SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । अव्याप्यवृत्तिरूपपक्षेऽप्यवयवगतोत्कृष्टाऽपकृष्टनीलाभ्यामवयविनि तयोरवच्छिन्नयोः सामान्यसामग्रीवशात् अर्थात् अनवच्छिन्नस्य नीलस्योत्पत्तिप्रसङ्गः, अवयविनीलतरत्वाद्यवच्छिन्न एवावयवनीलतरत्वादिना हेतुत्वे नीलस्वावच्छिन्नस्याकस्मिकत्वप्रसङ्गः, किमाकस्मिकत्वमिति चेत् ? तद्धविच्छिन्नाथितया प्रवृत्तिविरहः, एतत्कारणसत्त्वे नीलत्वावच्छिन्नस्यावश्यमुत्पत्तिरित्यनिश्चयश्च, प्रतीयते च तत्र नीलसामान्यमवच्छिन्नम् , अवच्छिन्नाश्च तद्विशेषाः, केवलशुक्लेऽपि च स्वल्प-बह्ववयवावच्छेदेनेन्द्रिय. सन्निकर्षेऽणु-महत्त्वोपेतशुक्लविशेषास्तदनुशक्तं शुक्लसामान्यं च, इत्येकाऽनेकवर्णविशिष्टद्रव्यपरिणामाभ्युप. गमं विना न कथमपि निस्तारः। एतेन · अव्याप्यवृत्तिनीलादिकल्पे न ग्राहकान्तरकल्पनम् , अव्याप्य अथाव्याप्यवृत्तिनानारूपवादिनवीननैयायिकमतखण्डनमधिकरोति-अव्याप्यवृत्तिरूपपक्षऽपीति । तयोः उत्कृष्टाऽपकृष्टनीलयोः। अवच्छिन्नयोः उत्कृष्टनीलावयवावच्छिन्नाऽपकृष्टनीलावयवावच्छिन्नयोः, अस्य 'उत्पत्तिप्रसङ्गः' इत्यनेनान्वयः। अर्थात् अर्थबलसिद्धात् । तद्धर्मावच्छिन्नोत्पत्तौ तद्व्यापककार्यतावच्छेदकीभूताशेषधर्मावच्छिन्नोत्पादकसामग्री तव्याप्ययत्कञ्चिद्धर्मावच्छिन्नोत्पादकसामग्री चापेक्षितेत्ययं नियमो यस्य धर्मस्य व्याप्यीभूतधर्मो व्यापकीभूतधर्मश्च कार्यतावच्छदेकः समस्ति तत्र, यस्य धर्मस्य तु व्यापकीभूतधर्मः कार्यतावच्छेदको नास्ति तत्र तद्धर्मावच्छिन्नोत्पत्तौ तद्धर्मव्याप्यकिञ्चिद्धर्मावच्छिन्नोत्पादकसामग्री अपेक्षितेति नियमः, यस्य तु न किञ्चिन्याप्यधर्मः वार्यतावच्छेदकः समस्ति तद्धर्मावच्छिन्नोत्पत्तौ तद्व्यापकीभूताशेषधर्मावच्छिन्नोत्पादकसामग्री अपेक्षितेति नियमः, स्वावच्छिन्नोत्पादकसामग्री तु सर्वत्रापेक्षितैवेति, तथा चोत्कृष्टनीलत्वस्याऽपकृष्टनीलत्वस्य च व्यापकीभूतधर्मो नीलत्वं यत्किञ्चित्कारणतावच्छेदकं समस्तीति तत्तदवच्छिन्नोत्पत्तिस्थले नीलत्वावच्छिन्नोत्पादकसामथ्या अवश्यम्भावात् ततोऽनवच्छिन्नस्य नीलस्योत्पत्तिप्रसङ्गोऽपि तत्र भवेदित्यर्थः । नीलस्योत्पत्तिप्रसङ्गः' इत्यस्य स्थाने 'नीलस्य चोत्पत्तिप्रसङ्गः' इति पाठो युक्तः। यदि च नीलत्वावच्छिन्नं प्रति नीलत्वावच्छिन्नं कारणमिति सामान्यकार्यकारणभावो नाभ्युपेयत एव, किन्त्ववयविनीलतरत्वावच्छिन्नं प्रति अवयवनीलतरत्वावच्छिन्नं कारणमित्येवाभ्युपेयते तदा नीलत्वस्य किश्चित्कारणनिरूपितकार्यतावच्छेदकत्वाभावात् तदवच्छिन्नस्याकस्मिकत्वं प्रसज्यतेत्याह-अवयविनीलतरत्वाद्यवच्छिन्न एवेति- एक्कारेण अवयविनीलतरत्वावच्छिन्ने अवयवनीलत्वेन कारणत्वस्य व्यवच्छेदः । नीलत्वाद्यवच्छिन्नस्याकस्मिकत्वं यदापद्यते तत् किमिति पृच्छति-किमिति । नीलत्वावच्छिन्नस्य यदा किञ्चित्कारणनियम्यत्वं न स्यात् तर्हि तं प्रति कस्यचित् कारणत्वस्याभावात् तं प्रति कारणत्वस्य किञ्चिद्धर्मिणि अग्रहात् तदर्थं तदुद्देश्यकतदुपादान विशेष्यकप्रवृत्तिर्न स्यात् , एवं यदेव किञ्चित्कारणजन्यं तत्रैव कृतिसाध्यत्वज्ञानात् तच्चिकोर्षया प्रवृत्तिर्भवति, नीलत्वावच्छिन्नं च न किञ्चित्कारणजन्यमिति नीलत्वावच्छिन्नविशेष्यककृतिसाध्यत्वप्रकारकज्ञानाभावात् तच्चिकीर्षाया अभावे तद्गोचरा प्रवृत्तिर्न स्यादिति नीलत्वावच्छिन्नार्थितया प्रवृत्तिविरह एव नीलत्वावच्छिन्नस्याकस्मिकत्वमित्युत्तरयति-तद्धर्मावच्छिन्नार्थितयेति । एवं नीलत्वावच्छिन्नं प्रति यदि कस्यचित् कारणत्वं भवेत् तदा तत्कारणसत्त्वेऽवश्यं नीलत्वावच्छिन्नमुत्पद्यत इति निश्चयः स्यात्, नीलत्वावच्छिन्न प्रति कस्यचित् कारणत्वाभावे तूक्तनिश्चयाभावः स्यात् , स एव चाकस्मिकत्वमित्याह-'एतत्कारणसत्त्व इति । ननु नीलत्वावच्छिन्नं प्रति कस्यचित् कारणत्वाभावान्नीलत्वावच्छिन्नं तत्रोत्पद्यत एव, किन्तु नीलतरत्वाद्यवच्छिन्नमव्याप्यवृत्त्येव तत्रोत्पद्यत इत्यत आह-प्रतीयते चेति । तत्र नीलतरादिरूपवत्यवयविनि । 'नीलसामान्यमवच्छिन्नम्' इति स्थाने 'नीलसामान्यमनवच्छिन्नम् ' इति पाठो युक्तः । तद्विशेषाः नीलविशेषाः, तथा चानवच्छिन्ननीलसामान्य-नीलतरनीलतमादिलक्षणनीलविशेषप्रतीत्यन्यथानुपपत्त्याऽनवच्छिन्ननीलसामान्यावच्छिन्ननीलविशेषाणामेकत्रं द्रव्ये स्वीकार आवश्यक इत्यर्थः। यत्र च द्रव्ये केवलशक्लमेव रूपम्, तत्रापि स्वल्पावयवावच्छेदेनेन्द्रियसन्निकर्षेऽणुशुक्लरूपं प्रतीयते बह्ववयवावच्छेदेनेन्द्रियसन्निकर्षे महच्छुक्लरूपं तदुभयानुस्यूतं शुक्लसामान्यं च प्रतीयत इति तादृशप्रतीत्यन्यथानुपपत्त्याऽनवच्छिन्नशुक्लसामान्यावच्छिन्नशुक्लविशेषाणामप्येकत्र द्रव्ये स्वीकार आवश्यकः, एवं केवलपीतादिस्थलेऽपीत्याह-केवलशक्लेऽपि चेति। तदनुशकम् ' इति स्थाने 'तदनुषक्तम् ' इति पाठो युक्तः, तस्य तदनुस्यूतमित्यर्थः । 'शुक्लसामान्यं च' इत्यनन्तरं 'प्रतीयते' इत्यनुषज्यते । उपसंहरति-इतीति-एतस्मात् कारणादित्यर्थः, एकाऽनेकवर्णविशिष्टद्रव्यपरिणामो यदि स्वसामग्रीप्रभव उपेयते तदैवैकस्यापि द्रव्यस्य तत्तद्वर्णविशिष्टत्वेन प्रत्यक्षं तत्तत् प्रत्यक्षसामग्रीबलादुपपद्यते नान्यथेत्यतस्तथाऽभ्युपगम एव ज्यायानित्याशयः । एतेन ' इत्यस्य 'निरस्तम् ' इत्यनेनान्वयः। एतेन अनेकवर्णविशिष्ट
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy