SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । तदपेक्षया युगपदुभयथाहार्यतदादेशसम्भवादवक्तव्यभङ्गोत्थानमनाबाधम् । न चैवमपि तज्जनित. बोधस्य प्रसङ्गरूपत्वाद् विपर्ययपर्यवसाने सङ्ग्रह व्यवहारान्यतरसाम्राज्यमिति वाच्यम् , विषयाबाधे कूटलिङ्गजानुमितिरिव प्रकृतभङ्गजबोधस्य प्रमात्वेन विपर्ययपर्यवसानकदर्थनानवकाशात् । ___ व्यञ्जनपर्याये- शब्दनये पुनः सविकल्पः प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावादर्थस्यैकत्वाच्च, द्वितीय-तृतीययोर्निविकल्पश्च द्रव्यार्थात् सामान्य लक्षणान्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात् तयोः, तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव, सभभिरूद्वैवंभूतयोर्नास्त्येवेति द्वौ भङ्गो लभ्येते । लिङ्ग-संज्ञा-क्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वाच्छब्दादिषु तृतीयः। प्रथम-द्वितीयसंयोगे चतुर्थः, तेष्वेव चानभिधेयसंयोगे पञ्चम-षष्ठ-सप्तमवचनमार्गाः सम्भवन्ति । अथवा शब्दनये पर्यायान्तरसहिष्णो सविकल्पो वचनमार्गः, तदसहिष्णौ तु निर्विकल्प इति द्वावेव भङ्गो, अवक्तव्यदेशो यद्याहार्यस्तदा तदुत्थतृतीयभङ्गजन्यज्ञानं प्रसङ्गरूपम् , प्रसङ्गस्य विपर्ययपर्यवसानमिति तद्विपर्ययः सत्त्वावधारणं यदि तदा सङ्ग्रहः, यदि च नास्तित्वावधारणं तदा च्यवहार इत्येवं सङ्ग्रह-व्यवहारान्यतरसाम्राज्यमित्याशङ्कय प्रतिक्षिपति-न चैवमपीति । तजनितबोधस्थ आहार्यतदादेशस्वरूपतृतीयभङ्गजनितबोधस्य । आहार्यतदादेशोऽपि ऋजुसूत्रनयापेक्षयैव, वस्तुतस्तु तृतीयभङ्गप्रतिपाद्यं यदवक्तव्यत्वं तदस्त्येव वस्तुनीति तज्ज्ञानं प्रमात्मकमेवेति न तस्य विपर्ययपर्यवसानम् , यत्र देशे वह्निरस्ति तत्र धूलीपटलाद् धूमत्वेन गृहीतात् कूटादपि जायमानस्य वह्निज्ञानस्यानुमित्यात्मकस्य विषयाबाधतो यथा प्रमात्वं तथा प्रकृतस्यापि प्रमात्वसम्भवादिति निषेधहेतुमुपदर्शयति-विषयाबाध इति । उत्तरार्द्ध विवृणोति-व्यञ्जनपर्याय इति। शब्दनयः खलु साम्प्रत-समभिरूढवम्भूतभेदेन त्रिविधः, तत्र सविकल्पः कस्मिन्नित्यपेक्षायामाह-प्रथम इति- साम्प्रताख्ये शब्दनयस्य प्रथमभेदे पुनः सविकल्प इत्यर्थः । 'सविकल्पः' इत्यस्य विकल्पसहित इत्यर्थः, विकल्पश्चात्र पर्यायशब्दवाच्यतालक्षण इत्यभिप्रायेणाह- पर्यायेति- साम्प्रतनये एक एव घटरूपोऽर्थो घट-कुट कुम्भ-कलशाद्यनेकशन्दवाच्यो भवति, तथा चैकस्य शब्दस्य तत्समानार्थकोऽन्यशब्दः पर्यायशब्दः, तद्वाच्यतालक्षणविकल्पसद्भावात् , अर्थस्य अभिधेयस्य घटात्मकस्यैकत्वाच्च साम्प्रतनये सविकल्पक इत्युपपद्यत इत्यर्थः। द्वितीय तृतीययोः शब्दनयस्य द्वितीय-तृतीयभेदयोः समभिरूढैवम्भूतयोः। 