________________
७२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
___ अथ चित्रत्वग्रहे परम्परयाऽवयवगतनीलेतररूप-पीतेतररूपादिमत्त्वग्रहो हेतुः, अत एव व्यणुकचित्रं चक्षुषा न गृह्यत इत्याचार्याः। न च, चित्रत्वनिष्ठविषयतया चित्रत्वग्रहे स्वविशेष्यसमवेतसमवेततत्वसम्बन्धेनोक्तस्य हेतुत्वे घटावयवगततगृहात् शुक्लावयवावच्छेदेन चित्रपटसन्निकर्षेऽपि तद्रूपचित्रत्वप्रत्यक्षापत्तिरिति वाच्यम् , विशेष्यतया चित्रत्वप्रकारकप्रत्यक्ष एव विनियुक्तसम्बन्धेन तद्धेतुत्वात् , न च, नीलेतररूपत्वाद्यवच्छिन्नप्रकारताग्रहो न हेतुः,नीलत्व-पीतत्वादिनाऽवयवगत-नील पीतादिनहेऽप्यवयविचित्रप्रत्यक्षोत्पादादिति वाच्यम् , विलक्षणचित्रप्रत्यक्षे तेन तेन रूपेण तत्तद्ग्रहस्यापि हेतुत्वात् , वस्तुतो नीलेतर. रूपत्वादिव्याप्यत्वेन नीलेतररूपत्व-पीतत्वाद्यनुगमान्न क्षतिरिति चेत् ? न-त्र्यणुकचित्ररूपाग्रहे चतुरणुकस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नावयवगतपीतेतररूपनिष्ठनिरूपकतानिरूपिताधिकरणत्वादिनिष्टस्वरूपसम्बन्धावच्छिन्नप्रकारताकप्रत्यक्षं कारणमित्यवयवगतनीलेतररूपादिमत्त्वग्रहे सत्येव चित्रप्रत्यक्षं नान्यथेत्यर्थः । उक्तकार्यकारणभावे न्यायधुरन्धरोदयनाचार्यसम्मतिमुपदर्शयति- अत एवेति- निरुक्तकार्यकारणभावादेवेत्यर्थः, व्यणुके यद्यपि स्वसमवायिसमवेतत्वसम्बन्धेन व्यणुकगतनीलेतररूपादिमत्त्वं वर्तते तथापि तस्याऽयोग्यत्वात् प्रत्यक्षं न भवति, ततस्तदात्मककारणाभावात् त्र्यणुकचित्रं चक्षुषा न गृह्यत इत्युदयनाचार्या वदन्तीत्यर्थः । उक्तदिशा कार्यकारणभावं नैयायिकाभिमतमजानतः प्रकारान्तरेण कार्यकारणभावं नैयायिकाभिमतं कल्पयतः परस्य शङ्कामुत्थाप्य नैयायिकः प्रतिक्षिपति-न चेति- अस्य ‘वाच्यम्' इत्यनेनान्वयः । उक्तस्य अवयवगतनीलेतररूप-पीतेतररूपादिमत्त्वग्रहस्य, एतत्सङ्गमनं चेत्थम् - चित्रत्वप्रत्यक्षं चित्रत्वनिष्ठविषयतासम्बन्धेन चित्रत्वे समुत्पद्यते तत्रावयवगतनीलेतररूपादिमत्त्वग्रहः. स्वविशेष्योऽवयवः, तत्समवेतोऽवयवी, तत्समवेतत्वं चित्रत्वे समस्तीति तत्सम्बन्धेन समस्तीति तत्प्रत्यक्षं तत उत्पद्यत इति । अत्र 'घटावयव' इत्यादिना यदापादनं कृतं तदित्थंसङ्गमनम्-चित्रत्वमेकमेव, तत्र शुक्लावयवावच्छेदेन चित्रपटसन्निकर्षों वर्तते, घटावयवगतनीलेतररूपादिग्रह उक्तसम्बन्धेन चित्रत्वे समस्तीति घटगतचित्रत्वापत्तिः, वस्तुतोऽत्र चित्ररूपात्मकं चित्रत्वं नैकमिति तदाश्रित्य कार्यकारणभावो न, किन्तु चित्ररूपगतं यच्चित्रत्वमेकं तदाश्रित्येव कार्यकारणभावः, तत्र परम्परासम्बन्धन घटावयवगतनालेतररूपादिमत्त्वग्रहो