________________
१३२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
भेदेन समर्था-ऽसमर्थतया भेदापत्तिरिति चेत् ? न- वस्तुनः स्वकाले समर्थस्य कालान्तरेऽसमर्थतया संवृत्यैव व्यवहारात्, अभावानुप्रवेशेन वस्तुसिद्ध्यापादने शशविषाणादेरपि सिद्धिप्रसङ्गात् ; अत एव क्षणिकस्यापि प्रथम सतः पश्चादसत्त्वे स्वभावविपर्यय इति निरस्तम् , स्वदेश-कालस्थस्यैवान्यदेश-कालयोरसद्व्यवहारकारिस्वभावाभ्युपगमेनैवोपपत्तेः, निषेधव्यवहाराद् विधिव्यवहारस्य बलवत्त्वे लाघवमेव विनिगमकम् । ननु क्षणिकपक्षे क्षणिकानामेव हेतुत्वे तत्तत्क्षणोत्पन्नानामुदासीनानामपि हेतुत्वं किं न स्यादिति चेत् ? न- कुर्वद्रूपत्वजात्या प्रसिद्धहेतूनामेवानुगमेनानतिप्रसङ्गात् , अन्वय-व्यतिरेकाभ्यां पर्यायवादिनः समाधानान्तरं स्वेष्टापादनानुकूलतयोपदर्शयति- असामर्थ्यादेवेति-स्वकालस्थो भावः तदर्थक्रियां प्रत्यसमर्थत्वादेव न करोतीत्यर्थः। स्थैर्यपक्षे सामर्थ्या-ऽसामर्थ्यलक्षणविरुद्धधर्माध्यासात् स्थिरस्य भावस्य भेदापत्तिर्या त्वयोद्घोष्यते सा तव मतेऽपि क्षणिकस्य भावस्य संलग्नेत्याह-तीति । भवन्मते स्थिरो भावो यथाऽभिमतकार्यकालसमये वर्तते तथा कालान्तरेऽपि वर्तत इत्यभिमतकालावच्छेदेन तत्कार्य प्रति सामर्थ्यवत् कालान्तरावच्छेदेन तत्कार्य प्रत्यसामर्थ्यमपि तस्य वस्तुभूतमेवेति वस्तुभूतसामर्थ्या-ऽसामर्थ्यलक्षणविरुद्धधर्माध्यासात् स्थिरस्य भावस्य भेद आपादयितुं शक्यते, वस्तुतः स्वकाले स्वार्थक्रियां प्रति समर्थस्य क्षणिकस्य भावस्य कालान्तरे न सत्त्वमिति तदानीमसति तस्मिन् न सामर्थ्य नाप्यसामर्थ्य वस्तुतः समस्ति, अथापि कालान्तरेऽसमर्थत या तस्य या व्यवहृतिः सा संवृत्यैव भवति, तथा च संवृत्याऽसमर्थतया व्यवहाराद् बस्तुभूतस्यासामर्थ्यलक्षणविरुद्धधर्मस्य सिद्धयभावेन न तादृशधर्माध्यासतः क्षणिकभावस्य भेद आपादयितुं शक्यत इत्याशयवान् पर्यायवादी द्रव्यवाद्युद्भावितामाशङ्कां प्रतिक्षिपति-नेति । 'संवृत्यैव' इत्येवकारेण प्रमि. त्याऽसमर्थतया व्यवहारस्य प्रतिक्षेपः। ननु कालान्तरे क्षणिको भावोऽसत्त्वात् समर्थो न भवतीत्येतावताऽसामर्थ्यमयत्नोपनतमेव सामर्थ्याभावस्यासामर्थ्यरूपत्वादिति भवत्यसामर्थ्यलक्षणवस्तुसिद्धिरित्यत आह-अभावानुप्रवेशेनेतिअभावशरीरसन्निविष्टत्वेनेत्यर्थः, तच्च प्रकृते असामर्थ्याभावे सामर्थ्य नास्तीत्येवंस्वरूपोऽभाव एव नोपपद्यत इत्यभावस्वरूपोदलकत्वं बोध्यम् , शशविषाणं नास्तीत्येवं प्रतीयमानाभावशरीरे प्रतियोगितया सन्निविष्टस्य शशविषाणादेरप्यभावानुप्रवेशेन सिद्धयापत्त्या वस्तुत्वं स्यादतः संवृत्यैव यथा निषेध्यतया व्यवह्रियमाणत्वं शशशृङ्गादेरिति न वस्तुत्वं तथा संवृत्यैव व्यवह्रियमाणस्या सामर्थ्यस्य न वस्तुत्वमित्याशयः । 'अत एव' इत्यस्य 'निरस्तम्' इत्यनेनान्वयः । स्वभावविपर्ययः स्वभावस्य सत्त्वस्य विपर्ययोऽसत्त्वम् , तथा च सत्त्वा ऽसत्त्वरूपविरुद्धधर्माध्यासात् क्षणिकस्यापि भेदापत्तिरित्यर्थः । 'अत एव' इति निर्दिष्टमेव निरासहेतुमुपदर्शयति-स्वदेश-कालस्थस्येवेति- यस्मिन् देशे यस्मिन् काले वर्तते क्षणिको भावस्तद्देश-कालस्थस्यैव तस्यान्यदेश-कालयोर्योऽसद्व्यवहारस्तत्क रिस्वभाव इत्यभ्युपगमेन देशान्तरकालान्तर योरसद्व्यवहारस्योपपत्ते सत्त्वं धर्मान्तरं तस्योपैयत इति न स्वभावविपर्यय इति भावः। ननु क्षणिकस्य भावस्य स्वदेशकालयोः सद्बुद्धथा यथा सयवहारो भवति तथा देशान्तर कालान्तरयोरसद्बुद्धयाऽस व्यवहारोऽपि भवति, एवं च विनिगमकाभावात् किमिति सद्बुद्धिप्रभवसद्व्यवहारबलात् सत्त्वमेवोपेयते, असबुद्धि प्रभवासद्व्यवहारबलान्नासत्त्वमित्यत आहनिषेधव्यवहारादिति- असत्त्वलक्षणनिषेधविषयकासद्व्यवहारात् सत्त्वलक्षणविधिविषयकव्यवहारस्य बलवत्त्वे लाघवमेव विनिगमकम् , निषेधव्यवहारे निषेध्यज्ञानस्याप्यपेक्षा विधिव्यवहारे तु व्यवहर्तव्यविधिमात्रज्ञानापेक्षेति लाघवं स्फुटमेवेति ।
ननु क्षणभङ्गपक्षे पूर्वपूर्वक्षणस्योत्तरोत्तरक्षणं प्रति यत् कारणत्वं तत्र कार्यस्वरूपानुस्यूतत्वं न नियामकं किन्तु कार्याव्यवहितपूर्वकालवृत्तित्वमेव, तच्च यथा खसन्तत्यनुपतितपूर्वपूर्वक्षणे तथा सन्तानान्तरगतोदासीनक्षणेऽपि समस्ति, एकसन्तानान्तर्गतपूर्वक्षणस्य यथा तदव्यवहितोत्तरक्षण जायमानतत्सन्ततिगतकार्याव्यवहितपूर्ववर्तित्वं तथा तत्क्षणसमानकालीनानां सन्तानान्तरवर्तिनामपि क्षणानामुदासीनानामिति तेषामपि तत्कारणत्वं स्यादिति शङ्कते-नन्विति यत्कार्यकुर्वद्वपात्मना स्वकारणतो यदुत्पन्नं तत् तत्कुर्वद्रूपत्वेन तत्कार्य प्रति कारणमित्येव पर्यायवादिना स्वीक्रियते, एकसन्ततिपतितपूर्वपूर्वक्षणानामेवैकसन्ततिपतितोत्तरोत्तरक्षणं प्रति कारणत्वं नोदासीनानामिति नोदासीनानामव्यवहितपूर्वक्षणवर्तिनां कारणत्वप्रसङ्ग इति पर्यायवादी समाधत्ते-न-कुत्र जात्यति । प्रसिद्धहेतूनामेवेति- यद् यत् कार्य प्रति यद् यत् कारणतया प्रसिद्ध तस्य तस्यैव तत्तत्कार्यकुर्वद्रपत्वेन तत् तत् कार्य प्रति कारणत्वमित्युदासीनानां प्रसिद्धहेतुभिन्नानां तत्तत्काव्यिवहितपूर्वक्षण