________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
ज्ञानत्वेनैव हेतुत्वमाहुः, तदसत् - संशयसाधारणज्ञानस्य हेतुत्वेऽप्रामाण्यनिर्णयस्यैवोत्तेजकतया निर्णयत्वेन हेतुत्वे चाप्रामाण्यज्ञानस्यैव तथात्वे निर्णयत्वेन हेतुत्वकल्पनाया एवोचितत्वाद्, अन्यथा विशेषणतावच्छेदकप्रकारकज्ञानीयनिर्णयत्वापेक्षया गुरुशरीरस्याप्रामाण्यज्ञाननिर्णयत्वस्य निवेशेन महागौरवप्रसङ्गात्, अथ विशेषणतावच्छेदकसंशयकाले तत्र चाप्रामाण्यशङ्कायां भवन्मत इव ममापि विशिष्टवैशिष्ट्य बोधो न जायत इत्यप्रामाण्यज्ञानत्वावच्छिन्नाभावस्यैव निवेशे क्व दोष इति चेत् ? एवमपि संशयसाधारणज्ञानस्य विशिष्टवैशिष्ट्यबोधहेतुत्वे अनुमित्यादिकं प्रति परामर्शहेतुत्वे व्याध्याद्यंशे निर्णयत्वनिवेशे महान स्वकार्यं कार्यान्तरं वा कुर्यात् प्रतिबध्नीयाद् वा, तत्राप्रामाण्यसंशये तु तदधीनो विषयसंदेह एव, न तद्वैपरीत्यमिति स्वविषयसंशयात्मकत्वं तस्याक्षुण्णमेवेति तदात्मनस्तस्य स्वकार्यकरणसामर्थ्यं कार्यान्तरः तिबन्धनसामर्थ्यं च समस्त्येवेत्य प्रामाण्यसंशयस्याकिञ्चित्करत्वान्न तत्रोत्तेजकत्वम्, यत्र तु निर्णयस्यैव कारणत्वं प्रतिबन्धकत्वं वा तत्राप्रामाण्यज्ञानस्याप्रामाण्यज्ञानत्वेनैवोत्तेजकत्वम्, अर्थादप्रामाण्यज्ञानानास्कन्दितस्यैव तस्य कारणत्वं प्रतिबन्धकत्वं वा, यतस्तत्राप्रामाण्यसंशये अप्रामाण्यनिर्णये वा सति तस्य स्वविषये सन्दिग्धत्वस्य वैपरीत्यस्य वा प्राप्तौ निर्णयरूपता तस्य स्वदिषयादपैतीति निर्णयात्मना तस्य न स्वकार्यकारित्वं कार्यान्तरप्रतिबन्धकत्वं वेति, एवं च प्रकृते विशेषणतावच्छेदकप्रकारकज्ञानत्वेन विशिष्टवैशिष्टयावगाहिबुद्धिं प्रति कारणत्वे तत्राप्रामाण्यनिर्णयत्वेनैवाप्रामाण्यज्ञानस्योत्तेजकत्वमिति गौरवम्, विशेषणतावच्छेदकप्रकारकनिर्णयत्वेन कारणत्वे तु अप्रामाण्यज्ञानत्वेनैवोत्तेजकत्वमिति लाघवम्, ततो विशेषणतावच्छेदकप्रकारक निर्णयत्वस्यैव प्रकृतकार्यकारणत्वावच्छेदकत्वं युक्तमतः केषाञ्चिन्मतं न युक्तमित्याह - तदसदिति । तथात्वे उत्तेजकत्वे । अन्यथा निर्णयत्वस्य कारणतावच्छेदककोटावनिवेश्य तत्स्थाने ज्ञानत्वस्य निवेशे । विशेषणले ति - विशेषणतावच्छेदकप्रकारक निर्णयत्वं विशेषणतावच्छेदकाभावाप्रकारकत्वे सति विशेषणतावच्छेदकप्रकारकज्ञानत्वम्, तदपेक्षया तदभाववन्निष्ठविशेष्यता निरूपिततन्निष्ठप्रकारताकत्वलक्षणाप्रामाण्या भावाप्रकारकत्वे सति निरुक्ताप्रामाण्यनिष्ठ प्रकारता कल लक्षणाप्रामाण्यज्ञाननिष्ठनिर्णयत्वस्योत्तेजककोटौ विशेषणतावच्छेदकप्रकारकज्ञानत्वेन कारणत्वपक्षे प्रविष्टस्य गुरुत्वं सुव्यक्तमेवातो