________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
प्रकारकनिर्णयस्य हेतुत्वादिति चेत् ? एवमप्यनुमितौ स्वातन्त्र्येणैव हेतुत्वम् , अनुमितिसाधारणजन्यताव. च्छेदकत्वे नित्यव्यावर्तनाय जन्यत्वनिवेशस्यावश्यकत्वे मिथोविशेषणविशेष्यभावे विनिगमनाविरहेण नानाकार्यकारणभावस्यावश्यकत्वादवच्छेदकगौरवाञ्च' इत्याहुः ।
परे तु-"अनुभवत्वादिकमनिवेश्यं विशिष्टवैशिष्ट्यविषयतावत्त्वमेव तदवच्छेदकम् , विशेषणतावच्छेदकप्रकारकज्ञानशून्यकालीनस्मरणे ईश्वरज्ञाने च विशेष्ये विशेषणम्' इत्येतादृशविषयतामात्र. मभ्युपेयते, अतो न व्यभिचारो नवा नित्यसाधारणम्” इत्याहुः। ...
केचित् तु विशेषणतावच्छेदकसंशयकाले विशिष्टवैशिष्ट्यबोधं स्वीकृत्य विशेषणतावच्छेदकप्रकारकप्रत्यक्षा-ऽनुमितिसाधारणम्, तच्च नित्यप्रत्यक्षसाधारणत्वान्न कार्यतावच्छेदकम् , जन्यानुभवमात्रवृत्तिजातिविशेषश्च नाभ्युपगन्तुं शक्यः, प्रत्यक्षत्वाभाववत्यनुमितौ तस्य सत्त्वं तदभाववति नित्यप्रत्यक्षे प्रत्यक्षत्वस्य सत्त्वमित्येवं परस्परात्यन्ताभावसामानाधिकरण्ये सति तयोर्जन्यप्रत्यक्षे विद्यमानत्वेन प्रत्यक्षत्वेन साङ्कर्यात् , किन्तु जन्यत्वे सति विशिष्टवैशिष्ट्यावगाह्यनुभवत्वं तदुभयसाधारणं विशेषणतावच्छेदकप्रकारकनिर्णयकार्यतावच्छदकं वाच्यम् , तत्र यथा जन्यत्वं सामानाधिकरण्यसम्बन्धेनानुभवत्वस्य विशेषणं तथाऽनुभवत्वमपि सामानाधिकरण्यसम्बन्धेन जन्यत्वस्य विशेषणं सम्भवत्येव, न चात्र विनिगमकं किञ्चिद् येन जन्यत्वविशिष्टमनुभवत्वमेव निरुक्तजन्यावच्छेदक नानुभवत्वविशिष्ट जन्यत्वं तथेति गुरुधर्मावच्छिन्न कार्यकारणभावद्वय प्रसङ्ग इत्यतोऽनुमितेविशिष्टवैशिष्ट्यागाहिन्या यद् विशेषणतावच्छेदकप्राकारकनिर्णयजन्यत्वं तदवच्छेदकमन्यदेव, तदन्यदेव च विशिष्टवैशिष्ट्यावगाहिप्रत्यक्षे विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकमिति- समाधत्ते- एवमपीति- अनुमितेविशिष्टवैशिष्ट्यावगाहित्वेन विशेषणतावच्छेदकप्रकारकनिर्णयजन्यत्वेऽपीत्यर्थः । स्वातन्त्र्येणैवेति-विशिष्टवैशिष्टयावगाह्यनुमितित्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकनिर्णयत्वेन कारणत्वमित्यर्थः। नन्वेवमुक्तानुमिति प्रति पृथकारणत्वं पृथक् च प्रत्यक्षविशेष प्रति कारणत्वमित्येवं गौरवं स्यादतोऽनुमितिसाधारणधर्मस्य कार्यतावच्छेदकत्वमुररीकृत्यैक कारणत्वकल्पनमेव न्यायमित्यत आह- अनुमितीति- अनुमितिसाधारणधर्मस्य विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकल इत्यर्थः । नित्यव्यावर्तनाय नित्यप्रत्यक्षे