________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
तीयप्रत्यक्षत्वस्य तज्जन्यतावच्छेदकत्वे 'इतरव्यापकीभूताभावप्रतियोगिपृथिवीत्ववती पृथिवी' इत्याकारकपरामर्शाद् इतरभेदत्वप्रकारकज्ञानदशायामिव तच्छून्यदशायामपि 'पृथिवी इतरभेदवती' इत्याकारकविशिष्टवैशिष्ट्य विषयताशालिन्या अनुमितेरापत्तिः, सादृशानुमितावन्वयव्याप्तिज्ञानस्यैव हेतुत्वान्नापत्तिरित्युको च स्वातन्त्र्येणेतरभेदत्वप्रकारकज्ञानस्य सत्त्वे सादृशानुमित्यनुदयापत्तिः, न च पृथिव्यामितरभेदविशेष्यकानुमितेरेव स्वीकारानेयमापत्तिः, साध्यविशेष्यकानुमितौ साध्यप्रसिद्धेविरोधितया तत्र प्रबन्धकाभावाद् व्यतिरेकपरामर्शतः सायविशेष्यिका 'पृथिव्यामितरभेदः' इत्याकारिका 'पृथिवी पृथिवीतरभिन्ना' इत्याकारिका च साध्यप्रकारिका 'विशेष्ये विशेषणम्' इति रीत्याऽनुमितिः स्यात् , साध्यरूपविशेषणज्ञानमपि विशिष्टबुद्धिकारणं यद्यपेक्षितं तदपि प्रमेयत्वेनेतरभेदज्ञानकाले समस्त्येव, साध्यतावच्छेदकप्रकारकसिद्धेरेव साध्यप्रसिद्धिविधया साध्यविशेष्यकानुमितिविरोधितया तस्याः प्रमेयत्वेन रूपेण साध्यज्ञानकालेऽभावात् , यदि च साध्यज्ञानमेव साध्यसिद्धिरिति प्रमेयत्वेन तज्ज्ञानमपि साध्यसिद्धिर्भवत्येव, तर्हि इतरभेदत्वलक्षणसाध्यतावच्छेदकप्रकारकं यद् भेदान्तरविशेष्यकज्ञानं तन्न साध्यसिद्धिरिति तत्काले साध्यविशेष्यकानुमितिरिष्टैव स्यात् तदर्थ प्रतिबन्धककोटौ विशिष्य साध्यविशेष्यकत्वं निवेशनीयं भवेदिति गौरवं स्यात् , अत इतरभेदत्वप्रकारकज्ञानकाले व्यतिरेकपरामर्शादपि विशिष्टवैशिष्ट्यावगाह्य नुमितिरेव भवति न तु 'विशष्ये विशेषणम्' इति रीत्या, एवं च तस्या विशेषणतावच्छेदकप्रकारकज्ञानशून्यकाले आपत्तिवारणाय विशेषणतावच्छेदकप्रकारक. ज्ञानजन्यतावच्छेदकमनुमितिसाधारणमेव स्वीकरणीयमिति शङ्कते- अथेति । विजातीयप्रत्यक्षत्वस्य जन्यप्रत्यक्षमात्रवृत्तिजातिविशेषस्य । तजन्यतावच्छेदकत्वे विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकत्वे । इतरव्यापकीभूतेतिपृथिवीतरव्यापकीभूतेत्यर्थः । व्याप्यतावच्छेदकसम्बन्धश्च तादात्म्यम् । तच्छन्यदशायामपि इतरभेदत्वप्रकारकज्ञानशून्यदशायामपि, अनुमितौ विशिष्टवैशिष्ट्यावगाहिन्यामपि विशेषणातावच्छेदकप्रकारकनिर्णयस्याकारणत्वेन तत्सत्ताया अनावश्यकत्वात् । तादृशानुमितौ पृथिवी पृथिवीतरभेदवती' इत्याकारकानुभितौ । 'अन्वयव्याप्तिज्ञानस्यैव, इत्येवकारेण व्यतिरेकव्याप्तिज्ञानस्य व्यतिरेकव्याप्तिविशिष्टहेतुमत्तापरामर्शस्य च तादृशानुमितौ कारणत्वस्य व्यवच्छेदः ।' स्वातन्त्र्येणेति- यत्र 'पृथिवीतरव्यापक भूताभावप्रतियोगिपृथिव त्ववती पृथिवी' इत्याकारकव्यतिरेकपरामर्शः, परामर्शासन्निविष्टतयव पृथिवीतरभेदत्वप्रकारकज्ञानं च तत्र 'पृथिवी पृथिवीतरभिन्ना' इत्याकारकानुमितिरुत्पद्यमानाऽनुभूयते, सा न स्यात् तां प्रति तदानीं विद्यमानम्य व्यतिरेकपरामर्शस्याकारणत्वात् , तत्कारणतयाऽभिमतस्यान्वयव्याप्तिज्ञानस्य तदानीमभावादित्यर्थः । 'सादृश' इति स्थाने 'तादृश' इति पाठो युक्तः । तदानीं 'पृथिव्यामितरभेदः' इत्याकारिका आधेयतासम्बन्धेन पृथिवीप्रकारकपृथिवीतरभेदविशेष्यकैवानुमितिरेवोदयते इत्याशङ्कय प्रतिक्षिपति-न चेति । नेयमापत्तिरिति- तदानीं पृथिवीविशेष्यकपृथिवीतरभेदप्रकार कानुमितेरनुपगमान्न तदनुत्पत्त्यापादनम् , इष्टापत्तिरूपतया न दोषावहमित्यर्थः । साध्यविशेष्यकानुमितौ साध्यप्रसिद्धेविरोधित्वेन स्वातन्त्र्येणेतरभेदत्वप्रकारकज्ञानस्य विरोधिनः सत्त्वे तदानीं साध्यविशेष्यकानुमित्युत्पादस्यासम्भवेन साध्यप्रकारकानुमित्युत्पादस्यैव स्वीकर्तुमुचितत्वेन तदनुमित्यनुत्पादापादनस्यानिष्टतयेष्टापादनत्वेन तत्परिहरणं कर्तुमशक्यमिति निषेधहेतुमुपदर्शयति - साध्य विशेष्यकानुमिताविति । तत्र इतरभेदत्वप्रकारकज्ञानकाले । तादृशानुमित्युत्पादासम्भवात् पृथिव्यामितरभेदविशेष्यकानुमित्युत्पादस्यासम्भवात् । तदानीं 'विशेष्ये विशेषणम्' इति रीत्या साध्य प्रकारिकाऽनुमितिरुपजायत इत्याशङ्कय प्रतिक्षिपति-न चेति । तत्र स्वातन्त्र्येणेतरभेदत्वप्रकारकज्ञानकाले । यदि 'विशेष्ये विशेषणम्' इति रीत्येव पृथिवीतरभेदप्रकारिकानुमितिरुपेयते तदा तत्र विशेषणतावच्छेदकप्रकारकज्ञानस्य नापेक्षेति यदा स्वातन्त्र्येणापि पृथिवीतरभेदत्वप्रकारकज्ञानं नास्ति किन्तु केवलव्यतिरेकपरामर्श एव विद्यते तदानीं साध्यविशेष्यकानुमितिप्रतिबन्धकसाध्यप्रसिद्धरभावात् साध्यविशेष्यिकोक्तदिशा साध्यप्रकारिका चेत्युभयाकारानुमितिः स्यादिति निषेधहेतुमुपदर्शयति-तथा सतीति- विशेष्ये विशेषणमिति रीत्या साध्यप्रकारकानुमितेरभ्युपगमे सतीत्यर्थः, । तादृशपरामर्शात् 'पृथिवीतरव्यापकीभूताभावप्रतियोगिपृथिवीत्ववती पृथिवी' इत्याकारकव्यतिरेकपरामर्शात् , ननु विशेष्ये विशेषणमिति रीत्याऽनुमितिरपि विशिष्टबुद्धिर्भवत्येव, सा साध्यरूपविशेषणज्ञानजन्येति साध्यज्ञानाभावे कारणाभावानोत्पतुमहतीत्याशङ्कय प्रतिक्षिपति-न चेति । नेयमापत्तिः पृथिवी पृथिवीतरभिन्ना' इत्याकारकानुमित्यापत्तिर्न सम्भवति । निषेधे हेतुमाह-एवमपीति- स्वातन्त्र्येण पृथिवीतरभेदत्वप्रकारकज्ञानशून्यकाले विशेषणज्ञानाभावात् ' साध्यप्रकारकशानलक्षणसाध्यविशिष्टबुद्धयापादनासम्भवेऽपीत्यर्थः । तथाविधानुमितेः 'पृथिवी पृथिवीतरभिन्ना' इत्याकारिकायाः,
तरकपरामर्श एवं
पृथिवीतरव्या वात- विशेष्ये विष्यकोक्तदिशा
विशेष