________________
मयानुततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो भयोपदेशः ।
अस्या अर्थः- नियमेन - अवधारणेन षडेवैते जीवाः कायाश्चेत्येवं श्रद्दधानः षट् कायान् भावतो न श्रद्धत्ते जीवराश्यपेक्षया तेषामेकत्वात् कायानामपि पुद्गलतयैकत्वात् जीवपुद्गलानामपि परस्परविनिर्भागवृत्तीनामेकरूपस्याविनिगम्यत्वात् हन्दीत्युपदर्शने, एवम् अपर्यायेष्वविवक्षित भेदपर्यायेषु, अविभक्त श्रद्धा एकरूप श्रद्धापि या सापि भावतो न श्रद्धा भवतीत्यर्थः, तथा चात्र षट्स्वा षट्स्वादिना सप्तभङ्गीपथेनानेकान्तव्यापकत्वाभ्युपगम एव श्रेयानित्यर्थः, " भावत इत्युक्तिः भङ्गया षडेव जीवकाया इति श्रद्दधतोऽपि भगवतैवमुक्तमिति जिनवचनरुचिस्वभावत्वात् द्रव्यसम्यग्दृष्टित्वं न विहन्यते " इति टीकाकृतः, तेषामयमाशयः - एकान्तश्रद्धानमात्रं न मिध्यात्वलक्षणम्, अनेकान्ताने कान्त श्रद्धाने अतिव्याप्तेः, किन्तु शासनबाह्यैकान्तश्रद्धानम्, तत्त्वं च वृद्धपरम्पराप्राप्तसूत्रा (ता ) त्पर्यंताविषयत्वम्, तेनाभिनिवेशा-ऽभिग्रहयोर्द्वयोरपि सङ्ग्रहः, न चेदृशं मिध्यात्वमनेकान्तव्यापकत्व व्युत्पत्तिरहितानैकान्तेन षट्त्वमेकत्वस्यापि भावादित्याह - कायानामपीति । न केवलं जीवानां जीवत्वेनैकत्वं कायानां पुद्गलत्वेनैकत्वमित्येव किन्तु जीव- पुद्गलानामपि परस्परमपि निर्भागवृत्तित्वेनैकत्वमित्याह - जीव- पुद्गलानामपीति । " परस्पर " इत्यस्य स्थाने " परस्परम् इति पाठः समुचितः । हन्दीत्युपदर्शने हन्दीतिशब्द उपदर्शनरूपार्थे वर्तते तथेत्युपदर्शनम् । अपर्यायेत्रित्यस्य विवरणम् - अविवक्षितभेदपर्यायेष्विति - अपर्यायेष्वित्यस्य यथाश्रुतं पर्यायरहितेष्वित्यर्थो न सम्भवति पर्यायरहितस्य द्रव्यस्याभावादत इत्थं व्याख्यानमिति बोध्यम् । अविभक्त श्रद्धापि भवतीत्यस्योपदर्शनबलात् पर्यवसितमर्थमाविष्करोति- अविभक्त श्रद्धेत्यादिना । अस्यास्तात्पर्यार्थमाह- तथा चेति- अवधारणेन श्रद्धाया भावतो. श्रद्धात्वव्यवस्थितौ चेत्यर्थः । अत्र षट्कायाभ्युपगमे । षत्वापत्वादिना सप्तभङ्गीपथेन स्यात् षट् जीवाः, स्यादषद जीवाः स्यात् षट् स्यादषट् च जीवाः, स्यादवक्तव्या जीवाः स्यात् षट् स्यादवक्तव्याच जीवाः, स्यादषट् स्यादवक्तव्याश्च जीवाः स्यात् षट् स्यादषद् स्यादवक्तव्याश्च जीवा इत्येवं सप्तभङ्गीमार्गेण । भाक्त इत्युक्तिः