________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
सादृश्यानुसारेणैव कार्यकारणभावव्यवहारात् तन्निश्चयानुसारेणैव तच्छक्यानुभवस्यापि प्रकल्पनात् । अथाऽसतोऽजनकत्वान्न क्षणविशरारो: कार्यप्रसवः इति चेत् ? न - अनभ्युपगमात्, कार्यकाले सत्त्रस्य कारणतायामप्रयोजकत्वात्, कुर्वद्रूपत्वस्यैव तथात्वात्, तथाप्यविनष्टाद् द्वितीयक्षणव्यापारसमावेशवर्तिनः कार्यप्रसवाभ्युपगमे क्षणभङ्गभङ्गप्रसङ्ग इति चेत् न - द्वितीयक्षणप्रतीक्षाव्यतिरेकेणापि स्वमहिम्नैव कार्यकरणप्रवृत्त्यभ्युपगमात्, अन्यथा द्वितीयक्षणभाविव्यापारजननेऽप्यपरव्यापारसमावेशव्यतिरेकेणाप्रवृत्तेः, तत्राप्यपरव्यापारसमावेशकल्पनायामनवस्थानात्, अपरव्यापारनिवर्तकत्वाभ्युपगमे च किमपराद्धं
१३३
वृत्तित्वेऽपि तत्तत्कार्य कुर्वद्रूपत्वाभावेन न तत् तत् कार्यं प्रति कारणमित्येवमनतिप्रसङ्गादित्यर्थः । नन्वव्यवहितपूर्ववर्तित्वं स्वसन्तानगतक्षणेष्विव सन्तानान्तरगतक्षणेष्वप्यविशिष्टमिति स्वसन्तानगतक्षणेष्वेव तत्तत्कार्य कुर्वद्रूपत्वं न सन्तानान्तरर्गतक्षणेष्वित्यत्रैव नियामकं न पश्याम इत्यत आह- अन्वयव्यतिरेकाभ्यामिति तत्सन्तानपतितक्षणसत्त्वे तत्सन्तानपतिततदुत्तरक्षणसत्त्वं तत्सन्तानपतितक्षणाभावे तत्सन्तानपतितोत्तरक्षणाभाव इत्येवमन्वय - व्यतिरेकाभ्यामित्यर्थः । सादृश्यानुसारेणैव पूर्वपूर्वक्षणानां तत्सन्तानपतितानामुत्तरोत्तरतत्सन्तानपतितक्षण सादृश्यानुसारेणैव कार्यकारणभावव्यवहाराद् ययोरेकसन्तानपतितक्षणयोः सादृश्यमनुभूयते तयोरेव कार्यकारणभावव्यवहाराद् इदमस्य कार्यमिदमस्य कारणम्' इत्येवं कार्यकारणभावव्यवहारात् । यद्यपि कुर्वद्रूपत्वजातिरितीन्द्रियत्वान्न प्रत्यक्षविषयस्तथापि कार्यकारणभावव्यवहार निबन्धनस्य सादृश्यस्य यत्र सत्त्वं तत्र तत्कार्यकुर्वत्त्वमित्येवं व्याप्तर्यत्र निरुक्तसादृश्यनिश्चयस्तत्र तत्कुर्वेद्रपत्वस्यापि निश्चयः स्यादेवेत्याह-तनिवयानुसारेणैवेति- सादृश्यनिश्चयानुसारेणैवेत्यर्थः । ' तच्छक्यानुभवस्यापि ' इत्यस्य स्थाने ' तच्छक्त्यनुभवस्यापि ' इति पाठो युक्तः, तत्कुर्वद्रूपत्वानुभवस्यापीति तदर्थः, शक्तिः सामर्थ्यम्, तच्च प्रकृतै कुर्वद्रूपत्वमेवेति बोध्यम् । ननु क्षणिक कारणं कार्यकाले न समस्तीति यत्कार्यकाले यन्न सत् तन्न तत्कार्यकारणमिति न क्षणिकात् कार्यजन्मसम्भव इति शङ्कतेअथेति । असतः कार्योत्पत्तिकालेऽसतः । समाधत्ते - नेति । अनभ्युपगमात् यत् कार्यकालेऽसत् तन्न कारणमित्यस्य - नभ्युपगमात् असत्त्वादकारणत्वं तदा स्यात् यदि सत्त्वात् कारणत्वं भवेत् न च कार्यकाले सत्त्वस्य कारणतायां प्रयोजकत्वमित्याह- कार्यकाल इति । तर्हि कारणतायां किं प्रयोजकमित्यपेक्षायामाह - कुर्वद्रूपत्वस्यैवेति । तथात्वात् कारणतायां प्रयोजकत्वात् । ननु सव्यापारमेव कारणं कार्योत्पादने प्रत्यलमिति द्वितीयक्षणे सव्यापारादेव कारणात् कार्योत्पत्तिरिति व्यापारानुरोधेन द्वितीयक्षणवृत्तित्वव्यवस्थितौ क्षणभङ्गस्य क्षणैकमात्रवृत्तित्वस्य भङ्ग एवोपतिष्ठत इत्याशङ्कते -- तथाऽपीति- कुर्वद्रूपत्वस्य कारणतायां प्रयोजकत्वेऽपीत्यर्थः । अविनष्टात् द्वितीयक्षणेऽविनष्टात् । कथमित्थमित्यपेक्षायामाहद्वितीयक्षणव्यापारसमावेशवर्तिन इति - द्वितीयक्षणे यो व्यापारसमावेशो व्यापारसमवधानं तेन सह वर्तनशीलस्य, द्वितीयक्षणवृत्तिव्यापारवत इति यावत् । कार्यप्रसवाभ्युपगमे कार्योत्पत्त्यभ्युपगमे । क्षणभङ्गभङ्गप्रसङ्गः क्षणभङ्गस्योत्पत्यनन्तरमेव भावो विनश्यतीति क्षणभङ्गवादस्य भङ्गो विनाशस्तस्य प्रसङ्ग आपत्तिः । सव्यापारात् कारणात् कार्यजन्मेत्येव नेष्यतॆ, कुतो व्यापारानुरोधिद्वितीयक्षणापेक्षा ? किन्तु कुर्वद्रूपत्वलक्षणस्वमहिम्नैव कार्यकरणे प्रवर्तते भाव इत्येवोपेयत इति न क्षणभङ्गभङ्ग इति समाधत्ते - नेति । अन्यथा सव्यापारस्यैव कारणत्वमिति व्यागरानुरोधेन द्वितीयक्षणप्रतीक्षाया आवश्यकत्वमित्यभ्युपगमे । यदि व्यापारमन्तरेण न कारणं कार्यजननायालमित्युपेयते तर्हि व्यापारोऽपि कार्यमिति तज्जननेऽपि व्यापारान्तरापेक्षा स्यादेव, तदपि व्यापारान्तरं कार्यमिति तज्जननायाप्यपरव्यापारापेक्षेत्येवमनवस्था स्यादित्याह द्वितीयक्षणेति । ' व्यापारजनवेऽपि ' इत्यस्य ' अप्रवृत्तेः ' इत्यनेनान्वयः । तत्रापि द्वितीयक्षणभाविव्यापारजननेऽपि । ननु व्यापारातिरिक्तकार्यजनन एव सव्यापारत्वं कारणस्यापेक्षितं व्यापाररूपकार्थं तु व्यापारमन्तरेणापि करोत्येव कारणमिति नानवस्त्यत आह- अपरेति - अत्र “अपव्यापार निवर्तकत्वाभ्युपगमे च " इत्यस्य स्थाने 'अपरव्यापारसमावेशव्यतिरेकेणापि द्वितीयक्षणभाविव्यापारनिवर्तकत्वाभ्युपगमे च' इति पाठो युक्तः । यथा व्यापारमन्तरेणैव व्यापाररूपकार्यं करोति कर तथा कार्यान्तरमपि व्यापारमन्तरेणैव करिष्यति कारणमित्याद्यव्यापारकरूपनं व्यर्थमेव, तथा च न तदनुरोधेन द्वितीयक्षणस्थायित्वं भावस्येत्याह- किमपराद्धं कार्येणेति- न किमपि विरुद्धमाचरितं कार्येणेति तदपि व्यापारमन्तरेणैव करोतु