कार्यतावच्छेदकधर्मस्य व्यावर्तनाय । जन्यत्वनिवेशस्य जन्यत्वे सति विशिष्टवैशिष्टयावगाह्यनुभवत्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकनिर्णयः कारणमित्येवं कार्यकारणभावक्लप्ती कार्यतावच्छेदककोटी जन्यत्वनिवेशस्य । मिथोविशेषणविशेष्यभाव इति- सामानाधिकरण्यसम्बन्धेन जन्यत्वविशिष्टनिरुक्तानुभवत्वं प्रकृतकार्यतावच्छेदकयुक्तानुभवत्वविशिष्टं जन्यत्वं वा तथेत्येवं विशेषणविशेष्यभावे । नानाकार्यकारणभावः स्वातन्त्र्येणानुमितित्वस्य कार्यतावच्छेदकत्वेऽप्यत आह-अवच्छदकगौरवाच्चेति । विशिष्टवैशिष्टयविषयतावत्त्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकनिर्णयः कारणमित्येकविध एव कार्यकारणभाव:. विशिष्टवैशिष्ट्यविषयतावत्त्वं यथा प्रत्यक्षविशेषे तथाऽनुमितावपीति, ईश्वरप्रत्यक्षं विशेषणतावच्छेदकप्रकारकज्ञानशून्यकालीनं स्मरणं च 'विशेष्ये विशेषणम्' इति रीत्यैवोपेयत इति तत्र विशिष्टवैशिष्ट्यविषयतावत्त्वस्याभावादेव व्यभिचाराप्रसक्तावीश्वरप्रत्यक्षव्यावर्तनाय जन्यत्वस्य स्मरणव्यावर्तनायानुभवत्वस्य कार्यतावच्छेदककोटौ न निवेश इति परेषां मतमुपदर्शयति-परे विति- अस्त्र 'आहुः' इत्यनेन सम्बन्धः । 'अनिवेश्यम्' इत्यस्य स्थाने 'अनिवेश्य' इति पाठो युक्तः। तदवच्छेदकं विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकम् । अत: ईश्वरक्षाने निरुक्तस्मरणे च विशिष्टवैशिष्ट्यविषयतावत्त्वाभावात् ।
'दण्डो रक्तो नवा' इति संशयानन्तरं 'रक्तदण्डवान्' इति रक्तत्वविशिष्टदण्डवैशिष्टयावगाहिबुद्ध्यनुत्पत्तावेव विशेषणता. वच्छेदकप्रकारकनिर्णयत्वेन विशिष्टवैशिष्टयावगाहिबुद्धि प्रति कारणत्वमभ्युपेयम्, न चैवम् , उक्त संशयानन्तरमपि विशिष्टवैशिष्टयावगायुक्तबुद्धिरुत्पद्यत एवेति विशिष्टवैशिष्टयावगाहिबुद्धिं प्रति विशेषणतावच्छेदकप्रकारकज्ञानत्वेनैव कारणत्वं लाघवादुपेयते, अथवा लाघवाद् विशेषणतावच्छेदकप्रकारकज्ञानत्वेन विशिष्टवैशिष्टयावगाहिबुद्धि प्रति कारणत्वे व्यवस्थिते विशेषणतावच्छेदकप्रकारकसंशयकालेऽपि विशिष्टवैशिष्टयावगादिबोधः स्वीक्रियत इति केषाञ्चिन्मतं प्रतिक्षेप्तुमुपन्यस्यतिकेचित् त्विति- अस्य 'आहुः' इत्यनेनान्वयः। अत्र संशयस्य ज्ञानत्वादिना कारणत्वं प्रतिबन्धकत्वं वा, तत्राप्रामाण्यज्ञानस्य निर्णयत्वेनैवोत्तेजकत्वम् , अर्थात् अप्रामाण्यनिर्णयानास्कन्दितस्यैव ज्ञानस्य कारणत्वं प्रतिबन्धकत्वं वा, यतोऽप्रामाण्यनिर्णये सति तज्ज्ञानविषयस्य वैपरीत्यं सुनिश्चितं भवतीति तज्ज्ञानं स्वविषयस्य संशयात्मना निर्णयात्मना चाव्यवस्थिती