SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । वृत्तिद्रव्यसमवेतप्रत्यक्षत्वावच्छिन्नं प्रति चक्षुःसंयोगकावच्छेदकावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतासन्निकर्षेण संयोगादिप्रत्यक्षस्थले क्लप्तेनैवानतिप्रसङ्गात् , नील-पीतोभयकपालारब्धघटीयनीले च नीलकपालिकैव परम्परयाऽवच्छेदिकेत्यभ्युपगमाद्, इत्यादि निस्तरम् , शाखा-मूलोभयावच्छिन्नदीर्घतन्तु. तरुसंयोगवत् नील( नीले )तरोभयाद्यवयवावच्छिन्नविलक्षणरूपस्यानुभवसिद्धत्वेन तद्ब्राहकोभयादिपर्याप्तावच्छेदकताकाधिकरणतागर्भसन्निकर्षादिकल्पनाया अप्यावश्यकत्वात् , उपदर्शितसंयोगस्थलेऽपि एकैकावच्छिन्नसंयोगद्वयस्वीकारे च तद्वत्तिकृता सर्वैश्च नीलैरारब्धेऽवयविनि नीलात् नीलं स्वस्वावच्छेदेन समुत्पद्यमानं रूपमविरोधाद् व्यापकमेवोत्पद्यते, सजातीय-विजातीयेषु नानापदार्थेषु जायमानं समूहालम्बनमिवैकं ज्ञानमिति, तत्सर्व विलूनशीणं स्यात् , यथादर्शनमंश-कार्तयाभ्यां नानकसंयोगरूपाद्रव्यपरिणामाभ्युपगमस्योक्तदिशाऽवश्यकत्वेन । ननु व्याप्यवृत्तिनील प्रत्यक्षं प्रत्यनवच्छिन्न एव चक्षुस्संयोगः कारणम् , अव्याप्यवृत्तिनील प्रत्यक्षं प्रति तत्तदवच्छेदकावच्छिन्नचक्षुस्संयोग: कारणमित्येवं ग्राहकान्तरकल्पनमावश्यक मेवेत्यत आहअध्याप्यवृत्तीति- अव्याप्यवृत्तीनां संयोगविभागादीनां यत् प्रतिनियतावच्छेदकावच्छेदेन प्रत्यक्षं तत्र यदि तत्संयोगप्रत्यक्ष प्रति तत्संयोगावच्छेदकावच्छिन्नचक्षुःसंयोगस्य कारणत्वम् , एतत्संयोगप्रत्यक्ष प्रत्येतत्संयोगावच्छेदकावच्छिन्नचक्षुस्संयोगस्य कारणत्वम् , एवं विभागादिप्रत्यक्ष प्रतीत्येवं कार्यकारणभावाभ्युपगमे व्यक्तिभेदेनाऽनन्तकार्यकारणभावकल्पनं स्यात् तद्भयादव्याप्यवृत्तिद्रव्यसमवेतप्रत्यक्षत्वं यत् संयोगविभागादिप्रत्यक्षसाधारणं तदवच्छिन्नं प्रति चक्षुस्संयोगस्य तत्तदव्याप्यवृत्तिद्रव्यसमवेतावच्छेदकावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतासन्निकर्षेण हेतुत्वम्, तेन यदवयवावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतासन्निकर्षेण चक्षुस्संयोगस्तदवयवावच्छेदेनाव्याप्यवृत्तिद्रव्यसमवेतस्य संयोगादेः प्रत्यक्षं भवतीत्येकेनैव कार्यकारणभावेन यथा संयोगादिप्रत्यक्षाणामुपपत्तिस्तथाऽव्याप्यवृत्तिनीलादिप्रत्यक्षमप्यव्याप्यवृत्तिद्रव्यसमवेतप्रत्यक्ष भवतीति तस्यापि निरुक्तप्रत्यक्षत्वलक्षणकार्यतावच्छेदकाक्रान्तत्वेन तेनैव निर्वाहो यदवच्छेदेनाव्याप्यवृत्तिनीलादि तदवच्छेदेन चक्षुस्संयोगस्य समवायसम्बन्धावच्छिन्नाधारतासन्निकर्षत एव तत्प्रत्यक्षम् , नान्यावयवावच्छिनचक्षुस्संयोगत इत्येवमनतिप्रसङ्गादित्यर्थः । 