________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
रादिना रहिता सामग्री अविभक्तं कार्यं सम्पादयति, तत्सन्निधाने तु विभक्तं कार्यान्तरं जनयतीति विशेषः, न तु मुद्गरादयः कारणसामर्थ्य खण्डयतीति । अथायं विकल्पोऽतिप्रसञ्जकत्वादसारः, तथाहिउत्पादेऽप्येवं शक्यत एव वक्तुम्-स्वभावतो ह्युत्पत्तिस्वभावस्य न किञ्चिदुत्पत्तिहेतुमि:, तत्तत्स्वभावतयैव समुत्पादात्, अनुत्पत्तिस्वभावस्य तु व्यर्थी उत्पत्तिहेतवः, तथा चान्यथात्वस्य कर्तुमशक्यत्वात्, मैवम्-अभूत्वाभवनलक्षणायामुत्पत्तौ च भावगर्भायां हेतोरकिश्चित्करत्वस्येष्टापत्तेः, उत्पत्तिस्वभावभावीति मुखीभूते कारणकलापे कार्यकारित्वव्यपदेशहेतौ अकिश्चित्करत्ववचनस्य च व्याहतत्वात्, उत्पत्ति-ध्वंसस्वभावात्मको भात्रः सहेतुक एव, उत्पत्ति-ध्वंसयोः सांवृतयोस्त्वहेतुः, कथं ? केवलं भावनामपि | पर्यायवादी प्रतिक्षेपहेतुमुपदर्शयति- यत इति । ते च परस्परविविक्तपूर्वापरक्षणाश्च । यदि निरुक्तलक्षणप्रवाहः स्वभावत एव निरुद्धयते तर्हि मुद्गरादीनां क उपयोग इत्यपेक्षायामाह - केवलमिति । तत्सन्निधाने तु मुद्गरादिसन्निधाने पुनः । द्रव्यवादी पर्यायवादिनं प्रति प्रतिबन्दीं गृह्णन् शङ्कते - अथेति । अयं विकल्पः 'किञ्च स्वभावतो भावानां नश्वरत्वे' इत्यादिना दर्शितो विकल्पः । अतिप्रसञ्जकत्वात् उत्पादस्य सहेतुकत्वं त्वयाऽप्युपेयते, तत्राप्युक्तविकल्पप्रसरादुत्पादहेतुवैयर्थ्यप्रसङ्ग लक्षणातिप्रसङ्गहेतुत्वात् । उत्पादहेतुवैयर्थ्यप्रसङ्गलक्षणातिप्रसङ्गमेव भावयति - तथाहीति । 'तत्त त्स्वभावतयैव' इत्यस्य स्थाने 'तत्स्वभावतयैव' इति पाठो युक्तः, उत्पत्तिस्वभावतयैवेति तदर्थः । यद्यनुत्पत्तिस्वभावो भावस्तदा कारणसहस्रव्यापारणेन । प्युत्पत्तिस्वभावो न भवितुमर्हतीत्युत्पत्तिदे तूनां वैयर्थ्यमित्याह - अनुत्पत्तिस्वभावस्य त्विति । ' तथा चान्यथात्वस्य ' इति स्थाने ' तथात्वान्यथात्वस्य तत्स्वभावान्यथात्वस्य ' इति वा पाठः समीचीनः पाठद्वयेऽपि अनुत्पत्तिस्वभावान्यथात्वस्येत्येवार्थः । पर्यायवादी समाधत्ते – मैवमिति । 'च भावगर्भायाम्' इत्यस्य स्थाने ' चाभावगर्भायाम्' इति पाठो युक्तः, य उत्पद्यते स उत्पत्तिस्वभाव एव तत्रोत्पत्तिरभूत्वा भवनलक्षणाऽभावगर्भा यतोऽभवनमभाव एव तत्र सन्निविष्टः, तस्यां च हेतोरकिञ्चित्करत्वस्येष्टापत्तेः, तत्र हेतोरकिञ्चित्करत्वेन तदापादनस्येष्टत्वादित्यर्थः । तत्र हेतुमाह- उत्पत्तीति- अत्र “ उत्पत्तिस्वभावभावीति