________________
१३४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
-
- TETUEI TOHET
कार्येण येनाद्यव्यापार विनैव न तज्जन्यत इति, न च व्यापारमन्तरेणार्थक्रिया नोपपत्तिमती, व्यापारेणैव व्यभिचारादिति विभावनीयम् । अथानष्टान् कारणादुपजायमाने कार्ये कार्य-कारणयोः सहभावप्रसक्तिः, नष्टाच्च कारणात् कार्योत्पत्त्यभ्युपगमे तृतीयक्षणे तत्प्रसङ्गः, तथाहि-प्रथमे क्षणे कारण. सत्ता, द्वितीये तद्विनाशः, तृतीये च कार्योत्पत्तिरिति चेत् ? न-यथैव कारणविनाशस्तत्सत्तापूर्वको नष्टाद् भवति तथैव तत्समानकालं कार्य नष्टात् कारणाद् भविष्यतीति दोषाभावात् ; बतवं विनाशोऽपि हेतुमान स्यादिति चेत् ? न-नीरूपत्वेन तत्र हेतुल्यापार(रा)सम्भवात् , तदुपन्यासस्यात्र व्यवधायककालासम्भवदर्शनार्थत्वात् , ततो द्वितीयक्षणे कारणं नश्यति कार्य चोपजायत इति कुतस्तयोः सहभाव. प्रसक्तिः , तदुक्तम्"अनष्टाज्जायते कार्य हेतुश्चान्योऽपि तत्क्षणम् । क्षणिकत्वात् स्वभावेन तेन नास्ति सह स्थितिः" ।
] इति । अत्र चाविद्धकर्णोद्योतकरादिभिर्यदुक्तं " यदि तुलान्तयो मनोन्नमनवत् कार्योत्पत्तिकाल एव कारण विनाशस्तक
: कारणस्य विनाशः कारणोत्पाद एव " उत्पाद एव । कारणमित्याशयः । येन अपराधेन । तत् कार्यम् । व्यापारेणैवेति- व्यापारोऽपि अर्थक्रियैव, स च व्यापारमन्तरेणैव भवतीति व्यापारमन्तरेणार्थक्रिया न भवतीति नियमस्त त्रैव व्यभिचारान्न सम्भवतीत्यर्थः। ननु क्षणभजपक्षे नष्टादनष्टाद् वा कारणात् कार्यजन्मनो न सम्भवः, यतः प्रथमक्षण एव कारणमनष्टमिति तदानीमेव यदि कार्यजन्मोपेयते तदा यदैव कारणमुत्पद्यते तदैव कार्यमप्युत्पद्यत इति स्यात् , न चैवं सम्भवति- सहभाविनोः सव्येतरगोविषाणयोरिव कार्यकारणभावाभावात् , नष्टात् कारणात् कार्यजन्म तु प्रथमक्षणे कारणमुत्पद्यते द्वितीयक्षणे विनश्यतीति द्वितीयक्षणे तन्नष्टमतस्तृतीयक्षणे ततो नष्टात् स्यात्, एवं सति कारणव्यक्ति- कार्यव्यक्तयोरेकैन क्षणेन व्यवधानादव्यवहितकारणकार्यक्षणपरम्परालक्षणसन्ततिरुत्सन्ना स्यादिति शङ्कते- अथेति । तत्प्रसङ्गः कार्योत्पत्तिप्रसङ्गः। तृतीयक्षणे कार्योत्पत्तिप्रसङ्गमेव भावयति-तथाहीति । तद्विनाशः कारणविनाशः । नष्टात् कारणात् कार्योत्पत्त्यभ्युपगम एव, एवमपि द्वितीयक्षण एवं कार्यजन्म, यथा ध्वंसं प्रति प्रतियोगिनः कारणत्वमिति नष्टात् कारणात् तद्धंसो भवन्नपि द्वितीयक्षण एव भवति तथैव नष्टात् कारणाद् भवदपि कार्य द्वितीयक्षण एव भवतीत्येवमुपगमे दोषाभावादिति समाधत्ते-नेति । तत्सत्तापूर्वकः कारणसत्तापूर्वकः। तत्समानकालं कारणविनाशसमकालम् । नन्वहेतुको विनाशो भावोत्पत्त्यनन्तरमेव भवतीति सिद्धान्तः क्षणभङ्गवादिनो विनाशस्य हेतुमत्त्वाभ्युपगमे भज्यतेति शङ्कते- वनैवमिति-बतेति खेदे, खिद्यते मे मनः सूक्ष्मेक्षणविदग्धस्यापि परस्यैवं खसिद्धान्तविरुद्ध प्रलपतः किमयं बुद्धिव्यामोह इति भावयतः । एवं विनाशस्य कारणसत्तापूर्वकत्वाभ्युपगमे। समाधत्तेनेति । नीरूपत्वेन तुच्छत्वेन । तत्र ध्वंसे । यदि हेतुव्यापारो ध्वंसे नास्ति तर्हि कथं दृष्टान्ततया तदुपन्यास इत्यत आह-तदुपन्यासस्येति । अत्र कारण कार्ययोः, यथा कारण-तद्विनाशयोर्न व्यवधायकः कालस्तथा कारण-कार्ययोरपि न व्यवधायकः काल इत्यवगत्यर्थमेव तदुपन्यास इति । एवं च सति यत् सिद्धं तदाह - तत इति । तयोः कारणकार्ययोः। उक्तार्थे वृद्धबौद्धवचनसंवादमाह- तदुकमिति । “अनष्टाजायते कार्यम्" इति पद्यखारस्यात् 'यथैव.' इत्यादिप्रन्थोऽपि 'यथैव कारणविनाशस्तत्सत्तापूर्वकोऽनष्टाद्भवति तथैव तत्समानकालं कार्यमनष्टात् कारणाद् भविष्यतीति दोषाभावाद्' इत्येवंरूपोऽवसेयः, तदवतरणेऽपि 'नष्टाद' इत्यस्य स्थाने 'अनष्टाद्' इत्येव वाच्यमिति बोध्यम् , 'हेतुश्चान्योऽपि तत्क्षणम' इत्यस्य स्थाने 'हेतुर्नान्वेति तत्क्षणम्' इति पाठो युक्तः, तस्य कार्याधिकरणक्षण हेतुर्न संबनातीत्यर्थः । अत्र च इत्थं क्षणिकवाद्युपगतपदार्थतत्त्वे पुनः । 'यदुक्तम्' इत्यस्य 'निरस्तम् ' इत्यनेनान्वयः । अविद्धकर्णाद्युक्तिमेवोल्लिखति- यदी. त्यादिना । तुलान्तयोः तुलाकोव्योः । नमनोन्नमनवत् अधिकगुरुत्ववन्मीयमानधान्यादिसम्बन्धाद् यदैवैककोटेनमनं तदैव तदल्पप्रमाणवस्तुसम्बन्धादपरकोटेरुन्नमनमिति समकालीनत्वं नमनोन्नमनयोः, एवमेव यदा कार्योत्पत्तिस्तदेव कारण