________________
२८४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
ञ्चकयोगविधया कारणतायां तु वास्तवविषयताया एव निवेशान्न दोष इति वाच्यम् , सत्त्वशुद्धिविधयैव प्रतिमावन्दनाद् निर्जरोत्पत्तेः "तह वि फलं अस्थि मणविसुद्धीए" इत्यनेन प्रतिपादनात् , किञ्च, गुणदोषो. भयवैकल्यमात्रेण प्रतिमायामहंदध्यवसायस्य निर्जराङ्गत्वे (प्रतिष्ठिता)प्रतिष्ठितयोरविशेषापत्तेः, न च"सयं कारियाइ एसा जायइ ठवणाइ बहुफला केई । गुरुकारियाइ अन्ने विसिट्टविहिकारियाए य ॥१३॥ ठंडिल्ले वि य एसा मणठवणाए पसत्थिगा चेव । आयासगोमयाइहिं एत्थमुवल्लेवणाइ हिअं ॥१४॥ उवयारंगा इह सोवओगसाहारणाण इट्ठफला । किंचि विसेसेण तओ सव्वे ते विभइअव्व ति" ॥१५॥
इति पूजाविधिविंशिकावचनपर्यायलोचनयेयमभिष्टप्रदेति वाच्यम् , तत्र प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेणेव मानसप्रतिष्ठापुरस्कारेण प्रवृत्तानां पूजाविधिविकल्पानां विधिप्रतिष्ठितपूजाजन्यतावच्छेदकजातिव्याप्यजात्यवच्छेदेन मानसाऽभिप्रायशोधिताविधिप्रतिष्ठितपूजाजन्यतावच्छेदकजात्यवच्छेदेन च फलभेदाद्धेतुभेदोपयुक्त इत्यभिप्रायेण प्रवृत्तावपि प्रतिष्ठासामान्यस्याकिश्चित्करत्वे तात्पर्याभावात् , अन्यथा आद्योऽवञ्चक उच्यते ॥ तेषामेव प्रणामादिक्रियानियम इत्यलम्। क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः ॥ फलावञ्चकयोगस्तु सद्भय एव नियोगतः। सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता ॥" षो० ८, विव० । वास्तवविषयताया एवेति-निर्जरां प्रति सावद्यकर्माभाववन्निष्ठविशेष्यतात्मकविषयताशालिगुणसङ्कल्पत्वेन हेतुत्वम् , बन्धं प्रति तु सावद्यकर्मवन्निष्ठविशेष्यतात्मकविषयताशालिगुणसङ्कल्पत्वेन हेतुत्वमित्येवं वास्तवविषयताया एव कारणतावच्छेदककोटौ निवेशान्न प्रतिमावन्दनादावुभयाभावापत्तिलक्षणो दोषः, यतः प्रतिमायां सावद्यकर्मणोऽभावेन सावद्यकर्मवन्निष्ठविशेष्यताकगुणसङ्कल्पस्याभावेन न प्रतिमावन्दनतो बन्धोत्पत्तिः, सावधकर्मणोऽभावादेव सावद्यकर्माभाववती भवति प्रतिमेति सावद्य कर्माभाववत्प्रतिमानिष्ठविशेष्यताकगुणसङ्कल्पलक्षणकारणबलात् प्रतिमावन्दनतो निर्जरोत्पत्तिरिति । निषेधे हेतुमाह-सत्त्वशुद्धिविधयैवेति । निर्जरोत्पत्तरित्यस्य प्रतिपादनादित्यनेनान्वयः । तह वीति-“ कामं उभयाभावो तह वि फलं अत्थि मनविसुद्धीए। तीइ पुण मणविसुद्धीइ कारणं होत्ति पडिमा उ ॥” इति सम्पूर्ण प्रागुपदर्शितम्। प्रतिमायां गुणदोषयोरसत्त्वेऽप्युक्तदिशा निर्जराङ्गत्वाभ्युपगमे दोषान्तरमुपदर्शयति-किञ्चेति । प्रतिष्ठिताप्रतिष्ठितयोरिति- यस्यां जिनप्रतिमायां प्रतिष्ठाविधिना सूत्रोक्तेन जिनप्रतिष्ठा कृता सा प्रतिष्ठिता, यस्यामुक्तदिशा जिनप्रतिष्ठा न कृता साऽप्रतिष्ठिता तयोरित्यर्थः। अविशेषापत्तेरिति-प्रतिष्ठितायामप्रतिष्ठितायां च प्रतिमायां गुण-दोषौ न स्त एव, एवं यस्यामहदध्यवसायो भवति सा निर्जराजं भवति, यस्यां चार्हदध्यवसायो न भवति सा न निर्जराङ्गमिति विशेषः सन्नप्यन्यथैवोपपन्न इति प्रतिष्ठाविधिना तत्र जिनस्थापनस्य बह्वायाससाध्यस्यानर्थक्यापत्तेरित्याशयः । न चेत्यस्य चाच्यमित्यनेनान्वयः। सयं त्ति- " स्वयं कारितयैषषा जायते स्थापनया बहुफला केचित् । गुरुकारितया अन्ये विशिष्टविधिकारितया च ॥१॥ स्थण्डिलेऽपि चैषा मनःस्थापनया प्रशस्तिका चैव । आकाशगोमयादिभिरत्र उपलेपनादि हितम् ॥ २ ॥ उपचाराङ्गा इह सोपयोगसाधारणानामिष्टफला। किञ्चिद् विशेषेण ततः सर्वे ते विभजयितव्या इति ॥ ३ ॥ इति संस्कृतम् ॥ इति एवंस्वरूपेत्यर्थः, अस्य पूजाविधिविंशिकावचनेऽन्वयः । इयं प्रतिमा । निषेधे हेतुमाह-तत्रेति- पूजाविधि विंशिकावचने इत्यर्थः, अस्य प्रवृत्तानामित्यनेनान्वयः। प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेणेव प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेण प्रवृत्तानामिव, पूजाविधिविकल्पानामित्यस्य प्रवृत्तावपीत्यनेनान्वयः । विधिप्रतिष्ठितेति- विधिना सूत्रोक्तविधिना प्रतिष्ठितस्य जिनप्रतिबिम्बस्य या पूजा तन्निष्ट जनकतानिरूपितजन्यतावच्छेदिका या पूजाफलगता जातिस्तव्याप्या याऽवान्तरफलगता जातिस्तदवच्छेदेनेत्यर्थः, अस्य फलभेदादित्यनेनान्वयः । मानसेति-मानसाभिप्रायशोधितस्याविधिप्रतिष्ठितस्य जिनबिम्बस्य या पूजा तजन्यतावच्छेदिका याऽविधिप्रतिष्ठितजिनपूजाफलगता जातिस्तदवच्छेदेनेत्यर्थः, अस्यापि फलभेदादित्यनेन सम्बन्धः। “हेतुभेदोपयुक्तः" इत्यस्य स्थाने " हेतुभेदोऽपि युक्तः" इति पाठ: सम्यक्, हेतुभेदमन्तरेण फलभेदो न सम्भवति, तत्तज्जात्यवच्छेदन फलभेदस्तु दृश्यत इति तदन्यथाऽनुपपत्त्या कल्पनीयस्तत्तज्जात्यवच्छिन्नं प्रति विधिप्रतिष्ठितजिनबिम्बपूजाऽविधिप्रतिष्ठितजिनबिम्बपूजात्मकहेतुभेदोऽपि युक्त इत्यर्थः । इत्यभिप्रायेण