________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
-
चित्रप्रत्यक्षानुपपत्तेश्चित्रावयवारब्धचित्रप्रहेऽवयवविषयकनीलेतररूपत्वादिव्याप्यचित्रत्वावच्छिन्नप्रकारकग्रहस्यैव हेतुत्वात् , यदि च नीलेतररूप-पीतेतररूपादिमदवयवावच्छेदेनेन्द्रियसन्निकर्षस्यावयवनीलादिगतनीलत्वादिग्रहप्रतिबन्धकदोषाभावानां च चित्रप्रत्यक्षे हेतुत्वम् , अतस्त्रसरेणुचित्रस्यापि चक्षुषा ग्रह इत्युद्भाव्यते, तदा अनन्तहेतु हेतुमद्भावकल्पनागौरवाच्चित्रत्वं व्यासज्जवृत्त्येव, तत्र च समानाधिकरण. नानारूपग्रहव्यङ्गयत्वमित्येव कल्प्यमानं शोभते, नह्येवं गौरवम्, चित्रत्वग्रहे सामानाधिकरण्येन रूपविशिष्टरूपग्रहत्वेनैव हेतुत्वात् , उक्तहेत्वभावे चित्रत्वविनिर्मुक्तचित्रप्रत्यक्षस्य चोभयोस्तुल्यत्वात् , यदि च नानावयवावच्छिन्नपर्यायवृत्तिरेकं चित्रमप्यनुभूयते, अत एवैकावयवावच्छेदेन चित्राभावप्रतीतेरप्युपपत्तिरिति स्वीक्रियते, तदैकानेकचित्रद्रव्यस्वभावाभ्युपगम विना न काप्युपपत्तिः, देश-स्कन्धनियत. धर्माणां तद्वाहकसामग्रीग्राह्यत्वेनैवोक्तोपपत्तेर्देश-स्कन्धपरिमाणविशेषग्रहेऽपीयमेव गतिरिति दिक् ।
किञ्च, नीलेतररूपादिषट्कस्यैव चित्ररूपे हेतुत्वमित्येतावतैव नोपपत्तिः, अवयवगतोत्कृष्टा-ऽपकृष्ट. नीलाभ्यामपि चित्रसम्भवात् , ते चोत्कर्षा विचार्यमाणा अनन्ता एव, तदाहुः श्रीसिद्धसेनाःहेतुत्वमित्याह-ज्यणुकचित्ररूपाग्रह इति । 'अवयवविषयक' इति स्थाने 'अवयवविशेष्यक' इति पाठो युक्तः, अत्र च समानविशेष्यतया कार्यकारणभावो न सम्भवति, कार्य कारणयोर्विभिन्नविशेष्यकत्वात् , किन्तु समवायलक्षणसामानाधिकरणप्रत्यासत्त्यैव कार्यकारणभाव इति बोध्यम् । ननु नीलेतररूप-पीतेतररूपादिमदवयवावच्छेदेनेन्द्रियसन्निकर्षस्य चित्रप्रत्यक्षे हेतुत्वम्, तत्रावयवनीलादिगतनीलत्वादिग्रहप्रतिबन्धकदोषाभावानां च चित्रप्रत्यक्षे हेतुत्वम् , अतस्त्रसरेणुचित्रस्यापि प्रत्यक्षं सम्भवति, यतो नीलेतररूप-पीतेतररूपादिमद् यद् द्वयणुकं तद्रूपत्रसरेण्ववयवावच्छेदेनेन्द्रियसन्निकर्षोऽपि विद्यते, द्वयणुक लक्षणावयवनीलस्याऽयोग्यत्वादेव प्रत्यक्षाभावे तद्तनीलत्वस्यापि तत एव ग्रहणं न भवतीति न तत्प्रतिबन्धकदोषकल्पनेति तादृशदोषाभावोऽपि विद्यत इति तद्रूपकारणसद्भावादित्यत आह- यदि चेति । एवं सत्यनन्तहेतुहेतुमद्भावकल्पनागौरवं स्यादित्याह- तदेति । तर्हि किमम्युपेयमित्यपेक्षायामाह-चित्रत्वमिति । 