________________
१४०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
नापरमुपलभ्यते, तच्चेदभावेऽस्ति कथं न भाव इति; स्वग्राहिणि ज्ञाने प्रतिनियतेन रूपेणाप्रतिभासनादभाव इत्येतदपि न वक्तव्यम् , अत्यन्तपरोक्षचक्षुरादीनामप्यभावत्वापत्तेः । किञ्च, यद्यभावरूपो विनाशो हेतुमांस्तदा हेतुभेदात्तद्भेदप्रसङ्गः, न चायमनुभूयते, अग्न्यभिघातादिहेतुभेदेऽपि घटनाशभेदाननुभवात् , तस्मादहेतुरयं निःस्वभावस्तुच्छोऽभ्युपगन्तव्यः, अग्निसंयोगादयस्तु काष्ठादिष्वङ्गारादिकमेव जनयन्ति, काष्ठादयः स्वरसत एव निरुध्यन्त इत्यनवद्यम , किञ्च, स्वभावतो भावानां नश्वरत्वेऽपरब्यापारवैफल्यादनश्वरत्वे च तत्स्वभावस्यान्यथाकर्तुमशक्यत्वाद् व्यों नाशहेतुः; अथ स्वहेतुभिर्नियतकालस्थायिस्वभावः पदार्थो जनित इति नोत्पादानन्तरमेव विनष्टुमुत्सहते इति चेत् ? तर्हि तस्मिन् स्वभावे व्यवस्थितः कथमन्तेऽपि विनश्येत् , तथा चान्तेऽन्ते तावत्तावत्कालस्थायिस्वभावानपगमे सदा स्थाष्णुरेव स्यात्, स्वभावापरावृत्तावकिञ्चित्करैर्मुद्रादिभिस्तन्नाशायोगात् ; न च भवतामप्यकिश्चित्करमपि मुद्रादिकमपेक्ष्य कथं प्रवाहो निवर्तत इति वाच्यम् , यतो न विशरारुक्षणव्यावृत्तोऽपरः प्रवाहो विद्यते यो निवर्तमानोऽकिञ्चित्करं मुद्गरादिकमपेक्षत इति प्रतिजानीमहे, किन्तु परस्परविविक्तपूर्वापरक्षणा एव प्रवाहः, ते च स्वरसत एव निरुध्यन्त इति न कचिदकिश्चित्करापेक्षा निवृत्तिः, केवलं मुद्गप्रतिक्षिपति-स्वग्राहिणीति। अत्यतं परोक्षाये चक्षुरादयस्तेऽपि स्वग्राहिणि ज्ञाने न प्रतिनियतेन रूपेण प्रतिभासन्ते इति तेषामप्युक्तनियमबलादभावत्वं प्रसज्यत इति निषेधहेतुमुपदर्शयति- अत्यन्तेति । अपि च यो हि हेतुमान् तस्य हेतुभेदाद् भेदो दृश्यते, यथा रक्तमृत्तिकादिप्रभवाद् घटादितः कृष्णमृत्तिकादिप्रभवस्य घटादेः, एवं च यदि ध्वंसो हेतुमान् स्यात् तदा तस्यापि हेतुभेदाद् भेदो दृश्यते न च दृश्यते तथेति न ध्वंसो हेतुमान् इत्याह-किश्चेति । तद्भेदप्रसङ्गः विनाशभेदप्रसङ्गः। न चेति- हेतुभेदाद् भेदो ध्वंसस्य न चानुभूयत इत्यर्थः । अत्रैव हेतुमुपदर्शयति- अग्न्यभिधातादीतिआदिपदान्मुद्रपातादग्रहणम् , यादृश एव घटनाशोऽग्न्यभिघाततो जायमानो दृश्यते तादृश एव स मुद्रपातादितोऽपि जायमानो दृश्यत इति हेतुभेदेऽपि घटनाशभेदाननुभवान्न हेतुमान् विनाशः । पर्यायवादी विनाशस्य तुच्छरूपत्वाहेतुमत्त्वे उपसंहरति-तस्मादिति । अयं विनाशः। यदि ध्वंसो न हेतुमान् तर्हि तत्कारणत्वेन व्यवहियमाणानामग्निसंयोगादीनां किं प्रति जनकत्वमित्यपेक्षायामाह- अग्निसंयोगादयस्त्विति । ननु यद्यग्निसंयोगादिभ्यो न काष्ठादीनां निवृत्त्यात्मा ध्वंसो जनितस्तदा काष्ठादयः किमिति पूर्ववन्नोपलभ्यन्त इत्यत आह-काष्ठादय इति । स्वरसतः स्वभावतः, काष्ठादीनां स्वभाव एवायं यदुत द्वितीयक्षणनिरुद्धा भवन्ति, सत्तां नानुभवन्तीति यावत् , ततः स्वभावत एव निरुद्धयन्ते काष्टादयो ज तदर्थमतिरिक्तविनाशलक्षणनिवृत्त्यपेक्षेति भावः । अपि च भावा यदि स्वभावत एव नश्वरास्तदा हेतुं विनाऽपि विनयन्तीति तदर्थ हेतुव्यापारणं व्यर्थम् , यदि व स्वभावतोऽनश्वरस्वभावास्ते तर्हि तत्स्वभावपरावर्तनं केनापि कर्तुमशक्यमिति हेतुव्यापारणे तत्स्वभावान्यथाभावासम्भवाद् व्यर्थ एव नाशहेतुरित्याह-किश्चेति । अनश्वरत्वे च स्वभावतो भावानामनश्वरत्वे च । तत्स्वभावस्य भावानामनश्वस्त्वस्वभावस्य । अन्यथा कर्तुं नश्वरस्वभावतां कर्तुम् । ननु स्वकारणसामग्र्या जायमानो भावो नियतकालस्थायिस्वभाव एव जन्यते, स यद्युत्पादानन्तरमेव नश्येत् नियतकालस्थायिस्वभावतेवास्य हीयेत, ततः स्वस्वभावान्यथानुपपत्त्या नियतकालावस्थानानन्तरमेव नश्यतीति न क्षणिकत्वं भावस्येति पराकूतं प्रतिक्षेप्तुमुपन्यस्यति- अथेति । यस्मिन् क्षणेऽसौ भावो नश्यति तदव्यवहितपूर्वक्षणेऽप्यस्य नियतकालस्थायित्वमेव स्वभावः, तथा च यदि तदव्यवहितक्षणेऽसौ नश्येत् न तर्हि स्वभावोऽस्य भवेदिति नाशकालत्वेनाभिमतक्षणेऽपि नासौ नश्येत् , एवं च सति यदा यदाऽस्य नाशः सम्भावनीयस्तत्तदव्यवहितपूर्वक्षणे तत्स्वभावस्य तादवस्थ्यान्न तदा तदाऽस्य नाशो भवेदिति सदातनत्वमेवास्य प्रसज्यत इति समाधत्ते-तहीति । तस्मिन् स्वभावे नियतकालस्थायिस्वभावे । यदा च स्वभावोऽस्य नियतकालस्थायिलक्षणो न केनापि परावर्तयितुं शक्यः, तदाऽकिञ्चिकरैर्मुद्रादिभिस्तन्नाशासम्भवात् सदातनत्वं परिहर्तुमशक्यमित्याह-स्वभावापरावृत्ताविति । तन्नाशायोगात् नियतकालस्थायिस्वभावपदार्थनाशासम्भवात् । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । भवतामपि क्षणक्षयवादि