________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
रिणामुपनयना-ऽपनयनयोरयमनीश्वर एव यद्युपनिबन्धेन तूच्यते- 'यदि सहकारिणो न स्युर्न कुर्याद्' इति न दोष इति चेत् ? स्थिरपक्षेऽप्येवं वक्तुं शक्यम् - स्वकारणाधीनसन्निधीनां सहकारिणामुपनयना - ऽपनयनयोर मनीश्वर एव यद्युपनिबन्धेन तूच्यते- 'यदि सहकारिणः स्युः कुर्याद्', इत्याद्युदयनोक्तमपास्तम्, सहकार्यभावस्य कार्याभावव्याप्यत्वेन व्यतिरेकपक्षे यद्युपनिबन्धसम्भवेऽप्यन्वयपक्षे तदसम्भवात् लाघवात् कारणस्यैव कार्योत्पत्तिव्याप्यत्वेन सहकारिघटित सामग्र्याऽतथात्वेनापाद्याऽऽपादकयोर्व्याध्यप्रसिद्धे!; अथ क्षणिकोऽपि भावः स्वकालस्थ एकामपि यां काचिदर्थक्रियां करोति तामेव कालान्तरे कुतो न करोति ? असन्त्वादिति चेत् ? करणस्य सत्त्वाप्रयुक्तत्वात्, अत एव स्वप्नावसानकं विज्ञानं प्रहराद्यन्तरितमपि सुषुप्तस्य जागराद्यज्ञानमुत्पादयतीति प्रज्ञाकरः; असामर्थ्यादेव न करोतीति चेत् ? तर्हि कालकुर्वद्रूपात्मक कारणसन्निहिता एवोलद्यन्ते सहकारिण इत्येवम्भूतस्वभावाधीनसन्निधीनाम् । उपनयना ऽपनयनयोः स्वसन्निहितदेशागमन स्वसन्निधानापसरणयोः । अयं प्रकृतकुर्वद्रूपः । अनीश्वरः असमर्थः एव न तु तयोः समर्थः 1
पनिबन्धनेन सम्भावनाविषयीभूतार्थप्रतिपादकय दिशब्दस्य व्यतिरेकस्वभावप्रतिपादकवाक्यघटकीकरणेन । उच्यते बौद्धेनाभिधीयते । तद्वाक्यस्वरूपमुल्लिखति - 'यदि सहकारिणो न स्युर्न कुर्यात् ' इति । इति यद्यर्थघटितव्यतिरेकस्वभावाभ्युपगमे । न दोषः स्थिरवाद्यभिहितः 'व्यतिरेकोऽप्यवर्जनीयः' इति दोष इष्टापादनस्वरूपत्वान्न दोषत्वमावहति । इति चेत् एवं पराशङ्कायाम् । उदयनः प्रतिविधानमाविष्करोति- स्थिरपक्षेऽपीति । एवं यथा क्षणिकवादिभिस्तैर्विना न करोतीति व्यतिरेकोपपत्तये उच्यते तथा । तदेव वक्तव्यमुल्लिखति स्वकारणाधीनसन्निधीनामित्यादि । ' एतेन ' इत्यतिदिष्टमेव निरासहेतुं स्पष्टयति- सहकार्य भावस्येति । अवतरणोपदर्शितबौद्धाभिप्राये असदर्थस्यापि यदिशब्दघटित - स्वभावप्रतिपादकवाक्यप्रतिपाद्यस्वभावे प्रवेशः सम्भवति, तेन कुर्वद्रूपात्मक कारणे सहकार्यभावस्य कार्यकारित्वाभावस्य चासद्रूपयोः प्रवेशो व्यतिरेकखभावे सम्भवति, व्यापकाभावावत्तया निर्णीते धर्मिणि व्याप्यारोपेण व्यापकारोपः प्रसङ्ग इति प्रसङ्गलक्षणोपपादकं सहकार्यभावस्यापादकस्य कार्यकारित्वाभावरूपापाद्यव्याप्यत्वं समस्तीति यद्यर्थघटितव्यतिरेकस्वभावस्य सम्भवेऽपि यदि सहकारिणः स्युस्तदा कुर्यादित्येवमन्वय स्वभावो यद्यर्थघटिनमूर्तिर्न सम्भवति, तत्रापादकस्य सहकारि समवधानविशिष्टकारणत्वस्य कार्योत्पत्तिमत्त्वपर्यवसित कार्यकारित्वरूपापाद्यव्याप्यत्वाभावेन प्रसङ्गप्रवृत्त्यभावेन यद्युपनिबन्धनस्य यदिशब्दघटितत्वस्यान्वय स्वभावप्रतिपादकवाक्येऽसम्भवात् कारणत्वस्यैव लघुभूतस्य कार्योत्पत्तिव्याप्यत्वसम्भवेन सकलसहकारिसमवधानलक्षणसहकारिवैशिष्ट्यस्य गौरवेण व्याप्यतानवच्छेदकत्वात् यथाऽसद्धेतौ व्याप्यतानवच्छेदकस्य तद्विशेषणत्वे व्यर्थविशेषणघटितत्वाद् व्याप्यत्वासिद्ध्याऽसाधकत्वं तथाऽऽपादकेऽपि व्याप्यतानवच्छेदकस्य विशेषणत्वे व्याप्यत्वासिद्धयाऽनापादकत्वमित्याशयेनाह - अन्वयपक्षे तदसम्भवादिति - अन्वयस्वभावप्रतिपादकवाक्ये निरुक्तार्थकय दिशब्दघटितत्वासम्भवादित्यर्थः । ( सामग्र्यातथात्वेन ' इत्यस्य स्थाने ' सामग्र्या अतथात्वेन ' इति पाठः सम्यक् । अतथात्वेन कार्योत्पत्तिव्याप्यत्वाभावेन । आपाद्याऽपादकयोः कार्योत्पत्तिरूपापाद्य सामग्रीसत्त्वरूपापादकयोः । द्रव्यवादी शङ्कते - अथेतिपर्यायवादिमते क्षणविशरारोर्भावस्य कार्यकालेऽम्रत एव कारणत्वमिति स्वकालस्थ एव स स्वानधिकरणे द्वितीयस्मिन् क्षणे यामर्थक्रियां करोति तामर्थक्रियां कालान्तरे तदर्थक्रियोत्पत्तिमत्काल भिन्नकाले कुतो न करोतीत्यर्थः । अत्र पर्यावादिनः समाधानमाशङ्क्य प्रतिक्षिपति - असत्वादिति चेदिति - ' चेत्' इत्यनन्तरं 'न' इति दृश्यम् कार्योत्पत्त्यापादनास्पदतयाऽभिमतस्य कालस्याव्यवहितपूर्वसमयेऽसत्त्वान्न करोतीत्यर्थः । प्रतिक्षेपहेतुं दर्शयति- करणस्येति - कार्योत्पादनस्येत्यर्थः । सत्त्वाप्रयुक्तत्वात् कार्योत्पत्तिसमयाव्यहितपूर्वसमये यत् कारणस्य सत्त्वं तदप्रयुक्तत्वात् । अत्रार्थे प्रज्ञाकरवचनसंवादमुपदर्शयति- अत एवेति - कार्योत्पत्तेः स्वसमयाव्यवहितपूर्वसमयगत कारणसत्त्वाप्रयुक्तत्वादेव । स्वप्नेति - यत्र स्वप्नानन्तरं सुषुप्तिस्तदनन्तरं जागरितं तत्र जागराद्यज्ञानं सुषुप्त्यवस्थायां ज्ञानाभावात् स्वप्नावसानकं स्वप्नान्त्यसमयभावि विज्ञानमेवोत्पादयति, न च स्वप्नान्त्य समय भाविविज्ञानं जागरायज्ञानोत्पत्तिसमयाव्यवहितपूर्व समयवृत्तीत्यतः करणस्य कारणसत्त्वाप्रयुक्तत्वं प्रज्ञाकरस्य सम्मतमित्यर्थः । ' प्रहराद्यन्तरितम्' इति विशेषणेन कार्याव्यवहितपूर्वसमये न तस्य सत्त्वमित्यावेदितम् ।
१३१