'चक्षुस्संयोगकावच्छेदक' इति स्थाने 'चक्षुस्संयोगस्यकावच्छेदक' इति पाठो युक्तः, संयोगादिप्रत्यक्षस्थले अव्याप्यवृत्तिद्रव्यसमवेत प्रत्यक्षत्वावच्छिन्न प्रति चक्षुस्संयोगस्य क्लप्तेनैवैकावच्छेदकावच्छिन्नसम्बायसम्बन्धावच्छिन्नाधारतासन्निकर्षेणाऽनतिप्रसङ्गादित्यन्वयः । यत्र नील-पीतोभयरूपवदेवैकं कपालमपरमपि कपालं तथा, ताभ्यामारब्धे घटे यदव्याप्य वृत्तिनीलरूपं तस्य कपालं नावच्छेदकं कपाले नीलरूपवत् पीतरूपस्यापि सत्त्वेन पीतकपालावच्छेदेन चक्षुस्सन्निकर्षेऽपि घटीयाव्याप्यवृत्तिनीलरूपप्रत्यक्षं प्रसज्येतेत्यत आह-नील-पीतोभयकपालारब्धेति-नील-पीतोभयरूपवत्कपालारब्धेत्यर्थः, तेन नीलकपाल-पीतकपालोभयारब्धघटीयनीलरूपप्रत्यक्षस्य नीलकपालावच्छेदेन चक्षुस्सन्निकर्षात् संभवेन नीलकपालिकायास्तत्रावच्छेदकत्वाकल्पनेऽपि न क्षतिः । 'नील कपालिकैव' इत्येवकारेण कपालस्यावच्छेदकत्वव्यवच्छेदः। परम्परयेति-नीलकपालिका कपालनीलस्यावच्छेदिकेति तजन्य घटनीलस्याप्यवच्छेदिकेत्यर्थः। एतेन' इत्यतिदिष्टनिरासहेत्वन्तरमुपदर्शयति-शाखेति- शाखामूलोभयावच्छिन्नो यो दीर्घतन्तुना सह तरोः संयोगस्तस्येव नील. नीलतरोभयाद्यवयवावच्छिन्नं विलक्षणं रूपं तस्यानुभवसिद्धत्वेन तथाभूतविलक्षणरूपग्राहकस्य नील-नीलतरावयवद्वयादिपर्याप्ता याऽवच्छेदकता तन्निरूपिताधिकरणतागर्भसन्निकर्षादे. कल्पनाया अप्यावश्यकत्वादित्यर्थः । यदि च शाखा-मूलोभयावच्छिन्नदीर्घतन्तुतरुसंयोगस्थले शाखावच्छिन्नतन्तुतरुसंयोगोऽन्यस्तदन्यश्च मूलावच्छिन्नतन्तुतरुसंयोगश्चान्य इत्येवं संयोगद्वयम् , तर्हि नीलैरारब्धेऽवयविन्यपि तत्तदवयवावच्छिन्नानि नानैव नीलानीति तत्र समूहालम्बनेकज्ञानदृष्टान्तेन तत्तदवयबनीलैः स्वस्वाश्रयावयवावच्छेदेन जायमाननीलं व्यापकमेकमेवेत्यभ्युपगमनमपि परस्य विलीनं स्यादित्याह- उपदर्शितसंयोगस्थलेऽपीति । तदवृत्तिकृता' इति स्थाने 'तद्वन्नानानीलस्वीकृतौ यत् ' इति पाठः 'समुत्पद्यमान रूपमविरोधाद' इति स्थाने 'समुत्पद्यमानमविरोधाद्' इति पाठश्च युक्तः, समूहालम्बनज्ञानमप्येकं न भवेत् तत्रापि विषयभेदेन भिन्नमेव भवेदिति दृष्टान्तस्याप्यसङ्गतत्वं स्यादित्याशयः। यदि चोपदर्शितसंयोगस्थले शाखावच्छिन्नसंयोगो मूलाव. च्छिन्नसंयोगशाखा-मूलोभयावच्छिन्नसंयोग इत्येवं संयोगत्रयम् , तर्हि तद्वदेव प्रत्येकावयवावच्छेदेन विभिन्न नीलम्, सम्पूर्णे चैकं नीलमित्यपि स्याद्, एवं च स्याद्वादिनामेव जय इत्याह- यथादर्शनमिति- प्रतीत्यनुसारेणेत्यर्थः ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy