________________
नयामृततरङ्गिणी·तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
शयस्य वा विधायिनी । न च स्थापनाविषये उत्कटतरे दोषे प्रतिसन्धीयमाना [ इति शेषः, ] स्थाप्य - स्थापकभावना फलवतीति शेषः, तथा च द्रव्यलिङ्गिदर्शनादपि न भावसाधुगुणाननुस्मृतिरेव, तन्नियामकप्रायिकसादृश्यरजोहरण- गोच्छक पतग्रहादिरूपस्य तस्या बाधित्वात् किन्तूत्कटदोषवत्वेन प्रतिसन्धीयमानस्य सादृश्याद् गुणवदनुस्मृतिः सूत्रबोधितबलवदनिष्टानुबन्धिकैव इति न यथोक्तविशेषणविशिष्टं स्थापनालक्षणं तत्रेत्युक्तं भवति, अत एव वन्दनकनिर्युक्तौ —
"
" तित्थयरगुणा पडिमासु णत्थि णिस्ससंयं वियाणंतो । तित्थयर त्ति णमन्तो सो पावइ णिज्जरं विउलं ॥ १ ॥ लिंगं जिणपण्णत्तं एव णमंतस्स णिज्जरा विउला । जइवि गुणविप्पहीणं वंदइ अज्झप्पसोहीए ॥ २॥ ' [ आवश्यके गा० ११४२-४३] ज्ञानम्, तस्मिन् सति अपरसम्बन्धिन: स्थाप्यस्य स्मृतितिरिति नियमबलेन स्थापनाज्ञानात् स्थाप्यस्मृतिः, ततश्च स्थाप्ये भावे आदरो भवतीत्येवं स्थापनाधीः स्थाप्यस्मृतिद्वारा भावादरस्य विधायिनीत्यर्थः । भावादरः को यस्य विधायिनी स्थापनाधीरित्यपेक्षायामाह - भावादरस्येति अस्य विवरण- स्थाप्यगतगुण प्रणिधानोद्रेकस्य तज्जनितनिर्जरातिशयस्य वेति-स्थाप्यो भावस्तद्गतो यो गुणस्तत्र यत् प्रणिधानं चित्तस्यैकाग्रीकरणं तस्य य उदेकोऽतिशयितता तस्य, अस्य विधायिनीत्यनेन सम्बन्धः, वा अथवा, तज्जनितः स्थाप्यगतगुणप्रणिधानोद्रेकजनितो यो निर्जरातिशय:- कर्मपुद्गलपरिशाटातिशयस्तस्य विधायिनी स्थापनाधर्यतोऽतोर्हत्प्रतिमायामतो धीरेवोक्तखरूपस्थापनया निरुक्तफलवतीत्यर्थः । द्रव्यलिङ्गिनि स्थापनया भावसाधोधर्न फलवतीत्युपदर्शयति- न चेति- अस्य फलवतीत्यनेन शेषविषयेणान्वयः । मूले उत्कटतरे दोषे इत्यस्ति विषयस्तु नोपात्त इत्यतो विषयोल्लेखेन योजयति-स्थापनाविषये उत्कटतरे दोषे इति - सति सप्तमीयम् । गुणवत्यपि स्थापये स्थाप्य स्थापकभावनाऽप्रबुद्धा न तत्स्मृतिजनिकेत्यतो न तस्या अपि फलवत्त्वमिति स्थाप्ये उत्कटतरदोषे भवतु अप्रबुद्धायाः स्थाप्यस्थापकभावनायाः फलवत्त्वाभावो न स दोषावह इत्यतः स्थाप्यस्थापकभावनां विशिनष्टि - प्रतिसन्धीयमानेति । स्थापनाविषये स्फुटतरदोषे सत्यपि प्रतिसन्धीयमाना स्थाप्यस्थापकभावना भवत्येवेति न तन्निषेधः कर्तुं शक्य इत्यत आह- फलवतीति शेष इति तथा च यादृशं फलमन्त्राभिप्रेतं तादृशफलं निरुक्तस्थाप्यस्थापकभावनाया न सम्भवतीति तादृशफलवत्त्वेन तस्या निषेधो युक्त इत्याशयः । सूत्रबोधितेत्यादि स्थापनालक्षणं यत् प्रागुपदर्शितं तदेवोक्तपद्येन मूलकर्तुरभिमतम्, तदभावाच्च द्रव्यलिङ्गिनि भावसाधोः स्थापनाया न स्थापनात्वमित्युपदर्शयति तथा चेति- स्थापनाविषये उत्कटतरदोषे सति प्रतिसन्धीयमानायाः स्थाप्यस्थापक भावनायाः फलवत्त्वाभावे व्यवस्थिते चेत्यर्थः । न भावसाधुगुणाननुस्मृतिरेवेत्यत्र निषेधद्वयतो भावसाधुगुणानुस्मृतिर्भवत्येवेत्यर्थः प्रतीयते । कुतो द्रव्यलिङ्गिदर्शनादपि भावसाधुगुणानुस्मृतिर्भवत्येवेत्याकाङ्क्षायामाह - तन्नियामकेति - " तन्नियामक प्रायिकसादृश्यरजो " इत्यस्य स्थाने " तन्नियामक प्रायिकसादृश्यस्य रजो " इति पाठो युक्तः, तन्नियामक प्रायिक सादृश्यस्य- भावसाधुगुणानुस्मृतिनियामकस्य भावसाधुना समं कतिपयधर्मप्रयुक्तसादृश्यस्य, किंरूपस्य तस्येत्यपेक्षायामाद- रजोहरणेत्यादि । " तस्यावाधित्वात् ” इत्यस्य स्थाने " तत्राबाधित्वात् " इति पाठः सम्यकू, द्रव्यलिङ्गिनि निरुक्तसादृश्यस्य बाधितत्वाभावादित्यर्थः । पृच्छति - किन्त्विति । उत्तरयति - उत्कट्ठेतिपार्श्वस्थादिव्यलिङ्ग्यप्युत्करदोषवत्त्वेन प्रतिसन्धीयमानोऽतस्तस्य यन्निरुक्तसादृश्यं तस्माद् या गुणवद्भाव साधुस्मृतिः सा सूत्रबोधितफलवदनिष्टानुबन्धिचैव न तु सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताका, इति एतस्मात् कारणात् यथोक्तविशेषणविशिष्टं स्थापनालक्षणं सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गत गुणस्मृतिजनक संस्कारोद्बोधकाभिप्राया ssकारान्यतरसम्बन्धवत्त्वस्वरूपं स्थापनालक्षणम्, न तत्र द्रव्यलिङ्गिनि भावसाधुस्थापनायां न भवति, इति एवं स्वरूपम् उक्तं भवति " सा हि स्थाप्यस्मृतिद्वारा ' " इत्यादिपद्येन प्रतिपादितं भवति । उक्तार्थोपोलकं प्रश्न- प्रतिविधानाभ्यां प्रवृत्तं वन्दनकनिर्युक्तिमतं गाथाकदम्बकं संवादकतयोपदर्शयति- अत एवेति- अर्हत्प्रतिमायामहतो धीः स्थापनया भावादर विधायिनी भवति, उत्कटतरदोषवति द्रव्यलिङ्गे स्थापनया भावसाधुधीर्भावादर विधायिनी न भवतीति विशेषादेवेत्यर्थः । तित्थयर० इति - " तीर्थकरगुणाः प्रतिमासु न सन्ति निःसंशयं विजानन्तः । तीर्थकर इति नमन्तः प्राप्नुवन्ति
२७९