'निर्विकल्पश्च' इति कथं घटते? इत्यपेक्षायामाह-द्रव्यार्थादिति- द्रव्यार्थिकनयविषयात् सामान्यस्वरूपात्, निर्गतस्य- सर्वथा भिन्नस्य, पर्यायात्मकस्य विकल्पस्याऽभिधायकत्वात् , तयोः- समभिरूढैवम्भूतयोः, अत्र निर्गतो विकल्पो वाच्यतया यस्य स निर्विकल्पः, कस्मान्निर्गत इत्यपेक्षायां 'सामान्याद्' इति, कोऽयं विकल्प इत्यपेक्षायां पर्यायरूप इति बोध्यम् । एतावता शब्दनये को भङ्गः कस्मिन्नये इति न ज्ञायत इति तदवगमायाह-तथा चेति- शब्दनये उक्तदिशा सविकल्प-निर्विकल्पव्यवस्थितौ चेत्यर्थः । शब्दनये साम्प्रताख्यशब्दनये । समभिरूढेति- समभिरूढवम्भूतयोर्घटो घटवाचकयावच्छन्दवाच्यो नास्त्येवेत्यर्थः, एवं च 'घटवाचकयावच्छब्दवाच्यत्वेनास्त्येव घटः' इति प्रथमभङ्गः साम्प्रतनये, 'घटवाचकयावच्छब्दवाच्यत्वेन नास्त्येव घटः' इति द्वितीय भङ्गः समभिरू द्वैवम्भूतयोरित्येवं सविकल्पो निर्विकल्पश्चेत्यतो द्वौ भनौ लभ्येते इत्यर्थः । 'स्यादवक्तव्यः' इति तृतीयभङ्गं शब्दनये उपपादयति-लिङ्केति- लिङ्गभेदेन भिन्नस्यार्थस्यैकशब्दावाच्यत्वात् साम्प्रतनये 'स्यादवक्तव्यः' इति, संज्ञाभेदेन भिन्नस्यार्थस्यैकशब्दावाच्यत्वात् समभिरूढनये 'स्यादवक्तव्यः' इति, क्रियाभेदेन भिन्नस्यार्थस्यकशब्दावाच्यत्वादेवम्भूतनये 'स्यादवक्तव्यः' इत्येवं शब्दादिषु तृतीयभङ्ग इत्यर्थः। 'स्यादस्त्येव' इतिप्रथमभङ्ग'स्यान्नास्त्येव'इतिद्वितीयभङ्गयोः संयोगे' स्यादस्ति स्यान्नास्ति च' इति चतुर्थभङ्ग इत्याह-प्रथमेति । तेष्वेव चेति-प्रथम द्वितीय-चतुर्थेष्वेव चेत्यर्थः । अनभिधेयसंयोगे 'स्यादवक्तव्यः' इति तृतीयभङ्गसंयोगे। पञ्चमेत्यादि-प्रथमतृतीभङ्गसंयोगे पञ्चमभङ्गः, द्वितीय-तृतीयसंयोगे षष्टभङ्गः, चतुर्थ-तृतीयसंयोगे सप्तमभङ्ग इत्यर्थः। शब्दनये प्रथम-द्वितीयावेव भङ्गो न त्वन्ये इति कल्पान्तरमाह- अथवेति । पर्यायान्तरसहिष्णो घटशब्दवाच्यस्य घटस्य कुटादिशब्दा अपि वाचका भवन्तीत्यभ्युपगन्तरि शब्दनये साम्प्रताख्ये । सविकल्पो वचनमार्गः सविकल्पवचनमार्गो घटवाचकयावच्छब्दवाच्यो घटोऽस्त्येवेत्यर्थकः 'स्यादस्त्येव' इति प्रथमो भङ्ग इत्यर्थः । तदसहिष्णौ तु पर्यायान्तरासहिष्णौ समभिरूढवम्भूताख्यशब्दनये पुनः। निर्विकल्पः घटवाचकयावच्छन्दवाच्यो घटो नास्त्येवेत्यर्थकः 'स्यान्नास्त्येव' इति द्वितीयभङ्ग इत्यर्थः ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy