________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
रनन्तरमेव तत्कार्यकरणप्रसङ्गात् , सामग्र्याः कार्योत्पत्तिव्याप्यत्वापेक्षया कुर्वद्रूपत्वसामर्थ्यवतः कारणस्यैव कार्योत्पत्तिव्याप्यत्वे लाघवात्, त्वया हि स्वेतरकारणविशिष्टबीजवादिनाऽङ्कुरायुत्पत्तिव्याप्यत्वं कर्त्तव्यम्, मया तु कुर्वद्रूपत्वेनैवेति; एतेन 'क्षणिकोऽपि भावः कुर्वद्रूपः सहकारिभिः सहैव करोतीति नियतस्वभावश्चेत् ? अन्वयवत् तैर्विना (न) करोत्येवेति व्यतिरेकोऽप्यवर्जनीयः, अन्वय व्यतिरेकनियमयोमिथो नान्तरीयकत्वमिति त्वदीयसिद्धान्तात् , तथा च व्यतिरेकनियमे सहकारिणः स्वकारणादापत. तोऽपि निवार्य न कुर्यात्, तैर्विना न करोतीति स्वभावाप्रच्यवात् ; अथ स्वभावाधीनसन्निधीनां सहकाकारणसमुदायलक्षणसामग्र्यनन्तरत्वं तस्मिन् क्षणे तत्कार्योत्पत्तिः' इत्येवंरूपमुपगम्यत इति नैककारणोत्पत्त्यनन्तरकाल एव तत्कार्योत्पत्तिः, किन्तु सामध्यनन्तरसमय एव सेत्यत आह-सामग्या इति । लाघवमेव स्पष्टयति- त्वयेति- स्थिरवादिनेत्यर्थः । 'स्वेतरकारण' इति स्थाने 'स्वेतरसकलकारण' इति पाठो युक्तः। मया तु क्षणिकवादिना पुनः । 'एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः, एतेन स्थैर्यवाद्यवश्याभ्युपगन्तव्यस्य स्वेतरकारणविशिष्टबीजवादिना बीजादिरूपकारणस्याङ्करादिकार्योत्पत्तिव्याप्यत्वस्य 'यदा यत्र स्वेतरकारणविशिष्ट बीजादिकं तदा तत्राङ्कुराद्युत्पत्तिः' इति नियमस्य कल्पनापेक्षया क्षणिकवाद्यभ्युपगतस्य तत्तत्कार्यकुर्वद्रूपत्वेन बीजादिकारणस्थाङ्करादिकार्योत्पत्तिव्याप्यत्वस्य- 'यदा यत्राङ्करकुर्वदात्मकं बीजं तदा तत्राङ्करोत्पत्तिः' इत्यादिनियमरूपस्य कल्पने बीजादिरूपकारणे स्वेतरकारणवैशिष्ट्यस्य व्याप्यतावच्छेदकतयाऽप्रवेशप्रयुक्तलाघवेन । क्षणिकोऽपि भावो बीजादिरङ्करादिकुर्वद्रपः सलिल-धरणि-धामादिलक्षणसहकारिभिः सहैवाङ्करादि कार्य करोतीत्येवंस्वरूपनियतस्वभावो यदि तदाऽयं स्वभावो विधिरूपत्वादन्वयः, सकलसहकारिसहित एव क्षणिककुर्वद्रूपात्मको बीजादिभावोऽङ्करादि कार्य करोतीत्येवंरूपो यथाऽभ्युपगमस्तथाऽत्रैवकारार्थप्रवेशसामर्थ्यात् क्षणिकोऽपि कुर्वद्रूपो बीजादिः सहकारिभिविना न करोत्येवाङ्करमित्ययं स्वभावो निषेधरूपत्वाद् व्यतिरेकोऽप्यवश्यमभ्युपगन्तव्यः क्षणिकवादिना, 'यत्रान्वयस्तत्र व्यतिरेकोऽपि ' 'यत्र व्यतिरेकस्तत्रान्वयोऽपि ' इत्येवं स्वरूपमन्वय-व्यतिरेकनियमयोमिथो नान्तरीयकत्व- परस्परव्याप्यत्वं न स्थैर्यवादिभिरेवाभ्युपगतं किन्तु क्षणिकवादिना बौद्धेनाप्यभ्युपगतमिति स्वसिद्धान्तादप्यन्वयनियमं सहकारिभिः सहैव कुर्वद्रूपः क्षणिको भावः कार्य करोतीत्येवंस्वरूपमभ्युपगच्छतो बौद्धस्य क्षणिकः कुर्वद्रूपो भावः सहकारिभिविना न करोत्येव कार्यमित्येवस्वरूपव्यतिरेकनियमाभ्युपगन्तृत्वं स्यादेवेत्याह - अन्वय-व्यतिरेकनियमयोरिति- अन्वय-व्यतिरेकव्याप्योरित्यर्थः । मिथोनान्तरीयकत्वं परस्परव्याप्यत्वम् , समनियतत्वमिति यावत् । इति एवम् । त्वदीयसिद्धान्तात् बौद्धसिद्धान्तात् । 'व्यतिरेकोऽप्यवर्जनीयः' इति पूर्वस्मिन् हेतुः । तथा च यत्रान्वयनियमस्तत्र व्यतिरेकनियमोऽपीत्यस्य व्यवस्थितौ च। व्यतिरेकनियमे क्षणिकोऽपि कुर्वपो भावः सहकारिभिर्विना न करोतीत्येवेति नियमे। आपततोऽपि स्वनिकटमागच्छतोऽपि । निवार्य निवर्त्य । न कुर्यात् कुर्वद्रूपोऽपि भावः कार्य न कुर्यात् । तत्र हेतुः-तैर्विना न करोतीति स्वभावाप्रच्यवादिति- यदि सहकारिणस्तत्सन्निधिमागच्छेयुरेव 'तेविना' इत्यस्य न करोति' इत्यस्य चाभावे सहकारिविरहप्रयुक्त कार्यकारित्वाभावस्वरूपस्य तैर्विना न करोति' इति स्वभावस्यैवाभावप्रसङ्गादित्यर्थः । प्रतिवन्द्या प्रतिविधानं कर्तुमिच्छुरुदयनाचार्य:- सम्भावनाविषयीभूतार्थप्रतिपादको यदिशब्दः, सम्भावनाविषयीभूतार्थश्च क्वचिद् विधिरूपः क्वचिच्च निषेधरूपः, द्विविधोऽप्ययमों यथार्था-ऽयथार्थभेदेन द्विविधः, तत्र यत्रेष्टापादनरूपः प्रसङ्गस्तत्र सम्भावनाविषयीभूतोऽथों यथार्थः, यथा-यदि पर्वते धूमः स्याद् वह्निरपि स्यादित्यत्र वह्नि-धूमौ पर्वताधिकरणको विधिरूपौ यथार्थों, यथा वा- इदे यदि वह्निर्न स्याद् धूमोऽपि न स्यादित्यत्र हदाधिकरणको वह्नयभाव-धूमाभावौ निषेधरूपौ यथार्थो, यत्र चानिष्टापादनरूपः प्रसङ्गस्तत्र सम्भावनाविषयीभूतोऽर्थोऽयथार्थः, यथा- यदि इदे धूमः स्याद् वह्निरपि स्यादित्यत्र इदे वह्नि-धूमौ विधिरूपावयथाथी, यथा वा-पर्वते यदि वह्निर्न स्याद् धूमोऽपि न स्यादित्यत्र पर्वते वह्नयभाव-धूमाभावौ निषेधरूपावयथार्थों, एवं च यद्यर्थघटितस्वभावावप्यन्वयव्यतिरेको क्वचिदप्यधिकरणे सम्भाव्यमानौ तथा भवतः, न तयोराश्रये सत्त्वं, तद् यावदाश्रयकालनियतकालमेवेति नियम इति कुर्वद्रूपे कारणे सहकारिसमवधानकनियते कार्यकारित्वलक्षणान्वयैकनिलये यद्यर्थघटितसहकारिसमवधानाभावसहितकार्यकारित्वाभावलक्षणव्यतिरेकोऽसन्नपि कल्पनापथमवतरतीति पराकूतमुत्प्रेक्ष्य परशङ्कामुत्थापयति- अथेति । स्वभावाधीनसन्निधीनां कुर्वद्रूपात्मककारणरूपेऽवश्यं सन्निहितेन भाव्यमित्येवम्भूतस्वभावाधीनसन्निधीनाम् , अथवा प्रतिनियतकारणेभ्यः