भङ्गया " इत्यस्य स्थाने " भावत इत्युक्तिभङ्गया इति पाठो युक्तः, प्रकृतसम्मतिगाथायां भावत इति योक्तिः - कथनं तद्भङ्गया - तदुक्तिशैल्या, अस्य ' न विहन्यते ' इत्यनेनान्वयः । षडेव जीवकाया इति श्रद्दधतोऽपि एकान्तेन षडेव जीवाः षडेव काया इत्येवं श्रद्दधतोऽपि पुरुषस्य, भगवता ऐश्वर्यशालिना केवलज्ञानवता महावीरेण । एवमुक्तं षट् जीवनिकाया इत्येवमुक्तं - कथितम् । इति इत्याकारिका या जिनवचने रुचि:- श्रद्धा तत्स्वभावत्वाद् द्रव्यसम्यग्दृष्टित्वं न विहन्यते, षडेव जीवनिकाया इत्येकान्तेन श्रद्धावानपि पुरुषो जिनवचनरुचिमत्त्वाद् द्रव्यसम्यग्दृष्टिर्भवत्येव न तु स द्रव्यतो मिथ्यादृष्टिः । इति एवमुक्तगाथाव्याख्यानम् । टीकाकृतः सम्मतिटीकाकाराः कुर्वन्ति । तेषां सम्मतिटीकाकाराणाम् । अयम् एकान्तश्रद्धानमात्रमित्यादिनाऽनन्तरमेव प्रकटीक्रियमाणः । आशयोऽभिप्रायः । अनेकान्तानेकान्तश्रद्धाने स्याद्वादिमते प्रमेयत्वव्यापकमनेकान्तत्वम्, यत्राने कान्तत्वं नास्ति न तत्र प्रमेयत्वम् इत्यनेकान्तो यद्यनेकान्त एव न त्वेकान्त इत्येवमेकान्त एव स्यात् तदाऽनेकान्तत्वस्य प्रमेयत्वव्यापकस्याभावात् प्रमेयत्वमपि तस्य न स्यादतोऽनेकान्तः कथञ्चिदनेकान्तः कथञ्चिदेकान्त इत्येवमनेकान्ताने कान्तश्रद्धाने । अतिव्याप्तेः अनेकान्ताने कान्तमनेकान्तमेकान्तमित्युभयस्वरूपमिति तच्छ्रद्धानमेकान्तश्रद्धानमपि भवति, तच्च सम्यग्दृष्टिरेवेत्यलक्ष्यम्, तत्र मिथ्यात्वलक्षणस्यैकान्तश्रद्धानस्य तादात्म्येन भावादतिव्याप्तेः । तर्हि किं मिथ्यात्वलक्षणमिति पृच्छति किन्त्विति । उत्तरयति - शासनबायैकान्तश्रद्धानमिति - मिथ्यात्वलक्षणमित्यनुकर्षेण सम्बध्येत, शासनबाह्यस्य - जैनराद्धान्तबहिर्भूतस्यैकान्तस्य श्रद्धानं मिथ्यात्वलक्षणमित्यर्थः । तत्त्वं च सिद्धान्तबाह्यत्वम् । वृद्धेति - ' सूत्रा ( ता ) त्पर्यत" इत्यस्य स्थाने " सूत्रतात्पर्या ” इति पाठो युक्तः । वृद्धश्चात्र ज्ञानवृद्धो ग्राह्यो न तु वयोवृद्धः, स चाप्त एव भवतीति आप्तपरम्परया प्राप्तं यत् सूत्रस्य - जैनागमलक्षणसूत्रस्य तात्पर्यं तदविषयत्वं शासनबाह्यत्वमित्यर्थः । तेन निरुक्तस्वरूपशासनबाह्यत्वेन, अस्य ' सङ्ग्रहः ' इत्यनेनान्वयः । तथा च षडेव जीवकाया इत्यस्यैकान्तस्य निरुक्तशासनबाह्यत्वाभावात् तच्छ्रद्धानं न मिथ्यात्वमित्याह -
66
""
१९३