________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । इति गाथाभ्यां सादृश्यसम्बन्धमात्रेणाहत्प्रतिमाया अर्हतः( इव ) द्रव्यलिङ्गिनो भावसाधो. स्तटस्थेन स्मृतेरुत्थापकतयाऽध्यात्मशुद्धिप्रभवनिर्जराङ्गत्वेन वन्दनीयत्वं यदाक्षिप्तं पूर्वपक्षकृता, तत्राचार्यरेकत्रोत्कटदोषवत्त्वेनोपस्थिते समानसंविसंवेद्यतालभ्यगुणवत्सादृश्यधीस्तद्गतदोषानुमितिरूपतया गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वेन बलवदनिष्टानुबन्धावहा, अन्यत्र चोक्तकारणाभावान्न तथात्वमिति वैषम्यमुद्भावयित्वा समाधानं कृतम्" सन्ता तित्थयरगुणा तित्थयरे तेसिमं तु अज्झप्पं । ण य सावज्जा किरिया इयरेसु धुवा समणुना ॥१॥"
[ आवश्यके गा० ११४४ ] इति गाथया, अस्यार्थ:- सन्तो-विद्यमानाः शोभना वा, तीर्थकरत्वेन प्रतीयमानस्य गुणाः, निर्जरां विपुलाम् ॥१॥ लिङ्गं जिनप्रज्ञप्तमेव नमतो निर्जरा विपुला । यद्यपि गुणविप्रहीनं वन्दते अध्यात्मशुद्धयै ॥२॥" इति संस्कृतम् । गाथाभ्यामित्यस्य पूर्वपक्षकृता वन्दनीयत्वं यदाक्षिप्तमित्यनेनान्वयः। सादृश्यसम्बन्धमात्रेण भावेन सह स्थापनायाः सादृश्यलक्षणसम्बन्धमात्रेण । अर्हत्प्रतिमाया अर्हत इव अर्हत्प्रांतमातो यथाऽर्हतः स्मृतेरुदयस्तथा । द्रव्यलिङ्गिन इति- भावसाधुना समं द्रव्यलिङ्गिनः पार्श्वस्थादेरपि सादृश्यलक्षणसम्बन्धोऽस्ति, तन्मात्रेण द्रव्यलिङ्गिस्वरूपस्थापनातो भावसाधोः स्मृतेः सम्भवेन भावसाधुविषयकस्मृत्युत्थापकत्वेन द्रव्यलिङ्गिलक्ष गस्थापनाया अध्यात्मशुद्धि
न तटस्थेन पुरुषेण वन्दनीयत्वं स्यादिति पूर्वपक्षकृता यदाक्षिप्तमित्यर्थः। तत्र उक्ताक्षेपे। आचारि त्यस्य इति वैषम्यमुद्भाव्य समाधानं कृतमित्यनेनान्वयः । वैषम्यमेव दर्शयति - एकत्रेति- पार्श्वस्थादिभावसाधुस्थाप्य. स्थापनभावस्थले इत्यर्थः। उत्कटदोषवत्वेनोपस्थिते इति- द्रव्यलिङ्गिनः पार्श्वस्थादेर्दर्शने सति तद्गतदोषोऽपि दर्शन. पथमुपैतीति उत्कटदोषवत्त्वेनोपस्थिते पार्श्वस्थादावित्यर्थः, समानसंविसंवेद्यतालभ्यगुणवत्सादृश्यधीस्तद्गतदोषानुमितिरूपतयेति- अनेन सदृशः स इति ज्ञाने सति तेन सदृशोऽयमिति ज्ञायत एवेति पार्श्वस्थगतभावसाधुसादृश्य-भावसाधुगतपार्श्वस्थसादृश्ययोः समानसंविसंवेद्यत्वमिति समानसंविद्यतया लभ्या आत्मलाभमुपगता जन्येति यावत् या गुणवत्सादृश्यधीगणवतो भावसाधोव्य लिङ्गिनि सादृश्य धीः, सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मरत्वम्, तत्र भिन्नत्वं वैधर्म्यरूपम् , प्रकृते उत्कटदोषवत्त्वेनोपस्थिते गुणवतो वैधर्म्यमुत्कटदोषवत्त्वमेवेत्यनुमितिरूपा गुणवत्सादृश्यधीः पार्श्वस्थगत. दोषानुमितिरूपाऽपि स्यादित्येवं तद्गतदोषानुमितिरूपतयेत्येवमर्थो नात्रादरणीयः, यत उत्कटदोषवत्त्वेनोपस्थिते पार्श्वस्थादौ दोषवत्चं प्रत्यक्षसिद्धमेवेति * नहि करिणि दृष्टे चीत्कारेण तमनुमिनुते * इति न्यायेन तस्यानुमितिविधेयत्वं न सम्भवति, किन्तु सादृश्यप्रतियोग्यनुयोगिनोर्मध्ये एकस्योत्कटदोषवत्त्वेनोपस्थितौ तदन्यस्य गणवतोऽपि तेन समं सादृश्यज्ञानमनुमितिरूपं तद्गतदोषस्यापि तदन्यस्मिन्ननुमितिरूपं भवतीत्युत्कटदोषवत्वेनोपस्थिते पार्श्वस्थादौ सति तस्य गुणवति भावसाधौ या सादृश्यधीः सा पार्श्वस्थनिष्ठबहुधर्मावगाहिनी सती पार्श्वस्थनिष्ठबहुधर्मान्तर्गततद्गतदोषस्यापि भावसाधाववगाहिनीत्येवं भावसाधौ पार्श्वस्थगतस्य दोषस्यानुमितिरूपतयेत्यर्थ एवात्राश्रयणीयः, तथा च भावसाधुगतदोषानुमितिरूपतया, गुणवदपकर्षव्यञ्जकत्वेन गुणवतोभावसाघोर्दोषवत्ताप्रयुक्तापकर्षस्य व्यञ्जकत्वेन, तन्निदानरूपत्वेन, बलवदनिष्टमनुबध्नातीति बलवदनिष्ठानुबन्धावहा, गुणवति भावसाधौ उत्कटदोषवतो द्रव्यलिङ्गिनः सादृश्यधोरतस्तत्स्थापनायाः सूत्रबोधितवलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्बोधकाभिप्रायाकारान्यतरवत्त्वलक्षणं तत्स्थापनात्वं न सम्भवतीत्यर्थः। अन्यत्र चेतिभावजिन-जिनप्रतिमयोः स्थाप्यस्थापनभावस्थले चेत्यर्थः, उक्तकारणाभावात् उक्तदिशा गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वलक्षणकारणाभावात् , न तथात्वं न भावजिने जिनप्रतिमासादृश्यधियो बलवदनिष्टानुबन्धावहत्वम्, इति एवं स्वरूपं, वैषम्यं भावसाधुद्रव्यलिङ्गिस्थाप्यस्थापकभाव-भावजिनजिनप्रतिमास्थाप्यस्थापनयो_लक्षण्यम् , उद्धावयित्वा उपदर्य, समाधानम् उक्ताक्षेपप्रतिविधानम् , कृतं 'सन्तो तित्ययरगणा' इत्यादिगाथयेति सम्बन्धः । सन्ता० इति- "सन्तस्तीर्थकरगणास्तीर्थकरे तेषामिदन्त्वध्यात्मम् । न च सावद्या तासु क्रिया इतरेषु ध्रुवा समनुज्ञा ॥१॥" हति संस्कृतम् । अस्यार्थः अस्य गाथावचनस्यार्थोऽयमुपदर्यते । सन्त इत्यस्य विद्यमाना इति वा अथवा शोभना इति विवरणम् ।