'व्यासज्जवृत्त्येव' इति स्थाने 'व्यासज्यवृत्त्येव' इति पाठो युक्तः, तस्य चावयविगतनील-पीतादिचित्रपर्याप्तवृत्त्येवेत्यर्थः । तत्र च निरूक्तचित्रत्वे च । समानाधिकरणनानारूपग्रहव्यङ्गयत्वम् एकाधिकरणवृत्तिनानारूपग्रहजन्यप्रत्यक्षविषयत्वम् । इत्थं कल्पने गौरवं स्यादित्याशङ्कय प्रतिक्षिपति- नोवं गौरवमिति। उक्तहत्वभावे सामानाधिकरण्यसम्बन्धेन रूपविशिष्टरूपग्रहरूपकारणाभावे। चित्रत्वेन चित्ररूपग्रह एव तस्य कारणत्वमुपेयते, न तु चित्रप्रत्यक्षमात्र इति निरुक्तकारणाभावे चित्रत्वेन चित्रप्रत्यक्ष मा नाम जायताम् , चित्रप्रत्यक्ष तु स्यादेवेत्याह-चित्रत्वविनिर्मक्तति-चित्रत्वाविषयकेत्यर्थः। उभयो तव मम च । ननु चित्रावयविनि प्रत्येकावयवावच्छेदेन नीलादिकमपि विद्यते, नानावयवावच्छेदेनैकं चित्रमपि विद्यत इत्यभ्युपगमस्तत्राह-यदि चेति । नानावयवावच्छिन्नपर्यायवृत्तिः नानावयवावच्छिन्नावयव्यात्मकपर्यायवृत्तिः। अत एव नानावयवावच्छिन्नपर्यायवृत्त्येकचित्राभ्युपगमादेव । तथा सत्यनायासेन स्याद्वाद आपतितः, तमन्तरेणेत्थमभ्युपगमाऽसम्भवादित्याह- तदेति - एकस्वभावत्वेन चित्ररूपमपि तत्र विद्यते, नानास्वभावत्वेन नानारूपाण्यपि तत्र विद्यन्त इति स्याद्वादः सिद्ध इत्याशयः । एकैकावयवावच्छेदन चक्षुस्सन्निकर्ष एकैकावयवावच्छिन्नवृत्तिकशुक्लादिग्राहकः, नानावयवावच्छेदेन चक्षुस्सन्निकर्षो नानावयवावच्छिन्नवृत्तिकचित्ररूपग्राहक इत्येवं विभिन्नसामग्रीग्राह्यत्वेनोक्तोपपत्तिः सम्भवतीत्याह-देशेतिशुक्लादिर्देशनियो धर्मः, चित्रं तु स्कन्धनियतो धर्म इति बोध्यम् । तद्वाहकेति-देशस्कन्धग्राहकेत्यर्थः । यथा च चित्रपटादौ नानारूपैकरूपग्रहयोरुतदिशोपपत्तिस्तथैका-ऽनेकपरिमाणविशेषग्रहाणामप्युक्तदिशैवोपपत्तिरित्याह-देश-स्कन्धपरिमाणविशेषग्रहेऽपीति । यथा च नील-पीताभ्यां नील-रक्ताभ्यामित्येवं रूपद्वयवद्भयां तथा विजातीयरूपत्र येविजातीयरूपचतुष्टयादिभिरवयवैरारब्धेष्ववयविषु चित्ररूपोत्पत्तिः, तथेकजातीयरूपवद्भयां नील-नीलतरावयवाभ्यामेवं पीत-पीततरावयवाभ्यां नील-नीलतर-नीलतमावयवैः पीत-पीततर-पीततमावयवैरारब्धेष्ववयविषु विलक्षणविलक्षणचित्रोत्पत्तिरनुभूयत इति तेषामपि नित्रं प्रति कारणत्वमभ्युपगन्तव्यमेवेत्याह-किश्चेति। ते चोत्कर्षाः अवयवनीलादिगता उत्कर्षाः।