मुखीभूते ' इत्यस्य स्थाने 'उत्पत्तिस्वभावभावित्वात् तस्याः, तदुन्मुखीभूते " इति पाठः सङ्गतिमङ्गति, तदर्थस्तु तस्याः अभूत्वाभवनलक्षणाया उत्पत्तेः, भावस्य य उत्पत्तिस्वभावस्तद्भावित्वात् एवमपि उत्पत्तिहेतावुत्पत्तिस्वभाव भावोन्मुखीभूते कारणकलापे, कार्यकारित्वव्यपदेशहेतौ उत्पत्तिस्वभावभावोन्मुखे कारणकलापे सति अयं कारणकलापः कार्यकारीति व्यपदेशो भवति निरुक्तकारणकलापाभावे कार्यकारीति व्यपदेशो न भवतीत्यन्वयव्यतिरेकाभ्यां कार्यकारित्वव्यपदेशात्मककार्यकारिणि निरुक्तकारणकलापे, अकिञ्चित्करत्ववचनस्य स्वभावतो ह्युत्पत्तिस्वभावस्य न किञ्चिदुत्पत्तिहेतुभिः' इति वचनस्य, व्याहतत्वात् अर्थकारिण्यर्थ कारित्वाभाववचनस्य वन्ध्या पुत्रवतीतिवचनवद् व्याहतत्वादित्यर्थः । पर्यायवादी स्त्रविचार निश्यूतमर्थमुपदर्शयति- उत्पत्तीति- 'भावः' इत्युक्त्या तत्र हेतु पारसा फल्यमावेदितम् अभावे तु तुच्छरूपे शशशृङ्गादाविव हेतुव्यापारस्य वैफल्यम्, नहि हेतुसहस्रव्यापारेऽप्यभावो भावो भवितुमर्हतीति भवनप्रयोजकस्य हेतोस्तत्र वैफल्यमेवेत्याशयः । ननु ध्वंसस्वभावस्य भावस्य सहेतुकत्वाभ्युपगमे निर्हेतुको ध्वंस इति वचनमसङ्गतं भवत: प्रसज्यत इत्यत आहउत्पत्तिध्वंसयोरिति । "सांवृतयोस्त्वहेतुः, कथम्?" इत्यस्य स्थाने " सांवृतयोस्त्व हेतुत्वकथनम् ” इति पाठः समीचीनः, भावस्वरूपा योत्पत्तिः भावस्वरूपो यो ध्वंसस्तयोः सहेतुकत्वमेव, किन्तु सांवृतयो:- कल्पित योस्तूत्पत्तिध्वंसयोरहेतुत्वकथनमित्यर्थः । ननु यदि सांवृतयोरुत्पत्तिविनाशयोर्द्वयोरप्य हेतुत्वकथनं तर्हि किमित्युत्पत्तेः सहेतुकत्वव्यवहारो नाशस्य चाहेतुकत्वव्यवहारः, अहेतुकत्वाविशेषे सांवृतमोर्द्वयोरप्यहेतुकत्वव्यवहार एव समुचितः, भावात्मकयोश्च तयोः सहेतुकत्वाविशेषे सहेतुकत्वव्यवहार एव वा समुचित इत्यत आह- केवलमिति - किन्त्वित्यर्थः । भावेति- अभूत्वाभवनलक्षणा योत्पत्तिस्तस्यामभूत्वेत्यनेनाभावांशो यः सन्निविष्टस्त स्मिंस्तुच्छरूपे कारकव्यापारो न सफल इत्यभावांशमुपादाय तत्र हेतोरकिञ्चित्करत्वेनाहेतुकत्वम्, यश्च तत्र भवनांशो भावरूपस्तत्र सन्निविष्टस्तत्र हेतुव्यापारः सफल एवैति तदंशमुपादायोत्पत्तेः सहेतुकत्वमपि सम्भवतीति तदंशमुख्यतया तदुत्पत्तित्वं तेन सहेतुकत्वव्यवहार उत्पत्तौ घटते, नाशस्य तु न लक्षणस्वरूपसन्निविष्टो भावांशः किन्तु निवृत्तिस्वरूप तुच्छत्वमेव ध्वंसत्वं तेनाभावस्य मुख्यतया तत्र हेतुव्यापारः कथञ्चिदपि न
१४१