________________
७४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः।
" पच्चुप्पणम्मि वि पज्जयम्मि भयणागई पडइ दव्वं, जं एगगुणाईआ अणंतकप्पा गुणविसेसा ॥”
-[सम्मतितर्ककाण्ड० ३, गाथा ६ ] व्याख्या–प्रत्युत्पन्ने(ऽपि)-- वर्तमानेऽपि पर्याये, भजनागति-भेदाऽभेदप्रकारम् , पतति-आसादयति द्रव्यम् , यत्-यस्मादेकगुणकृष्णत्वादयोऽनन्तप्रकारास्तत्र गुणविशेषाः, कल्पशन्दः प्रकारवाची, तेषां च मध्ये केनचिदेव गुणविशेषेण युक्तं तदिति ।। ___कृष्णं हि द्रव्यं द्रव्यान्तरेण तुल्यमधिकमून वा भवेत् प्रकासन्तराभावात्, आये सर्वतुल्यत्वे तदेकतापत्तिः, उत्तरयोः सङ्ख्येयादिभागगुणवृद्धिहानिभ्यां षट्स्थानकप्रतिपत्तिरवश्यम्भाविनी, तथा च प्रतिनियतहानि-वृद्धियुक्तकृष्णादिपर्यायेण सत्त्वं नान्येनेति, इत्थं च नीलत्वाद्यवान्तरजातीनामनन्तत्वात् तरतमशब्दमात्रेण तदनुगमस्य कर्तुमशक्यत्वात् , तत् तदवान्तरजातीयनील-पीतादीनामनन्तानां चित्रहेतुत्वकल्पने गौरवमिति षट्रस्थानपतितवर्णपर्यायेण चित्रद्रव्यमेव स्वसामग्रीप्रभवमभ्युपगन्तव्यम्, अर्थसमाजसिद्धधर्मस्यापि तथाभवत्वकार्यतावच्छेदकत्वस्वीकारात्, एतेन चित्रप्रत्यक्षजनकतावच्छेदकमपि चक्षुःसंयोगनिष्ठं वैजात्यं स्वीकर्तव्यमित्यपि निरस्तम् , सूक्ष्मेक्षिकयाऽनन्तावान्तरचित्रानुभवादनन्तवैजात्य. कल्पनापत्तरत्यन्ताप्रामाणिकत्वादिति द्रष्टव्यम् । __तेषामुत्कर्षाणामानन्त्ये श्रीसिद्धसेनदिवाकराणां वादिप्रवराणां सम्मतिमुपदर्शयति- तदाहुरिति । ‘पचुपणम्मि०' इति- " प्रत्युत्पन्नेऽपि पर्याये भजनागतिं पतति द्रव्यम् । यदेकगुणादिका अनन्तकल्पा गुणविशेषाः"॥ इति संस्कृतम् । विवृणोति-प्रत्युपन्नेऽपीति । तत्र वर्तमानपर्याये। तेषां च अनन्तप्रकाराणां गुणविशेषाणाम् । तद् द्रव्यम् । एतावताऽक्षरार्थो भावितः । अभिप्रेतार्थमुपदर्शयति-कृष्णं हीति । प्रकारान्तराभावात् तुल्याधिकोनप्रकारत्रयातिरिक्तप्रकाराभावात् । आधे कृष्णं द्रव्यं द्रव्यान्तरेण तुल्यमिति पक्षे । 'सर्वतुल्यत्वे' इति स्थाने 'सर्वथा तुल्यत्वे' इति पाठो युक्तः । सर्वथा तुल्यत्वं तयोस्तदैव स्याद् यद्यसाधारणमप्येकस्य रूपस्यापरस्य स्यादिति तदेकत्वापत्तिः तयोर्द्रव्ययोरैक्यं स्यादित्यर्थः। उत्तरयोः कृष्णं द्रव्यं द्रव्यान्तरेणाधिक कृष्णमिति द्रव्यान्तरेणोनकृष्णमिति द्वितीय-तृतीयपक्षयोः। 'सवयेयादि' इति- आदिपदादसङ्खयेया-ऽनन्तयोः परिग्रहः । षट्स्थानकप्रतिपत्तिरिति-सङ्खयेयभाग-गुणवृद्धिः १ असङ्खयेयभागगुणवृद्धिः २ अनन्तभागगुणवृद्धिः ३ सङ्ख्ययभागगुणहानि: ४ असङ्खयेयभागगुणहानिः ५ अनन्तभागगुणहानिः ६ इत्येवं षट्स्थानकप्रतिपत्तिरित्यर्थः। तथा च षट्स्थानक प्रतिपत्तरवश्यम्भावित्व च। इत्थं च प्रतिनियतहानिवृद्धियुक्तकृष्णादिपर्यायेण सत्त्वं नान्येनेति व्यवस्थितौ च । नीलत्वाद्यवान्तरजातीनां नीलत्वादिव्याप्यैकगुणकृष्णत्वादिजातीनाम् । यदि तासां सर्वासां जातीनां केनचिद्रूपेणानुगमः स्यात् तदा तद्रूपेण चित्रं प्रति हेतुत्वकल्पने गौरवं न भवेत् , न चैवमित्याह-तरतमशब्दमात्रणेति- अर्थस्यैकस्याभावे शब्दानुगमोऽकिञ्चित्कर इत्याशयः। तदनुगमस्य नीलत्वाद्यवान्तरजातीनामनुगमस्य । अनुगमनाभावे गौरवं स्यादेवेत्याह-तत्तवान्तरेति । तर्हि किमभ्युपेयमित्यक्षायामाह-षट्रस्थाने तिषटस्थानपतिता ये एकगुणकृष्णत्वादिविशिष्टा दस्तदन्यतमपर्यायेण चित्रद्रव्यमेव स्वसामग्रीप्रभवमभ्युपेयम् , स्वसामग्रीत उत्पद्यमानं द्रव्यं तथाभूतमेवोत्पद्यते, गुणानां सहभाविपर्यायत्वेन गुणसहितमेव द्रव्यमुत्पद्यते, न तु पूर्व द्रव्यं ततोऽवयव. गुणविशेषतस्तत्र गुणविशेषोत्पत्तिरिति । यद्यपि वर्णविशेषोत्पादक.सामग्रीतो वर्णविशेषः, द्रव्यविशेषोत्पादकसामग्रीतो द्रव्यविशेष इति तदुभयसम्मिलनेन तथाभूतद्रव्यविशेषसम्भव इत्यनेकसामग्रीसमाजप्रयोज्यत्वलक्षणार्थसमाजसिद्धत्ववदेव तथाभूतद्रव्यत्वं तथापि तस्यापि तथाभवत्वस्वाभाव्यस्य कार्यतावच्छेदकत्वमुपगम्यत इति तथाभूतस्वभावबलादेव तथाभूतद्रव्योत्पत्तिरित्याह-तथाभवत्वेति । एतेनेति- अस्य निरस्तम् ' इत्यनेनान्वयः, एतेन-षटस्थानपतितवर्णपर्यायेण चित्रद्रव्यस्य स्वसामग्रीप्रभवत्वस्वीकारेण । चित्रप्रत्यक्षमपि नैकविधचित्रत्वप्रकारकमेव, किन्तु विलक्षणविलक्षणचित्रत्वप्रकारकमिति तदनुरोधेन तत्कारणीभूतेषु चक्षुस्सयोगेष्वपि बहूनि वैजात्यानि तत्तचित्रत्वप्रकारक प्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छदकतयाऽभ्युपेयानि, निरुक्तदिशैवोपपत्तौ च न तथाभूतानन्तवैजात्यकल्पना प्रामाणिकी येन प्रामाणिकत्वात् तद्गौरवं दोषानावहं स्यादिति निरासहेतुमुपदर्शयति-सूक्ष्मेक्षिकयेति-सूक्ष्म विचारेणेत्यर्थः । एतावता चित्ररूपवादिप्राचीननैयायिकमतमपाकृतम् ।