________________
२७८
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । क्तम्-सिद्धान्तवचनमनुल्लङ्घयाक्षादावेवाभिप्रायसम्बन्धं प्रतिमादावेव चाकारसम्बन्धं पुरस्कृत्य स्थापनाऽऽद्रियते, अन्यतः-- अन्यस्थले च नामनिक्षेप इति क्वातिप्रसङ्गः ? तथा च सूत्रबोधितबलवदनिष्टाननु. बन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्बोधकाभिप्रायाऽऽकारान्यतरसम्बन्धवत्त्वं तत्स्थापनात्वमिति फलितं भवति ॥ ९९॥ उक्तविशेषप्रयोजनमेवोपदर्शयितुमाह
अत एव न धीरर्हत्प्रतिमायामिवार्हतः।।
भावसाधोः स्थापनया, द्रव्यलिङ्गिनि कीर्तिता ॥ १० ॥ नयामृत-अत एवेत्यादि । अत एवोक्तविशेषणनिवेशध्रौव्यादेव, अर्हत्प्रतिमायामहंत इव, द्रव्यलिङ्गिनि-प्रकटप्रतिषेविणि पार्श्वस्थादौ, स्थापनया भावसाधोर्धी सिद्धान्ते न कीर्तिता ॥ १० ॥ कुत इत्याह
सा हि स्थाप्यस्मृतिद्वारा, भावादरविधायिनी ।
न चोत्कटतरे दोषे, स्थाप्य-स्थापकभावना ॥ १०१ ॥ नयामृत-सा हि- स्थापनाधीहि, स्थाप्यस्मृतिद्वारा- एकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मृतिरिति नियमविधया स्थाप्यस्मृतिव्यापारेण, भावादरस्य- स्थाप्यगतगुणप्रणिधानोद्रेकस्य तजनितनिर्जरातिस्थापनात्वापत्तरित्याशङ्कायामाह- यदिति- यस्मात् कारणादित्यर्थः । श्रुतोक्तमित्यस्य विवरणं-सिद्धान्तवचनमिति । अनुलथेति अभिप्रायाकारयोगतः इत्यस्याप्यन्वयं समालम्ब्य विवरणम्- अक्षादाववाभिप्रायसम्बन्धं प्रतिमादावेव चाकारसम्बन्धं पुरस्कृत्येति। अनुल्ल येत्यस्य समानकर्तृकक्रियान्तरसाकाङ्क्षत्वादाद्रियत इति पूरणम् , अन्यत इत्यस्य विवरणम्- अन्यस्थले चेति । नामेत्यस्य विवरणं- नामनिक्षेप इति । इति एवमुपगमे । कातिप्रसङ्गः? अतिप्रसङ्गो न भवतीत्यर्थः । एतावता स्थापनायाः किं लक्षणं निष्टङ्कितं भवता येनातिप्रसङ्गस्तस्य न स्यादित्यपेक्षायामाहतथा चेति- सिद्धान्तवचनं पुरस्कृत्य स्थापनाया आदरणे चेत्यर्थः । सूत्रबोधितेति-सूत्रबोधितो यो बलवदनिष्टाननुबन्धीष्टसाधनताकस्तद्गतगुणस्मृतिजनकसंस्कारोद्बोधकोऽभिप्राय आकारश्च तदन्यतरसम्बन्धवत्त्वं तत्स्थापनात्वमित्येवं स्थापनालक्षणं निष्कृष्टं भवतीत्यर्थः, यस्य स्थापनात्वं यस्मिन् सङ्गमनीयं तत् तद्गतगुणत्यत्र तत्पदेन ग्राह्यम्, तन्नामादावभिप्रायश्च न बलवदनिष्टाननुबन्धीष्टसाधनताकत्वेन तद्गतगुणस्मृतिजनकसंस्कारोद्बोधकतया सूत्रबोधित इति नोक्तलक्षणस्य नामादावतिव्याप्तिरित्याशयः ॥ ९९॥
शततमपद्यमवतारयति- उक्तविशेषप्रयोजनमिति- बलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोदोधनलक्षणप्रयोजनमित्यर्थः । विवृणोति- अत एवेत्यादीति । अत एवेत्यस्य विवरणम् - उक्तविशेषणध्रौव्यादेवेतिअभिप्रायाऽऽकारान्यतरसम्बन्धे सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्बोधकत्वविशेषणनिवेशस्यावश्यकत्वादेवेत्यर्थः । अईत्प्रतिमाया अर्हत इवेति- अर्हत्प्रतिमायामहतो धीर्यथा सिद्धान्ते कीर्तिता तथेत्यर्थः । द्रव्यलिङ्गिनीत्यस्य विवरणं-प्रकटप्रतिषेविणि पार्श्वस्थादाविति । स्पष्टत्वादन्यन्न व्याख्यातम् ॥१०॥
एकोत्तरशततमपद्यमवतारयति-कुत इति अर्हतः प्रतिमायामहतो धीः स्थापनया सिद्धान्ते कीर्तिता, द्रव्यलिशिनि स्थापनया भावसाधो(सिद्धान्ते न भणितेत्येतद्वैलक्षण्यं कुत इत्यर्थः । विवृणोति-सा हीति, अस्य विवरणं-स्थापनाधीहीति । स्थाप्यस्मृतिद्वारेत्यस्य विवरणं-स्थाप्यस्मृतिव्यापारणेति, एतस्योपोलकं च-एकसम्बन्धिानेs. परसम्बन्धिस्मृतिरिति नियमविधयेति-स्थाप्य स्थापनयोः स्थाप्यस्थापनभावसम्बन्ध इति स्थापनाज्ञानमेकसम्बन्धि