________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
काभावात् ,मिथोऽनुपलम्भनियमस्य तत्साधकत्वे अन्योन्याश्रयात्। 'अव्यक्तस्वात्मरूपविकारान्तरोध्वंसः' इत्यनुद्धोष्यम् , बुद्ध्यादीनामात्मरूपविकारापत्तौ प्रमाणाभावात् , प्रदीपादेश्चाव्यक्तरूपस्य विकारस्य कार्यविशेषादर्शनेनासिद्धेः। किञ्च, भावान्तरस्य प्रध्वंसत्वे तद्विनाशात् घटाद्युन्मजनप्रसङ्गः, घटप्रागभाव-तद्धंसानाधारकालस्य घटाधारत्वव्याप्यत्वात्; न च कपालादेर्भावरूपतैव ध्वस्ता नाऽभावात्म. कतेति नायं दोषः, धर्मिप्रच्यवे धर्मप्रच्यवात् निराश्रयधर्मावस्थानायोगात् ; कपालादिकार्यपरम्परायामेव घटध्वंसत्वस्वीकारात् नायं दोष इति चेत् ? न-एवं सति घटध्वंसत्वस्य व्यासज्यवृत्तित्वे यावदाश्रयभानं विनाऽभानप्रसङ्गात्; तस्मात् तुच्छरूप एव ध्वंस इत्यवशिष्यते, तत्र च कारकव्यापारासम्भव एव, हेतुमत्त्वे तस्य भावत्वप्रसङ्गात्, भवनधर्मा हि भावः, अङ्कुरादावपि भावशब्दप्रवृत्तिनिमित्तं निवृत्तिरूपत्वे । नन्वङ्गाराग्रुपलम्भे इन्धनादिकं नोपलभ्यते, इन्धनाद्युपलम्भेऽङ्गारादिकं नोपलभ्यत इत्यतोऽङ्गारादिकमिन्धनादिनिवृत्तिरूपमुपेयत इत्यत आह-मिथोऽनुपलम्भनियमस्येति । तत्साधकत्वे निवृत्तिरूपत्वसाधकत्वे । अन्योन्या. श्रयादिति-अङ्गारादिजन्मनि कथमिन्धनं नोपलभ्यते इति पृच्छायामङ्गारादिक यत इन्धनादिनिवृत्तिरू रम् , कथमङ्गारादिकमिन्धनादिनिवृत्तिरूपमिति पृच्छायां यतोऽङ्गारादिजन्मनि इन्धनादिकं नोपलभ्यत इत्येवमुत्तरवितरणेऽन्योऽन्याश्रयस्य स्पष्ट प्रतीतेरित्याशयः। स्वस्वरूपाव्यक्तविकारो ध्वंस इति मतमुद्भाव्य प्रतिक्षिपति-अव्यक्तेति । बुद्धयादीनां यदा विनाशो भवति तदानीं बुद्धयादिरूपो विकारो नोपलभ्यत इत्यनुपलभ्यमानाव्यक्तबुद्धयादिरूपविकारे प्रमाणाभावेन बुद्धयादीनामुक्तस्वरूपध्वंसानापत्तेरित्याह-बुद्धयादीनामिति । एवं प्रदीपादेप्युक्तविकारे प्रमाणाभावेन तदात्मकध्वंसाभावापत्तिरित्याहप्रदीपादेश्चेति । अभावाभावस्य प्रथमाभावप्रतियोगिस्वरूपत्वेन घटादिध्वंसध्वंसस्य घटादिस्वरूपतया घटादिध्वंसस्य कपालादिभावस्वरूपत्वे कपालादिध्वंसाद्धटाद्युन्मजनप्रसझान्न ध्वंसस्य भावान्तरस्वरूपत्वमित्याह-किश्चेति । तद्विनाशात् कपालादिस्वरूपघटादिध्वंसविनाशात् । कथं भावान्तररूपत«सविनाशात् तदुन्मजनप्रसङ्ग इत्यपेक्षायामाहघटप्रागभावेति । तद्धवंसेति-घटध्वंसेत्यर्थः । 