________________
३९८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः ।
मोक्षजनकत्वात् प्राथमिकतत्त्वज्ञानादेव मोक्षोपपत्तौ क कर्मानुष्ठानमिति शङ्कनीयम्
" नित्यनैमित्तकैरेव, कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन तु पाचयेत् ॥ १ ॥ अभ्यासात् पक्कविज्ञानः कैवल्यं लभते नरः।" [
] इत्यादिपुराणेषु तदभ्यासश्रवणात् , श्रुतिरप्यत्र विपक्षबाधकतया प्रमाणमस्ति, तथाहि-" अन्धं तमः प्रविशन्ति ये अविद्यामुपासते ततो भूय इव ते तमो य उ विद्यायां रताः " [
] अस्या अर्थ:- अविद्या-कर्म, तदुपासते ज्ञानत्यागेन तत्रासक्ता भवन्ति ये, ते अन्धं तमः प्रविशन्तिसंसारान्न मुच्यन्ते, तेन केवलकर्मोपासने न जन्मादिविच्छेदः, ये च विद्यायां रताः, विद्या तत्त्वज्ञानं तन्मात्रासक्ताः, " उ” इत्यव्ययं चकारार्थम् , ते भूयोऽतिशयेनान्धं तमः प्रविशन्ति, नित्याकरणे प्रत्यवायस्य बहुलत्वात् ; ननु " मोक्षाश्रमश्चतुर्थो वै यो भिक्षोः परिकीर्तितः " [
] इत्यागमाञ्चतुर्थाश्रमिणामेव मोक्षे अधिकारः, तत्र च " संन्यस्य सर्वकर्माणि " [ इति स्मृतेः कर्ममात्रत्यागात् क समुच्चयः क वा अकरणे प्रत्यवाय इति चेत् ? न- यानि कर्माण्युपमीत. पपत्तेः सम्भवात् , स्वातन्त्र्येण तत्त्वज्ञान-कर्मणोर्मोक्ष प्रति कारणत्वे तु तत्त्वज्ञानानन्तरमप्यनुष्ठितं कर्मादृष्टद्वारा मोक्षहेतुर्भविष्यतीति तत्त्वज्ञानोत्पत्त्यनन्तरमपि यम-नियमाद्यनुष्ठानं स्यादित्याशङ्कते-निःश्रेयस इति । अत्रेष्टापत्तिरेव समा. धानमित्याह- स्यादेवेति- तत्त्वज्ञानोत्पत्त्यनन्तरमपि यमनियमाद्यनुष्ठानमित्यनुवर्तते। मोक्षे कर्तव्ये मुमुक्षवाधिकारः तस्या यथा तत्त्वज्ञानोत्पत्तेः प्राग् भावस्तथा तत्त्वज्ञानोत्पत्त्यनन्तरमपि भाव इति तद्बलात् तत्त्वज्ञानोत्पत्त्यनन्तरं यमनियमाद्यनुष्ठानं युक्तमेवेत्याह- तदानीमपीति- तत्त्वज्ञानोत्पत्त्यनन्तरमपीत्यर्थः । न चेत्यस्य शङ्कनीयमित्यनेनान्वयः, तत्वज्ञानत्वेनैवेत्येवकारेणाभ्यस्ततत्त्वज्ञानत्वस्य मोक्षजनकतावच्छेदकत्वव्यवच्छेदः, तत्त्वज्ञानत्वं च प्राथमिकतत्त्वज्ञानेऽपि समस्तीति तावन्मात्रेणापि मोक्षरूपकार्यजननसम्भवात् कस्मिन् कार्ये कर्मानुष्ठानम् ? प्रयोजनाभावान तत्त्वज्ञानोत्पत्त्यनन्तरं यम-नियमाद्यनुष्ठानमिति नाशङ्कनीयमित्यर्थः । तत्र हेतुमाह- नित्यनैमित्तिकैरेवेति- स्पष्टम् । तदभ्यासश्रवणात् तत्त्वज्ञानाभ्यासश्रवणात् । न केवल मुक्तार्थे पुराणवचनमेव प्रमाणं किन्तु श्रुतिरपि तत्र प्रमाणमित्याह-श्रुतिरपीति । विपक्षबाधकतया तत्त्वज्ञानाभ्यासाकारणरूपविपक्षबाधकतया । तामेव श्रुतिमुल्लिखति- अन्धं तम इति। अस्याः 'अन्धं तम' इत्यादिश्रुतेः। अविद्या-कर्म कमैवात्राविद्याशब्देनोच्यते, तत् कर्म, उपासते इत्यस्य विवरणंज्ञानत्यागेन तत्रासक भवन्तीति, यत्तच्छब्दयोर्नित्यसम्बन्ध इति, ये इति शब्दोपादानसामर्थ्यात् ते इति शब्दोऽनुक्तोऽपि सन्निहितो भवति, ते ज्ञानत्यागेन कर्मोपासनपरा जनाः, अन्धं तमः प्रविशन्तीत्यस्य फलितार्थकथनंसंसारान्न मुच्यन्त इति, एतेन किमुक्तं भवतीत्यपेक्षायामाह- तेनेति- संसारान्मुक्तरभावेनेत्यर्थः, केवलेति- ज्ञानासहितेत्यर्थः, विद्यायां रता इत्यस्य विवरणं- विद्यातत्वज्ञानं तन्मात्रासका इति, ते तत्त्वज्ञानमात्रासक्ताः, भूय इत्यस्य विवरणमतिशयेनेति, कथं तत्त्वज्ञानमात्रासक्तानामन्धे तमसि प्रवेश इत्याकालायामाह-नित्याकरण इतिनित्यकर्माननुष्ठाने इत्यर्थः, प्रत्यवायस्य पापस्य । शङ्कते-नन्विति । मोक्षाश्रम इति- ब्रह्मचर्याश्रम-गृहस्थाश्रमवानप्रस्थाश्रम-संन्यासाश्रमापरनाममोक्षाश्रमभेदेनाऽऽश्रमाश्चत्वार इति तेषां मध्ये चतुर्थो मोक्षाश्रमः, स एव 'वै' इत्यस्यैवकारार्थकत्वात् , य आश्रमः, भिक्षोः संन्यासिनः, परिकीर्तितः शास्त्रे कथित इत्यर्थः, इत्यागमादेवस्वरूपागमवचनात् , चतुर्थाश्रमिणां संन्यासिनाम् , एवेत्यवधारणेन ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थाश्रमिणां त्रयाणां मोक्षानधिकारत्वमावेदितम् । तत्र च संन्यासाश्रमे पुनः । संन्यस्य सर्वकर्माणि सर्वकर्माणि त्रीण्यपि नित्य-नैमित्तिक-काम्यकर्माणि त्यक्त्वा । इति स्मृतेः एवं स्वरूपस्मृतिवचनात् । कर्ममात्रत्यागात संन्यासाश्रमे निखिलकर्मपरित्यागात् । क समुच्चयः मोक्षार्थ कर्मभिः समं ज्ञानस्य समुच्चयो दूरापेतः। यदा च संन्यासिनो निखिलकर्मस्वनधिकार एव तदा, क वा अकरणे प्रत्यवायः वा- अथवा, अकरणे- नित्यकर्माकरणे, प्रत्यवायः क-पापं न संभवति । समाधत्ते- नेति । "ण्युपमीत" इत्यस्य स्थाने "ण्युपनीत" इति पाठो युक्तः, उपनीतमात्रस्य ब्रह्म-क्षत्र-वैश्यजातीयाखिलोपनयन