महागौरवप्रसङ्गादप्रामाण्यज्ञानानास्कन्दितविशेषणतावच्छेदकप्रकारकनिर्णयत्वेनैव विशिष्टवैशिष्टयावगाहिबुद्धिं प्रति कारणत्वं न तु अप्रामाण्य निर्णयानास्कन्दितविशेषणतावच्छेदकप्रकारकज्ञानत्वेनेति । ननु विशेषणतावच्छेदकप्रकारक ज्ञानत्वेन कारणत्वपक्षेऽप्यप्रामाण्यज्ञानत्वेनैवोतेजकत्वम्, यथा विशेषणतावच्छेदकप्रकारकनिर्णयत्वेन कारणत्वपक्षे विशेषणतावच्छेदकप्रकारक निर्णये अप्रामाण्यशङ्कायां ततो विशिष्टवैशिष्टयावगाहिज्ञानं न जायते तथा विशेषणतावच्छेदकप्रकारकज्ञानत्वेन कारणत्वपक्षेऽपि विशेषणतावच्छेदकप्रकारकसंशयेऽप्रामाण्यशङ्कायां ततो विशिष्टवैशिष्टयावगाहिबोधो न जायत एवेति तत्त्वेन कारणत्वपक्षेऽपि न गौरवमित्याशङ्कते - अथेति । तत्र च विशेषणतावच्छेदकसंशये च । भवन्मत इव विशेषणतावच्छेदकप्रकारक निर्णयत्वेन कारणत्वमिति मते विशेषणतावच्छेदकप्रकारकनिर्णयेऽप्रामाण्यशङ्कायामिव । ममापि विशेषणतावच्छेदकप्रकारक ज्ञानत्वेन कारणत्वमित्यभ्युपगन्तुर्मतेऽपि । निवेशे विशेषणतावच्छेदकप्रकारक ज्ञाननिष्ठ कारणतावच्छेदकतया निवेशे । विशिष्टवैशिष्टयबोधं प्रति विशेषणतावच्छेदकप्रकारक निर्णयस्य हेतुत्वे अनुमितिं प्रति हेतुत्वेनाभिमतस्य परामर्शस्य विशिष्टवैशिष्टयावगाहिबोधात्मकस्य कारणं विशेषणतावच्छेदकीभूतव्याप्तिप्रकारक निर्णय एवेति ततो जायमानस्य न व्याप्यंशे संशयरूपता, व्याप्त्यभावप्रकारक - ज्ञानं प्रति व्याप्तिप्रकारकनिश्चयस्य प्रतिबन्धकत्वेन व्याप्तिप्रकारक निर्णयोत्तरजायमानज्ञाने व्याप्यभावप्रकारकत्वासम्भवादित्येतावतैव परामर्शो व्याप्त्यंशे निर्णयरूप एवेति, यद्यपि अनाहार्याप्रामाण्यज्ञानानास्वन्दिततद्वत्ता निश्चयस्यैव तदभाववत्ताबुद्धिं प्रति प्रतिबन्धकत्वमित्याहार्यव्याप्तिप्रकारकनिश्चये सत्यपि तदनन्तरजायमानज्ञाने व्याप्त्यभावप्रकारकत्वं सम्भवति, तथापि विशेषणतावच्छेदकप्रकारकनिश्चयस्यानाहार्य प्रामाण्यज्ञानानास्कन्दितस्यैव विशिष्टवैशिष्ट्यबोध हेतु मिति विशिष्टवैशिष्ट्या वगाहिपरामर्शहेतुतयाऽऽदरणीयस्य व्याप्तिलक्षणविशेषणतावच्छेदकप्रकारक निर्णयस्यानाहार्यत्वमेवेति न तदनन्तरं व्याप्तिप्रकारक संशयसम्भव इति अनुमितिं प्रति परामर्शस्य हेतुत्वे व्याप्यंशे निश्चयत्वं न निवेश्यते, विशेषणतावच्छेदकप्रकारक ज्ञानत्वेन संशयसाधारणधर्मेण कारणत्वपक्षे तु व्याप्तिरूपविशेषणतावच्छेदकप्रकारकसंशयादपि निरुक्तपरामर्शस्य सम्भवेन व्याप्यंशे संशयरूपस्यापि तस्य सम्भवेन ततोऽनुमित्युत्पत्तिवारणाय व्याप्यंशे निर्णयात्मकत्वं तस्य कारणतावच्छेदककोटौ निवेशनीयमिति गौरवं स्यादिति समाधत्ते - एवमपीति- विशेषणतावच्छेदकप्रकारकसंशयेऽप्रामाण्यसंशयदशायां विशिष्टवैशिष्ट्यबोधोत्पादस्यान
१३
९७