्धत्वात् , भेदचतुष्टयोपन्यासे भेदान्तरस्यापि जिज्ञासितत्वेना. नतिप्रयोजनत्वात् , येन रूपेण यज्ज्ञानमवश्यमिष्ट साधनत्वेनान्यैरभिमतं तेन रूपेण तज्ज्ञानवैकल्यस्यैवा. ज्ञानवादिनापादनीयत्वादिति दिक् । विनयेन चरन्ति विनयो वा प्रयोजनमेषां ते वैनयिकाः, तेषां द्वात्रिंशद्भेदाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः, तथाहि- सुर-नृपति-यति-ज्ञाति-स्थविरा-ऽधम-मातृ-पितृणां प्रत्येकं कायेन वाचा मनसा दानेन च विकल्पस्य देशविषयत्वमसहमानः शङ्कते- अवच्छेदकभेदेनेति- सम्पूर्णस्वरूपाया एवोत्पत्तेः किञ्चिदवच्छेदेन सत्त्वं कच्चिदवच्छेदन चासत्त्वं विवक्षयित्वा तृतीयभङ्गः प्रवर्तत इत्यस्य देशविषयत्वाभावान्न त्यागाईत्वमित्यर्थः। उक्तदिशावच्छेदकभेदेन संपूर्ण वस्त्वपि सदवक्तव्यत्वा-ऽसदवक्तव्यत्व-सदसदवक्तव्यत्वैतत्रितयालिङ्गित विवक्षितं भवतीत्यन्त्यभङ्गत्रयस्यापि सर्वाश्रयत्वमेव न देशविषयत्वमिति न त्यागार्हत्वं भवेदित्याशयेनानन्तरमाशङ्कितमुत्तरं कवलयति- अन्त्यभङ्गत्रयेणापीति । किञ्च, पर्यनुयोगसप्तकवशादेव सप्त भङ्गाः प्रवर्तन्ते, पर्यनुयोगसप्तकं चोत्पत्तावप्यविशिष्टमिति सप्त विकल्पा अत्रापि किं न भवेयुरित्याह-किंबहुनेति । पर्यनुयोज्यं पर्यनुयोगस्य प्रश्नस्य विषयः। तदुत्पत्तिज्ञानं पदार्थोत्पत्तिज्ञानं किमिति न पर्यनुयज्यते केन हेतुना पर्यनुयोगविषयो न भवेत् , अपि तु पर्यनुयोगविषयः स्यादेव । ननुत्पत्तेरित्याद्यशङ्कायाः, प्रतिविधानमाह- सत्यमिति- यद्भवानाशङ्कते तत् सत्यमित्यर्थः । एवं सति पर्यवसितं विवादेन, तथा चाज्ञानिकानां सप्तषष्टिरिति सङ्ख्यानियमनमसङ्गतं स्यादित्यत आह- साडयानामिति- “असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ॥ शक्तस्य शक्यकरणात् कारणाभावाच्च सत् कार्यम् ॥1॥" इतीश्वरकृष्णकारिकया तन्मते सत्कार्यस्य व्यवस्थितेः। शाक्यानां बौद्धानाम् , मते इत्यनुवर्तते, एवमग्रेऽपि, बौद्धानां मते सर्वस्य क्षणिकत्वेनोत्पत्तितः प्राकाले न कथञ्चिदपि सत्त्वमित्यसत एवोत्पत्तिः। नैयायिकानामिति वैशेषिकाणामप्युपलक्षणम्, तेषां मते अभूत्वा भवनलक्षणाया उत्पत्तः प्राकाले नास्त्येव कार्यस्य सत्त्वमिति, असत उत्पत्तिः, उत्पत्तिरिति च सर्वत्रानुवर्तते । जैनानां स्याद्वादिनाम्, तन्मते सर्वथा सति सर्वथाऽसति च कारकाणां व्यापारवैयाद् द्रव्यरूपेण सतः पर्यायात्मना चासत इत्येवं सदसत उत्पत्तिः । वेदान्तिनां ब्रह्माद्वैतवादिनां मते ब्रह्मातिरिक्तस्याशेषस्याविद्यकस्य न पारमार्थिकसत्त्वं ब्रह्मज्ञानेनाविद्यया सहितस्य कार्यमात्रस्य निवृत्तिलक्षणबाधविषयत्वात् , नापि तस्य क्वचिदप्यप्रतीयमानत्वलक्षणमसत्त्वं प्रतीयमानत्वादित्येवं सत्त्वाऽसत्त्वाभ्यां निर्वक्तुमशक्यत्वादनिर्वाच्यस्य कार्यस्योत्पत्तिरित्येवं दर्शनभेदेन मतभेदेन, चतुर्विधायाः चतुःप्रकारायाः, उत्पत्तेः प्रसिद्धत्वाद्, भेदचतुष्टयोपन्यासे उत्पत्तेर्विकल्पचतुष्टयोपन्यासे व्यवस्थिते सति, भेदान्तरस्यापि निरुतभेदचतुष्टयभिन्नविकल्पस्यापि, जिज्ञासितत्वेन जिज्ञासितत्वमात्रेण, अनतिप्रयोजनत्वात् विशिष्टप्रयोजनाभावादित्यर्थः । येनेति-येन रूपेण सत्त्वादिना, यज्ज्ञानम् उत्पत्तिज्ञानम् , इष्टसाधनत्वेनाभिमतफल जनकत्वेन, अन्यैः साङ्क्षय-शाक्यनैयायिक-जैन-वेदान्तिभिः, अभिमतम् उररीकृतम् , तेन रूपेण सत्त्वादिना " तज्ज्ञानवैकल्य" इत्यस्य स्थाने " तज्ज्ञानवैफल्य " इति पाठो-युक्तः, अर्थस्तु व्यक्त एव । वैनयिकानां स्वरूपं तद्भेदांश्च निरूपयति-विनयेनेति तेषां वैनयिकानाम् । एते च वैनयिकाश्च । अनवधृतेति- अनवधृतानि लिङ्गाचारशास्त्राणि यैस्तेऽनवधृतलिङ्गाचारशास्त्राः, इदमेव लिङ्गमस्माकमयमेवाचारोऽस्माकमिदमेव शास्त्रं सिद्धान्तोऽस्माकमित्येवमवधृतलिङ्गा चारशास्त्रा ये न भवन्ति ते इति यावत् । किंस्वरूपास्ते ? इत्यपेक्षायामाह-विनयप्रतिपत्तिलक्षणा इति- गुर्वादीनां विनय एवास्माभिरनुष्ठेय इत्येवं या विनयप्रतिपत्ति. विनयस्वीकारस्तल्लक्षणा इत्यर्थः। अमुनोपायेन तथाहीत्यादिना अनन्तरवक्ष्यमाणेन प्रकारेण, द्वात्रिंशद् द्वात्रिंशत्सङ्खथकाः । अवगन्तव्याः ज्ञेयाः। वैनयिकानां द्वात्रिंशद्भेदावगमोपायमेव भावयति-तथाहीति । इति एवम् । चत्वारः चतु: