________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
-
तादृशानुमित्युत्पादासम्भवात् , न च 'विशेष्ये विशेषणम्' इति रीत्या 'पृथिवी इतरभेदवती' इत्याकारकानुमितिस्तत्र जायत एवेति वाच्यम् , तथा सति साध्यज्ञानशून्यकाले तादृशपरामर्शात् 'पृथिव्यामितरभेदः, पृथिवी इतरभेदवती' इत्याद्याकारकद्विविधविषयताशालिन्या अनुमितेरापत्तेः, न च विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य हेतुत्वान्नेयमापत्तिः, एवमपि प्रमेयत्वेनेतरभेदज्ञानकाले तथाविधानुमितेरापत्तिसम्भवात्, न च प्रमेयत्वादिना साध्यज्ञानकाले साध्यविशेष्यकानुमितिप्रतिबन्धकीभूतसाध्यसिद्धिसत्वेन न तत्र तथाविधविषयताशाल्यनुमित्यापत्तिरिति वाच्यम् , साध्यतावच्छेदकप्रकारकसिद्धेरेव साध्यविशेष्यकानुमितिविरोधित्वात् , अन्यथेतरभेदत्वरूपेण भेदान्तरावगाहिसिद्धिकाले तादृशानुमितिवारणाय तत्र पक्षविशेध्यतां निवेश्य सिद्धेः प्रतिबध्यप्रतिबन्धकभावान्तरापत्तेः, तस्मादितरभेदत्वप्रकारकज्ञानकालीनव्यतिरेकव्याप्तिज्ञानजन्यानुमितिविशिष्टवैशिष्ट्यविषयतास्वीकार आवश्यकः, तत्साधारण्यं च विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकस्यावश्यकम् , तथा च सति नेतरभेदत्वप्रकारकज्ञानशून्यकाले 'विशेष्ये विशेष. णम्' इति रीत्येतरभेदत्वप्रकारकद्विविधविषयताशाल्यनुमित्यापत्तिः, विशिष्टवैशिष्ट्यानवगाहिन्या विशेष्ये विशेषणमिति रीत्या जायमानाया अनुमितेरप्रसिद्धः, विशिष्टवैशिष्ट्यावगाहिन्यां च विशेषणतावच्छेदकपृथिव्यामितरभेदः' इत्याकारिकायाश्चैत्येवंद्विविधविषयताशालिन्या अनुमितेः। ननु प्रमेयत्वेन रूपेण यदितरभेदज्ञानं तत् साध्यप्रसिद्धिरूपत्वात् साध्यविशेष्यकानुमितिप्रतिबन्धकमिति तत्काले जायमानाया अनुमितेः साध्यविशेष्यकत्वाभावान्नोक्तद्विविधविषयताशाल्यनुमित्यापत्तिरित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य वाच्यम्' इत्यनेनान्वयः। तत्र प्रमेयत्वादिना साध्यज्ञानकाले । तथाविधेति-निरुक्तद्विधेत्यर्थ. । साध्यविशेष्यकानुमिति प्रति साध्यसिद्धेः साध्यतावच्छेदकप्रकार कमिद्धित्वेनैव प्रतिबन्धकत्वम् , प्रमेयत्वं च न प्रकृतसाध्यतावच्छेदकमिति तत्प्रकारकज्ञानस्य साध्यतावच्छेदकप्रकारकज्ञानत्वाभावात् प्रतिबन्धकत्वाभावेन तथाविधविषयताशाल्यनुमित्यापत्तिः स्यादेवेति निषेधहेतुमुपदर्शयति-साध्यतावच्छेदकप्रकारकसिद्धेरेवेति । अन्यथा साध्यतावच्छेदकप्रकारक ज्ञानत्वेन साध्यविशेष्यकानुमितिं प्रति साध्यसिद्धेः प्रतिबन्धकत्वमनभ्युपगम्य साध्यविषयकज्ञानत्वेन प्रतिबन्धकत्वाभ्युपगमे । 