________________
१४२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
मुख्यतयोत्पत्तित्वेन सहेतुकत्वव्यवहारः, नाशत्वेन चाभावमुख्यतयाऽहेतुकत्वव्यवहारः, उत्पत्तिव्यव. हार विकल्पसमनन्तरप्रत्यक्षं चाद्यान्तक्षण योरेव, परेषां प्रागभाव-ध्वंसप्रत्यक्षयोः प्रतियोगिव्याप्यसन्निकर्षाणां हेतुत्वकल्पनापेक्षया अस्माकमुत्पत्ति-धंसनिश्चये विलक्षणहेतुताकल्पन एव लाघवात् , अत एव भ्रान्तिकारणविगमादन्ते प्रत्यक्षनिबन्धनः क्षणक्षयनिश्चय उत्पद्यत इति सौगत इति दिक् ।
इदं च शुद्धपर्यायास्तिकनयमतम् , तदवान्तरभेदास्तु यावदपश्चिमविकल्पनिर्वचनं द्रव्यार्थिकावान्तरभेदवत् न्यायसिद्धा नानाविधा अभ्युपगन्तव्याः। अथैवं पश्चिमविकल्पनिर्वचनतया माध्यमिकदर्शनप्रवर्तक एवम्भूत एव शुद्धपर्यायार्थिकः स्यात्, इध्यते चर्जुसूत्रोऽपि शुद्धपर्यायार्थिक इति कथमियं व्यवस्थेति चेत् ? क्षणिकविषयताव्यापकपर्यायविषयताशाली शुद्धपर्यायार्थिक इति परिभाषाश्रयणादिति साफल्यमञ्चतीति तद्रपेणाहेतुक एव धस इति तत्राहतुकत्वव्यवहारो घटत इति विवेकः । ननु क्षणक्षयमते विशरारुक्षणप्रवाहलक्षणसन्ततिरूपे द्रव्येऽभ्युपगम्यमाने प्रतिक्षणमुत्तरपर्यायस्योत्पत्तिः पूर्वपर्यायस्य च विनाश इति किमित्युत्पत्तिविनाशव्यवहार-विकल्पौ प्रतिक्षणं न भवतः, व्यवहर्तव्यस्य विकल्प्यस्य च प्रतिक्षणमेव भावेन तादृशव्यवहारविकल्पानुगुणाविकल्पात्मकसमनन्तरप्रत्यक्षस्यापि प्रतिक्षणं सम्भवात् , सन्ततेराद्यक्षण एवोत्पत्तिव्यवहार विकल्पो सन्ततेरन्त्यक्षण एव च नाशविकल्प व्यवहारावित्यपि कथमित्यत आह-उत्पत्तीति अत्र 'उत्पत्तिव्यवहार-विकल्पसमनन्तरप्रत्यक्षं चाद्यान्तक्षणयोरेव' इत्यस्य स्थाने — उत्पत्ति-विनाशव्यवहार-विकल्पहेतुसमनन्तरप्रत्यक्षं चाद्यान्त्यक्षणयोरेव' इति पाठो युक्तः, तदर्थश्च-उत्पत्ति-विनाशयो? व्यवहार-विकल्पौ तयोर्हेतुर्यत् समनन्तरप्रत्यक्षं तच्चाद्यान्त्यक्षणयोरेव सन्ततेराद्यान्त्यक्षणयोरेव, सन्ततेराद्यक्षणे उत्पत्तिव्यवहार-विकल्पहेतुसमनन्तरप्रत्यक्षं भवति, ततः सन्ततेराद्यक्षणाव्यवहितोत्तरक्षणे उत्पत्तिव्यवहारविकल्पौ भवतः, सन्ततेरन्त्यक्षणे विनाशव्यवहार-विकल्पहेतुसमनन्तरप्रत्यक्षं भवति, ततः सन्ततेरन्त्यक्षणाव्यवहितोत्तरक्षणे नाशव्यवहार-विकल्यौ भवत इति । ननूत्पत्तिनिश्चयं प्रति सन्तत्याद्यक्षणभाविसमनन्तरप्रत्यक्षस्य कारणत्वम् , विनाशनिश्चयं प्रति सन्तत्यन्त्यक्षणोपजातसमनन्तरप्रत्यक्षस्य च कारणत्वमित्येवं कार्यकारणभावकल्पने पर्यायवादिनो गौरवं स्यादित्यत आह-परेषामिति-स्थिरवादिनां नैयायिकादीनामित्यर्थः । 