घटविशेष्यको भवति, इत्थं च यदेव चित्रत्वं घटगतचित्ररूपे वर्तते तदेव चित्रत्वं पटगतचित्ररूपेऽपि वर्तते इति चित्रपटमादाय यदा चक्षुषः स्वसंयुक्तसमवेतत्व समवायलक्षणसन्निकर्षश्चित्रत्वे वर्तते तदानीं स्वसमवायिसमवेतत्वसम्बन्धेन घटावयवगतनीलेतररूपादिमत्त्वग्रहे स ग्रहः, स्वविशेष्यो घटः, तत्समवेतं तद्गतचित्ररूपम् , तत्समवेतत्वं चित्रत्वे समस्तीति तेन सम्बन्धेन तत्र वर्तत इति तदानककारगय सत्त्वेन चित्रपटाचित्रलप्रत्यक्षत्वापत्तिरित्यर्थः । निषेधहेतुमुपदर्शयति-विशेष्यतयेति । वि सम्बन्धेन' इति स्थाने 'निरुक्तसम्बन्धन ' इति पाठो युक्तः तस्य विशेष्यतासम्बन्धेनेत्यर्थः । तद्धतुत्वात् परम्पराऽवयवगतनोलेतररूप-पोतेतररूपादिमत्वग्रहस्य हेतुत्वात् । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । 'प्रकारताग्रह' इत्यस्य स्थाने 'प्रकारताकग्रहः' इति पाठो युक्तः । न हेतुः न चित्रत्वप्रकारकप्रत्यक्षे कारणम् । तादृशहेतुत्वाभावे व्यतिरेकव्यभिचारं हेतुत्वेनोपदर्शयति - नीलत्व पीतत्वादिनेति । उक्ताशङ्कनिषेधे हेतुमाह-विलक्षणचित्रप्रत्यक्ष इति- यादृशचित्रप्रत्यक्षमवयवगतनील-पीतादिग्रहेणोपजायते तादृशचित्र प्रत्यक्षे नीलत्व-पीतत्वादिरूपेणावयवगतनील-पीतादिग्रहस्य हेतुत्वम् , यादृशचित्रप्रत्यक्षमवयवगतनी लेतररूप-पीतेतररूपादिग्रहेणोपजायते तादृशचित्रप्रत्यक्षे नीलेतररूपत्वाद्यवच्छिन्नप्रकारताकग्रहो हेतुरित्येवमुपगमे व्यतिरेकव्यभिचाराभावादित्यर्थः । तेन तेन रूपेण नीलत्व-पीतत्वादिना । तत्तहहस्यापि अवयवगतनील-पीतादिग्रहस्यापि । नीलत्व-पीतत्वादीनां नीलेतररूपत्व पीतेतररूपत्वादीनां च नीलेतररूपत्वादिव्याप्यत्वेनानुगमय्य चित्रत्वप्रकारकप्रत्यक्षे नीलेतररूपत्वादिव्याप्यधर्मावच्छिन्नप्रकारताकग्रहत्वेन कारणत्वेऽपि न व्यभिचार इत्याह- वस्तुत इति । उक्तनैयायिकाशङ्कां प्रतिक्षिपति-नेति । अवयवगतनील-पीतादिग्रहस्यावयवगतनीलेतररूप-पीतेतररूप दिग्रहस्य चित्रप्रत्यक्षकारणत्वे चित्रत्र्यणुकारब्धचतुरणुकस्य चित्ररूपस्य प्रत्यक्ष न स्यात् , यत: त्र्यणुकचित्रस्यैव प्रथमं प्रत्यक्षं न सम्भवति, तदवयवव्यणुकग तनीलादेनीलेतररूपादेश्चायोग्यत्वेन तद्ब्रहणाभावे तद्रूपकारणाभावात् , व्यणुकचित्राग्रहे च भवन्मते तत्र चित्ररूपवति रूपान्तरस्याभावात् , येन व्यणुकगतरूपान्तरग्रहतोऽपि चतुरणुकप्रत्यक्षस्योत्पत्तिः संभाव्येत, अत उक्तदिशा कार्यकारणभावो न संभवति, चित्रावयवारब्धावयविचित्रप्रत्यक्षसाधारण्येन, किन्तु चित्रावयवारब्धचित्रग्रहेऽवयवविशेष्यकनीलेतररूपत्वादिव्याप्यचित्रत्वावच्छिन्नप्रकारकग्रहस्यैव