________________
२७६
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
परिणामित्वभिन्नश्चेन्नामनिक्षेपलक्षकः ।
सम्बन्ध इष्टः साम्यादिभिन्नः किं न तथेष्यते ॥ ९८ ॥ नयामृत-परिणामित्वेति । अथ द्रव्ये नाम्नो भिन्नत्वस्य सार्वजनीनत्वान्नामनिक्षेपलक्षकःनामनिक्षेपपदार्थताघटकलक्षणाविशेषणीभूतः सम्बन्धः परिणामित्वभिन्न एवैष्टव्यः, तदा स्थापनाया अपि नामभिन्नत्वस्य सार्वजनीनत्वात् साम्यादिभिन्नसम्बन्धोऽपि तथा- नामनिक्षेपलक्षकत्वेन किं नेष्यते तुल्ययोग-क्षेमत्वात् , तथा च गौरवस्य प्रामाणिकत्वात् परिणामित्व-सादृश्यादीतरसम्बन्धनिमित्तक लक्षणाविषयत्वमेव नामत्वमिति नाम्ना स्थापनासङ्ग्रहः सङ्ग्रहनये दुष्कर इति सिद्धम् , नो चेत् ? भावातिरिक्तमप्राधान्ययोग्यतातात्पर्य मुद्रया सर्वे द्रव्यमेवेति यदृच्छया नामापि द्रव्यतयैव सङ्ग्राह्यमित्यपि वक्तुं शक्यतेति पर्यालोचनीयम् । स्यादेतत्- षण्णां प्रदेशस्वीकर्तनँगमात् पश्चानां तत्स्वीकारेणेवात्रापि चतुर्निक्षेपस्वीकर्तुस्ततस्तत्रयस्वीकारेणैव सङ्ग्रहस्य विशेषो युक्त इति, मैवम्- देश( प्रदेश )वत् स्थापनाया " नामेन्द्रे” इति पाठो युक्तःः, पद्ये तथैवाभिधानात् , तस्य विवरणं-गोपालदारके इति । कुतो दुर्वचमित्यपेक्षायामाह- तस्येति-नामेन्द्रस्येत्यर्थः । यदि वाचकतासम्बन्धेन यदेव भावसम्बद्धं तदेव नामनिक्षेपविषयो भवेत् तर्हि नामेन्द्रलक्षणस्य नामनिक्षेपविषयत्वेनाभिमतस्यापि भावे वावकत्वसम्बन्धेनावृत्ते मनिक्षेपविषयत्वं न स्यादत उक्तनियामकं न सम्भवदुक्तिकमित्यर्थः ॥ ९७॥ ___ अष्टनवतितमपद्यं विवृणोति-परिणामित्वेतीति । यद्यर्थे वर्तमानस्य चेदित्यस्याथेत्यनेनोल्लेखः । द्रव्ये द्रव्यनिक्षेपविषये। नाम्नः नामनिक्षेपविषयात् । भिन्नत्वस्य भेदस्य । सार्वजनीनत्वात् लौकिकपरीक्षकाशेषजनसिद्धत्वात् । नामनिक्षेपलक्षक इत्यस्य विवरणं- नामनिक्षेपपदार्थताघट कलक्षणाविशेषणीभूत इति- नामनिक्षेपपदार्थता किञ्चिच्छक्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वरूपा, तद्धटकीभूता या लक्षणा तस्यां विशेषणीभूत इत्यर्थः। परिणामित्व. भिन्न एवेति- मूले परिणामित्वभिन्न इत्येतावन्मात्रस्योपादानात् परिणामित्वभिन्नसम्बन्धोऽपि निरुक्तलक्षणाया विशेषणमस्तु परिणामित्वसम्बन्धोऽपि तथाऽस्तु ततो नाम्नि द्रव्यस्यान्तर्भावः स्वादेवेयतः परिणामित्वसम्बन्धव्यवच्छेदायैव कारस्य टीकायामुपादानम्। परस्य तथा वस्तुत इष्ट इति कथङ्कारं तथाविधपरवचनाभावे निर्णेतुं शक्यः, द्रव्यस्य नाम्न्यनन्तवितस्तथेच्छाविषयत्वेन सम्भावयितुं शक्य इत्याशयेन इष्ट इत्यस्य एष्टव्य इति विवरणम् । यद्यर्थकचेत्पदोपादानस्वारस्यादल्लिब्धस्य तदेत्यस्य टीकायामुपादानम् । तथेत्यस्य विवरणं- नामनिक्षेपलक्षकत्वेनेति । तथा च नामनिक्षेप पदार्थताघटकलक्षणाविशेषणीभूतसम्बन्धे द्रव्यस्य नामान्तरर्भाववारणाय परिणामित्वभिन्नत्वस्येव स्थापनाया नामान्तर पवारणाय सादृश्यभिन्नत्वस्यापि विशेषणत्वमावश्यकमिति व्यवस्थितौ च । गौरवस्य प्रामाणिकत्वादिति- सादृश्यभिन्नत्वस्थापि सम्बन्धविशेषणतया प्रवेशे यत् तदनिवेशापेक्षया गौरवं तस्य प्रामाणिकत्वादित्यर्थः । नामत्वं नामनिक्षेपविषयत्वम् । स्थापनाया नामभिन्नत्वस्य सर्वजनसिद्धत्वेऽपि कदाग्रहमात्रेण सङ्ग्रहनये नाम्नि स्थापनाऽन्तर्भाव इष्ट इत्युपेयते तदा भावा. तिरिक्तयोर्नाम-स्थानयोर्द्रव्यगताप्राधान्ययोग्यताशालित्वेन तात्पर्यविषयत्व तो द्रव्यत्वमेवेति केनचिदाचार्येण स्वेच्छया नानोऽपि द्रव्यतयैव सङ्ग्रहीतुं शक्यत्वेन सङ्ग्रहनये नाम-स्थापनयोर्द्रव्येऽन्तर्भाव इति सङ्ग्रहनये द्रव्यभावाभ्यां द्वावेव निक्षेपाविष्टावित्यपि मतं रमणीय स्यादित्याह-नो चेदिति । इति यदृच्छया एवंस्वरूपस्वेच्छामात्रेण । नामाऽपि नामनिक्षेपोऽपि, अपिना स्थापनानिक्षेपस्य परिग्रहः। द्रव्यतयैव द्रव्यनिक्षेपतयैद। पर्यालोचनीयमित्युक्त्या एवं पर्या लोचने सङ्ग्रहनये किं द्रव्यभावभेदेन द्विविधो निक्षेप इष्टः किं वा नाम-द्रव्य-भावभेदेन त्रिविध इति विनिगन्तुमशक्यत्वेनाव्यवस्थैव प्रसज्येत, एतद्भयाच्चत्वारोऽपि निक्षेपाः सङ्ग्रहेऽपि द्रव्याथिकेऽभिमता इति स्वीकार एव ज्यायानित्यावेदितम्। शङ्कते-स्थादेतदिति । षण्णां धर्मा-ऽधर्माऽऽकाश-जीव पुनल-तद्देशानाम् । पञ्चानां धर्माऽधर्मा-ऽऽकाशजीव-पुदलानाम् , सङ्ग्रहनये देशिव्यतिरिक्तदेशस्याभावान्न तत्प्रदेशस्वीकारः, तत्स्वीकारेणेव प्रदेशस्वीकारेण यथा