'कालस्य' इति स्थाने 'कालत्वस्य' इति पाठः, भावप्रधानो वा निर्देशः, व्याप्तिश्च यत्र घटप्रागभाव-तद्ध्वंसानाधारकालत्वं तत्र घटाधारत्वमित्येवंरूपा । ननु कपालादेर्या घटध्वंसादिरूपता सा कपालादिनाशेऽपि न नश्यतीति घटादिध्वंसरूपताया नाशाभावान्न घटाद्युन्मजनप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति-न चेति । भावरूपतैव कपालादिभावात्मकतैव । ध्वस्ता कपालादिनाशाद् विनष्टा,। नाभावात्मकता कपालादेर्घटादिध्वंसात्मकता न विनष्टा । इति एतस्माद्धेतोः । नायं दोषः घटाद्युन्मजनप्रसङ्गरूपो दोषो न । प्रतिक्षेपे हेतुमाह-धर्मिप्रच्यव इति- कपालाद्यात्मकधर्मिणो नाशे सति धर्मस्य घटादिध्वंसरूपत्वस्यापि विनाशात् निराश्रयस्याधाररहितस्य धर्मस्यावस्थानासम्भवादित्यर्थः। ननु कपालं यथा घटध्वंसरूपं तथा कपालानन्तरं यत्कार्य तदपि घटघसरूपम् , एवं तत्कार्यानन्तरकायमपीत्येवं कपालादिकार्यपरम्परायामेव घटधसत्वस्य स्वीकारेण कपालविनाशेऽपि तदनन्तरकार्यस्य विद्यमानत्वेन तदात्मना घटध्वंसस्य विद्यमानतया घटवंसध्वंसाभावान्न घटोन्मजनप्रसङ्ग इत्याशङ्कते- कपालादीति । यदि कपालादिकार्येषु प्रत्येक परिसमाप्तं घटध्वंसत्वं तदैकस्य कपालादिरूपकार्यस्य नाशे तदात्मना घटध्वंसस्यापि नाशः स्यादिति घटोन्मजनप्रसङ्गः स्यादेव, यदि च कपालादिपरम्परितकार्यसमूहेष्वेव पर्याप्तं घटध्वंसत्वं तदा व्यासज्यवृत्तस्तस्य यावदाश्रयप्रत्यक्षे सत्येव प्रत्यक्ष भवेत्, व्यासज्यवृत्तिधर्मप्रत्यक्ष प्रति यावदाश्रयप्रत्यक्षस्य हेतुत्वात्, तथा च मुद्गरपाततः कपालकदम्बके जाते सति घटो ध्वस्त इत्येवंरूपेण घटध्वंसस्य तत्त्वेन यत् प्रत्यक्षं भवति तन्न स्यादिति समाधत्ते-नेति । एवं सति कपालादिकार्यपरम्पसयामेव घटध्वंसत्वस्य स्वीकारे सति । तस्मात् भावान्तरस्य ध्वंसरूपत्वासम्भवात् । तत्रच तुच्छरूपध्वंसे च। यदि च तुच्छरूपेऽपि ध्वंसे कारकव्यापारोऽभ्युपगम्यते तदा तुच्छरूपत्वमेव तस्य न स्यात् किन्तु हेतुमत्त्वे भवनधर्मकस्य ध्वंसस्य भावत्वमेव स्यात्, अन्यत्राप्यकुरादौ भवनधर्मरूपभावशब्दप्रवृत्तिनिमित्तबलादेव भावशब्दप्रवृत्तिः, भवनं च हेतुमति ध्वंसेऽपि समस्तीति तत्रापि भावशब्द एव प्रवतेत नाभाव इत्याह-हेतमत्वे इतिकारणवत्त्व इत्यर्थः। तस्य ध्वंसस्य । तश्चेत् भवनं चेत् । अभावे ध्वंसे । अस्ति वर्तते । कथं न भावः ध्वंस: कथं न भावशब्दप्रतिपाद्यः स्यात् , अपि तु स्यादेवेत्यर्थः । प्रतिनियतेन रूपेण स्वग्राहिणि ज्ञाने यत् प्रतिभासते तस्यैव भावत्वं स्वीक्रियते, न च ध्वंसः प्रतिनियतेन रूपेण स्वग्राहिणि ज्ञाने प्रतिभासतेऽतो नास्य भावत्वमित्याशङ्कय