________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
न्यत्र विस्तरः | उदयनानुसारिणस्तु - " अनुत्पन्नतत्त्वज्ञानस्य ज्ञानार्थिनस्तत्प्रतिबन्धक दुरित निवृत्तिद्वारा प्रायश्चित्तवदारादुपकारकं कर्म स नित्योपकारकं च तत्त्वज्ञाने, उत्पन्न तत्त्वज्ञानस्य त्वन्तरलब्धदृष्टेः कारीरिसमाप्तिवदारब्धाग्नि संपालनं लोकसङ्ग्रहार्थम्, यद्यपि लोकसङ्ग्रहे न प्रयोजनम्, सुखदुःखभावतत्साधनेतरत्वात्, तथापि लोकानां नित्यत्वेन यज्ज्ञानं तत्परित्यागार्थं ( तत्परिपालनार्थं ) तत्तद्दुःखजैमिनीयैः सिद्धान्तितत्वादित्यर्थः । प्रन्थान्तरेऽप्ययं विशेषेण विचारितोऽस्ति, विशेषावगमेच्छुभिरवलोकनीयं तदेत्युपदेशाभिप्रायेणाह - इत्यन्यत्र विस्तर इति । एतावता प्रबन्धेन मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्ति न भवतीत्युपगन्तॄणां भास्करीयाणामाशयो दर्शितः, इदानीं मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्तीत्युपगन्तॄणामुदयनाचार्याणां मतमुपदर्शयति- उदयनानुसारिणस्त्विति - अस्य आहुरित्यनेनान्वयः । किमाहुरित्यपेक्षायामाह - अनुत्पन्नतत्वज्ञानस्येति - न उत्पन्न - मनुत्पन्नमनुत्पन्नं तत्त्वज्ञानं यस्य सोऽनुत्पन्नतत्त्वज्ञानस्तस्येत्यर्थः । कथम्भूतस्य तस्य ज्ञानार्थिनः ज्ञानेच्छो:, अस्याssरादुपकारकं कर्मेत्यनेनान्वयः । तत्प्रतिबन्ध केति - ज्ञानप्रतिबन्धकेत्यर्थः । प्रायश्चित्तवदिति - प्रायश्चित्तं यथा पापनिवृत्तिद्वारा पुरुषस्याऽऽरादुपकारकं साक्षादुपकारकं तथा नित्यनैमित्तिकादिकर्मापि ज्ञानप्रतिबन्धकपापनिवृत्तिद्वारा अनुत्पन्नतत्त्वज्ञानस्य पुंस आरादुपकारकं साक्षादुपकारकमित्यर्थः । स नित्यो " इत्यस्य स्थाने " सन्निपत्यो " इति पाठो युक्तः, सन्निपत्योपकारकं परम्परयोपकारकम् ज्ञानार्थिनः पुरुषस्य तत्प्रतिपन्थकदुरितनिवृत्तिरेवापकारः, स साक्षादेव भवतीत्येतावता तस्य साक्षादुपकारकं कर्मारादुपकारकमित्यभिधीयते, तत्त्वज्ञानस्य तु पूर्वमसत्त्वादात्मलाभ एवोत्पत्तिस्वरूप उपकारः, स च न साक्षात् कर्मणो भवति, किन्तु प्रतिबन्धकनिवृत्ति जनयित्वैवेति तत्त्वज्ञाने परम्परयोपकारकं कर्म सन्निपत्योपकारकमिति कथ्यत इति बोध्यम् । यस्य तत्त्वज्ञानमुत्पन्नं तस्य कर्म नाऽऽरादुपकारकं नवा सन्निपत्योपकारकमित्यनुपकारकस्य कर्मणस्तदानीं करणं किमर्थमित्यपेक्षायामाह - उत्पन्नतत्वज्ञान स्येति उत्पन्नं तत्त्वज्ञानं यस्य स उत्पन्नतत्त्वज्ञानस्तस्येत्यर्थः । " लब्धदृष्टेः इत्यस्य स्थाने ‘“ लब्धवृष्टेः " इति पाठो युक्तः, अन्तरं - कारीरीयागारारम्भ - तत्समाप्त्योर्मध्यकाले, लब्धा - प्राप्ता, वृष्टिर्येन सोऽन्तरलब्धवृष्टिस्तस्य कारीरीयागकर्तुः पुंसः कारीरी समाप्तिर्निष्फलाऽप्यनुष्ठिता भवति, वृष्टयर्थं हि कारीरीयागः क्रियते वृष्टिश्च कारीरीयागसमाप्तेः प्रागेव जातेति निष्फलत्वं तस्याः, तथा यावज्जीवमग्निहोत्रं जुहोतीति विधिप्राप्तस्वर्गादिफलकयावज्जीवनकालीन। ग्निहोत्रोपकारस्याग्नेः संपालनं तत्त्वज्ञानिनो निष्फलमपि तत्त्वज्ञानिनाऽप्यग्नि संपालनं क्रियतेऽतोऽस्माभिरप्याग्नि संपालनं कर्तव्यमेवेत्येवमुपात्तबुद्धयो लोका अग्निसंपालने प्रवर्तन्त इत्येवं लोकसङ्ग्रहार्थमित्यर्थः, अत्र
66
""
४०४
-
19
1
""
" न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ यदि, त्यहं न वर्तेयं तु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ | सर्वशः ॥ उत्सीदेयुरिमे लोकाः न कुर्यां कर्म चेदम् [ गीता, अ० ३ श्लो० २२] इत्यादि गीतावचनमपि प्रमाणं बोध्यम् । ननु लोकसङ्ग्रहस्य सुखदुःखाभाव-तत्साधनभिन्नत्वेन पुरुषार्थत्वाभावात् तदर्थ तत्त्वज्ञानिनोऽग्निपालनादौ प्रवृत्तिर्न युक्तेत्यत आह- यद्यपीति । " लोकसङ्ग्रहे ' इत्यस्य स्थाने " लोकसङ्ग्रहो " इति पाठो युक्तः । कथं न लोकसङ्ग्रहः प्रयोजनमित्यपेक्षयामाह - सुख-दुःखाभावतत्साधनेतरत्वादिति - सुख दुःखाभाव- सुवसाधन दुःखाभाव-साधनान्यतम भिन्नत्वादित्यर्थः, तत्र सुख-दुःखाभावयोरन्येच्छानधीनेच्छाविषयत्वलक्षणं परमप्रयोजनत्वम्, तत्साधनयोश्च सुख-दुःखाभावान्यतरेच्छाधीनेच्छाविषयत्वलक्षणं गौणप्रयोजनत्वम्, लोकसङ्ग्रहश्च तदन्यतराभावान्न प्रयोजनमित्याशयः । तथापि लोकसङ्ग्रहस्य प्रयोजनत्वाभावेऽपि, लोकानां विहिताचरणनिषिद्धानाचरणप्रवृत्तानां जनानाम्, नित्यत्वेन यज्ज्ञानं अग्निपालनं नित्यं सर्वदा कर्तव्यमित्याकारकम् तत्परिपालनार्थ तद्रक्षणार्थम्, यदि तत्त्वज्ञानी नाग्निसंपालनं विदध्यात् तदाग्निपालनं न नित्यं तत्त्वज्ञानिनाऽनाचरितत्वादित्यनुमानेनाग्निपालनस्य नित्यत्वाभावज्ञानेन प्रतिरुद्धत्वात् तन्नित्यत्वज्ञानं नोदियादिति अगत्या मरणं यद् द्विजैरग्निपालनं क्रियते तदुत्सादो भवेत्, तत्त्वज्ञानिनाऽग्नि संपालने आचर्यमाणे तु प्रतिबन्धकनित्यत्वाभावज्ञानाभावान्नित्यत्वज्ञानमविच्छेदेन समु दियादेवेति भवति तत्सुरक्षितम्, ततश्च लोकानां तदाचरणतोऽग्निहोत्रादिकर्मफलमपि शास्त्रोक्तं भवत्येवेत्येवं परम्परया परगतसुखदुःखाभावसाधनत्वात् तत्त्वज्ञान्याचर्यमाणस्याग्नि संपालनस्य सफलत्वमित्यर्थः । अथवा तत्त्वज्ञानिनः सञ्चितकर्मणां