'प्रतियोगिव्याप्यसन्निकर्षाणाम् इत्यस्य स्थाने 'प्रतियोगि. तद्व्याप्येतरयावत्प्रतियोग्युपलम्भकसन्निकर्षादीनाम्' इति पाठः समीचीनः, अत्र प्रतियोग्युपलम्भकयत्किञ्चित्सन्निकर्षादिसत्त्वे प्रागभावादिप्रत्यक्षं न भवतीत्यतो यावदिति, प्रतियोगिनो घटादेः प्रत्यक्षे विषयविधया प्रतियोग्यपि कारणमिति यावत्प्रतियोग्युपलम्भक सन्निकर्षादिमध्ये प्रतियोगिनोऽपि प्रवेशः स्यात्, न च प्रतियोगी स्वप्रागभावध्वंसप्रत्यक्षे कारणमिति प्रतियोगीतरत्वं यावत्प्रतियोग्युपलम्भके विशेषणम् , एवमपि प्रतियोगिप्रत्यक्ष प्रतियोगिना सहेन्द्रियसन्निकर्षा-ऽऽलोकसंयोग-महत्त्वोद्भूतरूपादिसम्बन्धानामपि कारणत्वेन प्रतियोगतरयावत्प्रतियोग्युपलम्भकमध्ये तेषामपि प्रवेशः, न च ते प्रागभाव ध्वंसप्रत्यक्ष कारणमतः प्रतियोगिन्याप्येतरत्वं यावत्प्रतियोग्युपलम्भके विशेषणम् , प्रतियोगिना सहेन्द्रिय सन्निकर्षादयश्च प्रतियोगिव्याप्या एवेति तेषां वारणमिति बोध्यम् । अस्माकम् क्षणक्षयवादिनाम् । उत्पत्ति,सनिश्चये उत्पत्तिनिश्चये ध्वंसनिश्चये च । विलक्षणेति- सन्तत्याद्यक्षणोत्पन्नसमनन्तरप्रत्यक्षस्योत्पत्तिनिश्चयं प्रति हेतुनाकल्पने सन्तत्यन्त्यक्षणोत्पन्नसमनन्तरप्रत्यक्षस्य ध्वंसनिश्चयं प्रति हेतुताकल्पने च लाघवादित्यर्थः । अत एव सन्तत्यन्त्यक्षणोत्पन्नसमनन्तरप्रत्यक्षस्य ध्वंसनिश्चयं प्रति हेतुत्वादेव । भ्रान्तिकारणविगमात् अभेदभ्रमकारणस्य स्वानन्तरसुमदृशोत्पादस्य विगमात् । अन्ते सन्ततेरन्त्यक्षण । प्रत्यक्षनिबन्धनः क्षणिकस्वलक्षणप्रत्यक्षात्मकसमनन्तरप्रत्यक्षनिबन्धनः । इति सौगतः एवं बौद्धः, अभ्युपगच्छतीति शेषः।
इदं च अनन्तरोपवर्णिसं च, एतावता शुद्धपर्यायास्ति कनयसामान्यमतमुपदर्शितम् , अन्तिमविकल्पनिर्वचनपर्यन्तं तु नानाप्रकारा युक्तिसिद्धाः शुद्धपर्यायास्तिकनयावान्तरभेदाः स्वीकर्तव्या यथा द्रव्यार्थिकनयान्तरभेदा अपश्चिमविकल्पनिर्वचनं यावत् स्वीकृता भवन्तीत्याह- तदवान्तरभेदास्त्विति- शुद्धपर्यायास्तिकनयावान्तरभेदाः पुनः, अस्य न्यायसिद्धा नानाविधा अभ्युपगन्तव्याः' इत्यनेनान्वयः। तटस्थः शङ्कते-अथैवमिति । एवं पश्चिमविकल्पमन्त्यविशेषं विहायान्यविशेषेवपि द्रव्यार्थिकनयप्रवृत्त्युपगमे, तथा चान्त्यविशेषातिरिक्तविशेषः स्वविशेषापेक्षया सामान्यमिति द्रव्यनयविषयः स्वसामान्यापेक्षया