SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ मयानृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । देश - कालोपपन्नेन विनयः कार्य इति चत्वारो भेदाः, अष्टसु स्थानेषु प्रत्येकं मिलिता द्वात्रिंशदिति; सर्वसङ्ख्या पुनरेतेषां पाखण्डिनां त्रीणि शतानि त्रिषष्ट्यधिकानि सिद्धानि, अन्यत्राप्युक्तम् " आस्तिकमत आत्माद्या नित्याऽनित्यात्मका नव हि सन्ति । काल-नियत-स्वभावेश्वराऽऽत्मकृतितः स्व-पर संस्थाः ॥ १ ॥ काल- यदृच्छा-नियति स्वभावेश्वरा SSत्मतश्चतुरशीतिः । नास्तिकवादिगणमते न सन्ति भावाः स्व- परसंस्थाः ॥ २ ॥ अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसद्वैतावाच्याश्च को वेत्ति ॥ ३ ॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । ३९२ ] सुर-नृपति-यति-ज्ञाति स्थविरा ऽधम-मातृ-पितृषु सदा ॥ ४ ॥ " [ षटू नन्वेवमास्तिकगणस्यापि पाखण्डपक्ष निक्षेपे स्वरूपेणात्मात्येवेत्यादिनयवादिनो जैना अपि पाखण्डिनः स्युः तद्वादस्य क्रियावादभेदस्वरूपत्वादिति चेद् ? एकान्ते न तथाश्रद्धा, अत एवैकान्तेन कायादिश्रद्धानेऽपि तत्रतः सम्यकूत्वाभावः सम्मतौ प्रतिपादितः, तथाहि " नियमेण सद्दहन्तो छक्काए भावओ ण सद्दहइ । हंदी अपज्जवेसु वि सद्दहणा होइ अविभत्ता ॥ " [ स० तृ० गा० २८ ] सङ्ख्यकाः । भेदाः विकल्पाः, कायिकविनयः, वाचिकविनयः, मानसिक विनयः, दानविनयश्चेति चत्वारो भेदा इति यावत्, ते चत्वारो भेदाः प्रत्यकेमष्टसु स्थानेषु सुरे कायिकविनयादयश्चत्वारः, नृपतौ निरुक्तचत्वारः, यतिषु ते चत्वारः ज्ञातिषु ते चत्वारः, स्थविरेषु ते चत्वारः, अधमेषु ते चत्वारः, मातरि ते चत्वारः, पितरि ते चत्वार इत्येवं प्रत्येकमष्टसु स्थानेषु चत्वारो मिलिताः सन्तो द्वात्रिंशद्भेदा भवन्तीत्यर्थः । सर्व सङ्ख्येति क्रियावादिनामशीत्युत्तरं शतम्, अक्रियावादिनां चतुरशीतिः, अज्ञानिकानां सप्तषष्टिः, वैनयिकानां द्वात्रिंशत्, ताश्च सर्वा मिलिताः सर्वसङ्ख्या तथेत्यर्थः । एतेषां क्रियावाद्यादीनाम् । निरुक्तक्रियावाद्यादिसंख्याभेदे ग्रन्थान्तरसंवादमुपदर्शयति- अन्यत्राप्युक्तमिति । आस्तिकमते क्रियावादिमते, अन्यत् स्पष्टम् प्रथमपये क्रियावादिनामशीत्युत्तरशत भेदाः कण्ठतोऽनुक्ता अप्युपायोंपदर्शनेन सूचिताः । कालेत्यादिद्वितीयपद्येनाक्रियावादिनां चतुरशीतिभेदा भाविताः, नास्तिकवादिगणमते अक्रियावादिबौद्धादिमते । अज्ञानिकवादिमतमित्यादितृतीयपद्येनाज्ञानिकानां सप्तषष्टिर्भेदाः कण्ठतोऽनुक्ता अप्युपायोपदर्शनेन सूचिताः । एवं वैनयिकमतमित्यादि - तुरीयपद्ये कण्ठतोऽनुक्ता अप्युपायदर्शनेन द्वात्रिंशद्भेदाः सूचिताः, चतुर्णामपि पद्यानामर्थः पूर्वप्रन्थतः स्पष्टीकृत इति न तेषां व्याख्या आदृता । शङ्कते - नन्विति । एवं क्रियावादिनः पाखण्डिमध्ये परिगणनं कृत्वा तत्सङ्ख्याभिधानप्रकारेण । अस्त्येवेत्यादीत्यत्रादिपदेन पररूपेणात्मा नास्त्येवेत्यादीनामुपग्रहः । तद्वादस्य जैनाभिमतस्याद्वादात्मवादस्य । उत्तरयति - एकान्त इति । न तथाश्रद्धा यथाऽनेकान्तवादे जैनानां श्रद्धा तेषामेकान्तवादे तथा श्रद्धा न । अत एव यत एवैकान्तवादे श्रद्धा न तत एव । एकान्तेन षट्कायश्रद्धाने सम्यक्त्वाभावावैदिकां सम्मतिगाथामुल्लिखति - णियमेण इति नियमेन श्रद्दधानः षट् कायान् भावतो न श्रद्धत्ते । हन्दि अपर्यायेष्वपि श्रद्दधाना भवन्ति अविभक्ता । इति संस्कृतम् । उक्तगाथाया अर्थमुपदर्शयति- अस्या अर्थ इति । नियमेनेत्यस्य विवरणम् - अवधारणेनेति । अवधारणं कीदृशमित्यपेक्षायामाह - षडेवैते जीवाः कायाश्चेत्येवमिति - षट्कायानित्यस्य षट् जीवान् षट् कायाश्चेत्यर्थः । कथं भावतः षट् कायान्न श्रद्धत्ते ? इत्यपेक्षायां तत्र हेतुमुपदर्शयति- जीवराश्यपेक्षयेति । तेषां जीवानाम्, जीवत्वसामान्यापेक्षया जीवानामेकत्वेन षट्त्वैकान्तस्य तत्राभावादित्यर्थः । कायेष्वपि
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy