________________
२७७
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। उपचरितविभागाभावेन तत्स्थलीयसङ्ग्रहादेतत्स्थलीयसङ्ग्रहस्य विशेषात् , पाश्चात्योपरितनयोर्विकासकसङ्कोचकविशेषणवत्त्व एव मध्यवर्तिनयस्य पाश्चात्यार्थसङ्कोचरूपसङ्ग्रहपरत्वनियमाञ्चेति दिक् ॥ ९८ ।। ___ ननु सादृश्यसम्बन्धस्य स्थापनानिक्षेपनियामकत्वे असद्भावस्थापनोच्छेदप्रसङ्गः, अभिप्रायसम्बन्धस्यापि तन्नियामकत्वे च नाम्न्यपि तस्य सुवचत्वादतिप्रसङ्गस्तदवस्थ एवेत्याशङ्कायामाह
अतिप्रसङ्गो नैवं चाभिप्राया-ऽऽकारयोगतः।
यत् श्रुतोक्तमनुलय, स्थापना नाम चान्यतः ॥ ९९ ॥ नयामृत-अतिप्रसङ्ग इति । एवम्- उक्तासङ्करप्रकारेण चातिप्रसङ्गो न भवति, यत् श्रुतो.
नैगमात् समहस्य विशेषस्तथा, अत्रापि निक्षेपविषयेऽपि, चतुर्निक्षेपस्वीकर्तुः नाम-स्थापना-द्रव्य-भावभेदेन निक्षेपचतुष्टयाभ्युपगन्तुः, ततः नैगमनयात्, तत्रयस्वीकारेणैव नाम-द्रव्य-भावात्मकनिक्षेपत्रयस्वीकारेणैव, विशेषः भेदः । समाधत्ते-मैवमिति । देशवदिति- देश-देशिनोरभेदाद् देशिनः सकाशाद् देशस्य पृथक्तयाऽऽश्रयणमुपचारादेव, उपचारश्च सङ्ग्रहनये नेष्ट इति न सङ्ग्रहनये देशस्य प्रदेश इति यथा तथेत्यर्थः । स्थापनाया उपचरितविभागाभावेनेतिदेशिनः सकाशाद् देशस्योपचरितविभाग इति उपचारानभ्युपगन्त्रा सङ्ग्रहेण स नेष्यते, नाम्नः सकाशात् स्थापनाया यो बिभागः सोऽनुपचरित इति सङ्प्रहेण स उपेयत इत्युपचरितविभागाभावेनेत्यर्थः । तत्स्थलीयसङ्ग्रहात् प्रदेशाभ्युपगम स्थलीयसमहात् । एतत्स्थलीयसङ्ग्रहस्य निक्षेपाभ्युपगमस्थलीयसङ्ग्रहस्य । “पाश्चात्योपरितनयोः" इत्यस्य स्थाने "पाश्चात्योपरितननययोः" इति पाठो युक्तः, पाश्चात्यो नयो व्यवहारनयः, उपरितननयो नैगमनयः, तयोः, विकासक-सङ्कोचविशेषणवत्त्वे एव पाश्चात्यनयस्य विकासकविशेषणवत्त्वम् , उपचरितनयस्य सङ्कोचकविशेषणवत्त्वमित्येवं विकासकसङ्कोचविशेषणवत्त्वे सत्येव, अर्थाद् येन विशेषणेन पाश्चात्यो नयोऽन्योऽन्यविभक्तरूपेणार्थग्राहकः, येन च विशेषणेनोपरितननयोऽविभक्तरूपेणार्थग्राहकः, एको नयोऽथविकासं विदधाति, अपरो नयोऽथेसङ्कोचमाधत्ते इति । मध्यवर्तिनयस्य नैगम-व्यवहारमध्यवर्तिनो नयस्य । पाश्चात्येति-पाश्चात्यो यो व्यवहारनयस्तस्य यो विव स्तस्य सङ्कोचरूपसङ्ग्रहपरत्वस्य नियमाचेत्यर्थः, प्रकृते तु नैगमोऽपि निक्षेपचतुष्टयमभ्युपैति व्यवहारोऽपि निक्षेपचतुष्टयं स्वीकरोति, न च तयोर्विकास-सङ्कोचकविशेषमवत्त्वमिति न तन्मध्यवर्तिन एतत्स्थलीयपङ्ग्रहस्य पाश्चात्यार्थ. सङ्कोचरूपसङ्ग्रहपरत्वमिति नैगम-व्यवहारयोरिव सङ्ग्रहस्यापि प्रकृते निक्षेपचतुष्टयाभ्युपगन्तृत्वमेवेत्यर्थः ॥ ९८॥
नवनवतितमपद्यमवतारयति- नन्विति । सादृश्यसम्बन्धस्य भावेन सह सादृश्यलक्षणसम्बन्धस्य । असद्भावेतिभावाकारसदृशाकारो न यस्याः स्थापनायाः सा असद्भावस्थापना तस्याम्, भावेन सह सादृश्यलक्षणसम्बन्धाभावात् स्थापनानिक्षेपत्वं न स्यादित्यर्थः । अभिप्रायसम्बन्धस्यापीत्यपिना सादृश्यसम्बन्धस्य सङ्ग्रहः । तन्नियामकत्वे च स्थापनानिक्षेपनियामकत्वे । भावोऽयमित्यभिप्रायो यत्र सोऽभिप्रायलक्षणसम्बन्धेन भावसम्बद्ध इति कृत्वा तस्य स्थापनानिक्षेपत्वं यद्यनुमतं तदा नाम्न्यपि कस्यचिद् भावोऽयमित्यभिप्रायः सम्भवत्येवेत्यभिप्रायसम्बन्धेन नाम्नोऽपि भावसम्बद्धत्वात् तस्यापि स्थापनानिक्षेपत्वं प्रसज्यत इत्याह-नाम्न्यपीति । तस्य अभिप्रायसम्बन्धस्य । यो दोषः पूर्वमभिहित. स्तस्यैवोत्तरत्र सद्भावे तादवस्थ्योक्तिर्घटते, अत्र तु पूर्वमतिप्रसङ्गदोषो नाभिहित एवेति कथमतिप्रसङ्गस्तदवस्थ इत्युक्तिः सङ्गतेति चेत् ? व्यवहारमुल्लङ्घय यदि यथाकथञ्चित् सामान्यधर्मपुरस्कारेणैकस्यान्यनिक्षेपेऽन्तर्भावः सङ्ग्रहाभिमतो भवेत् तर्हि अप्राधान्यादिना नामनिक्षेपस्यापि द्रव्यनिक्षेपत्वं स्यादित्यतिप्रसङ्गदोषः पूर्व प्रसङ्गादभिहितोऽत्राप्यतिप्रसङ्ग एवावेद्यते इत्यतिप्रसङ्गत्वेन समानतामालम्ब्य तादवस्थ्योक्तिरिति बोध्यम्। विवृणोति-- अतिप्रसङ्ग इतीति । एवमित्यस्य विवरणम्- उक्तासङ्करप्रकारेणेति- वाचकत्वेन भावसम्बन्धस्य नामत्वं परिणामित्व-सादृश्यादीतरसम्बन्धनिमित्तकलक्षणाविषयत्वं वा नामत्वम्, परिणामित्वसम्बन्धेन भावसम्बद्धस्य द्रव्यत्वम् , अभिप्रायविशेषसम्बन्धेन सादृश्यसम्बन्धेन बा भावसम्बद्धस्य स्थापनात्वमित्यसङ्करप्रकारेणेत्यर्थः । कथमतिप्रसङ्गो न भवति ? नाम्नोऽप्यभिप्रायसम्बन्धेन भावसम्बद्धत्वेन