'तादृशानुमितिवारणाय' इति स्थाने 'तादृशानुमित्यनुत्पत्तिवारणाय' इति पाठो भवितुमर्हति । अत्रायमभिप्रायः- साध्यतावच्छेदकप्रकारक ज्ञानत्वेन साध्यसिद्धेः प्रतिबन्धकत्वे इतरभेदत्वेन भेदान्तरावगाहिज्ञानस्यापि साध्यविशेष्यकानुमितिं प्रति प्रतिबन्धकत्वेन तत्काले साध्यविशेष्यकानुमित्यनुत्पत्तिरयत्नोपनतेव, साध्यज्ञानत्वेन प्रतिबन्धकत्वपक्षे तु यत्साध्यस्य ज्ञानं तत्साध्यविशेष्यकानुमितिर्न भवतीति पृथिवी. तरभेदत्वेन भेदान्तरावगाहि ज्ञानं न साध्यविशेष्यक ज्ञानमिति तन्न स्त्र प्रतिबन्धकमिति भवत्येव तत्र साध्यविशेष्यकानुमितिरित्येवं यत् तादृशानुमित्युनुत्पत्तेरिणं तद् विशिष्य साध्यविशेष्यकत्वस्य प्रतिबध्यप्रतिबन्धकभावकोटौ निवेशे सत्येव इत्येवं प्रतिबध्यप्रतिबन्धकभावान्तरापत्त्या गौरवमिति । 'पक्षविशेष्यताम' इत्यस्य पक्षनिरूपिता या साध्यनिष्ठविशेष्यता तामित्यर्थः । 'अथ' इत्याशङ्कि । स्ववक्तव्यमुपसंहरन्नाह-तस्मादिति । 'झानजन्यानुमिति' इति स्थाने 'ज्ञानजन्यानुमितौ' इति पाठो. युक्तः । यदा चोक्तानुमितौ विशिष्टवैशिष्टयविषयता तदा तादृशानुमितिरपि विशेषणतावच्छेदकप्रकारकनिर्णयजन्येति विशिष्टवैशिष्टयप्रत्यक्षत्वं तदवृत्तित्वान्न्यूनवृत्तितया न विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकं किन्तु प्रत्यक्षानुमितिसाधारणमेव विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकमुपेयमित्याह-तत्साधारण्यं चेतिअनुमितिसाधारण्यं चेत्यर्थः, विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकस्य तत्साधारण्यं चावश्यकमित्यन्वयः। तथा च सति विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकस्यानुमितिसाधारण्ये च सति । नेतरेति- नमोऽनुमित्यापत्तिरित्यनेनान्वयः । कथं नोक्तद्विविधविषयताशाल्यनुमित्यापत्तिरित्यपेक्षायामाह-विशिष्टवैशिष्ट्यानवगाहिन्या इति'विशेष्ये विशेषणम्' इति रीत्या काऽप्यनुमितिर्भवत्येव नेत्यप्रसिद्धत्वादेव पृथिवी पृथिवीतरभिन्ना' इत्याकारकानुमितेः 'विशेष्ये विशेषणम्' इति रीत्याऽभ्युपगन्तुमशक्यत्वाद् विशिष्टवैशिष्ट्यावगाहिनी सा भवति, किन्तु तां प्रति विशेषणतावच्छेदकप्रकारकनिर्णयविधया पृथिवीतरभेदत्वप्रकारकनिर्णयः कारणमिति तच्छून्यकाले तद्रूपकारणाभावादेव न सोत्प. तुमर्हतीति 'पृथिवी इतरभेदव्यापकीभूताभावप्रतियोगि थिवीत्ववती' इत्याकारकव्यतिरेकपरामर्शात् तदानीं 'पृथिव्यामितरभेदः' इत्येकाकारैवानुमितिरिति द्विविधविषयताशाल्यनुमित्यापत्तिर्न सम्भवतीत्यर्थः। विशिष्टवैशिष्ट्यावगाह्यनुभवत्वमेव