SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ३५४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। लवोऽपि-लेशोऽपि नास्ति, तन्मते जामव्यवहारस्य स्वप्नव्यवहारतुल्यत्वात् , तथा च मौलस्य वेदान्तदर्शनस्य व्यवहारापेतरवेन व्यवहारप्रकृतिता, किन्त्वेकात्मसङ्ग्रहप्रवणतया सङ्ग्रहप्रकृतितैव, आकाशोदकपातकल्पमूलदर्शनप्रवृत्तावेव चेयं नयप्रकृतिचिन्ता, इति नार्वाचीनवेदान्तिनां मिथोविरुद्धकल्पनाकोटिक्लेशपराहतानां व्यवहाराभाससमर्थनेनापि प्रतिश्रुतव्याहतिरिति हृदयम् ॥---- साङ्खथेति । सायशास्त्रे च नानात्मनां व्यवस्था प्रतिनियतजन्ममरणादिव्यवहारकृद् भवति, इत्येतावत् पुरस्कृत्य- तात्पर्यविषयीकृत्यायं विवेकः सम्मतौ, यदुत- व्यवहारप्रकृतिकं साक्ष्यदर्शनं सङ्ग्रहप्रकृतिकं च वेदान्तदर्शनमिति, वेदान्तप्रकृतिभूतसङ्गन्हनयेनैकतया विषयीकृतस्यात्मनः भेदकरणेन सङ्ग्रहविषयभेदकत्वलक्षणसमन्वयाद् व्यवहारप्रकृतिकत्वं सायदर्शनस्य विवक्षितमिति तात्पर्यम् , तेन सत्का. दर्शनप्रवर्तकैराप्तैष्टिसृष्टिवादस्यैवाभ्युपगतत्वादित्यर्थः । तस्यां च दृष्टिसृष्टिवादात्मकवेदान्तदर्शनप्रवृत्तौ तु, प्रपञ्चमात्रस्य ज्ञातसत्त्वमुपैयत इत्येतस्मात् कारणाद् अज्ञातसत्त्वाभावेन स्वप्नोपमे खप्नसदृशे, स्वप्ने दृश्यमानं वस्तु तत्कालीनमेवेति ज्ञातसद् यथा तथा जगदपि यदैव ज्ञायते तदैव सत् नान्यदेति, विश्वे इत्यस्य विवरणं- जगतीति, सतिसप्तमीयमित्यावेदनाय सतीति । "लेशोऽपि" इत्यस्य स्थाने " व्यवहारलेशोऽपि" इति पाठः सम्यग, व्यवहारलवोऽपी. त्यस्य विवरणं- व्यवहारलेशोऽपीति । अत्र हेतुमाह- तन्मत इति - दृष्टि सृष्टिवादिमत इत्यर्थः, जाग्रद्वयवहारस्य स्वप्नव्यवहारतुल्यत्वेन स्वप्नव्यवहारो यथा मिथ्या तथा जाप्रव्यवहारोऽपि मिथ्यैवेति भावः । तथा च वेदान्तदर्शनप्रवृत्तेदृष्टिसृष्टिवादात्मकत्वव्यवस्थितौ च । मौलस्य मूलाभियुक्ताभ्युपगतस्य । वेदान्तदर्शनस्य दृष्टिसृष्टिवादात्मकवेदान्तदर्शनस्य । व्यवहारापेतत्वेन व्यवहाररहितत्वेन, “व्यवहारप्रकृतिता" इत्यस्य स्थाने "न व्यवहारप्रकृतिता" इति पाठः समुचितः। यदि वेदान्तदर्शनस्य न व्यवहारप्रकृतिकत्वं तर्हि किंप्रकृतिकत्वमिति पृच्छतिकिन्विति । उत्तरयति- एकात्मेति- एकस्मिन्नात्मनि तत्स्वरूपतो जगत एव सङ्ग्रहस्य प्रवणतया वेदान्तदर्शनस्य सङ्कहप्रकृतितैवेत्यर्थः । उक्तपद्याभिप्रायमुपदर्शयति-आकाशोदकपातेति- आकाशादुदकस्य यत् पतनं तद् यदैव दृश्यते तदैव समस्ति तद्वद् जगदपि यदैव दृश्यते तदैवास्तीत्येवमभ्युपगमप्रवणं मूलदर्शनं दृष्टि सृष्टिवादात्मकवेदान्तदर्शनमाकाशोदकपातकल्पमूलदर्शनं तस्य प्रवृत्तावेव, एवकारेण दृष्टिसृष्टिवादभिन्नवेदान्तदर्शनप्रवृत्तिव्यवच्छदः । इयं नयप्रकृतिचिन्ता वेदान्तदर्शनं शुद्धद्रव्यार्थिकन यप्रकृतिकं साङ्ख्यदर्शनमशुद्धद्रव्यार्थिकनय प्रकृतिकमित्येवं नयविचारणा । इति एतस्मात् कारणात् , नञः प्रतिश्रतव्याहृतिरित्यनेनान्वयः । अर्वाचीनवेदान्तिनां नवीनवेदान्तिनाम् , एषामेव विशेषणं-मिथोविरुद्धकल्पनाकोटिक्लेशपराहतानामिति- एको वेदान्ती यथा कल्पयति, अन्यो वेदान्ती तत्कल्पनाविरुद्धामेव कल्पना पूत्करोतीत्येवं मिथोविरुद्धकल्पनानां या कोटि:- कोटिपदमत्रापरिमितसङ्खयापरं, तथा चापरिमित सङ्खचकमिथोविरुद्धकल्पनात्मकक्लेशपराहतानामित्यर्थः, उक्तविशेषणशालिनां नव्यवेदान्तिनां यद् व्यवहाराभासस्य समर्थनं तेनापि, प्रतिश्रुतस्य- प्रतिज्ञातस्य वेदान्तदर्शने शुद्ध द्रव्याथिकनयप्रकृतिकत्वस्य, व्याहतिः- भङ्गो नेत्येतादृशं हृदयं-रहस्यमित्यर्थः ॥ ११५ ॥ षोडशोत्तरशततमपद्यं विवृणोति- साहयतीति । व्यवहार कृदित्यस्य विवरणं- प्रतिनियतजन्ममरणादिव्यवहारकृद् भवतीति- नानात्मनां स्वीकार।देव केषाञ्चिन्नरके जन्म, केषाश्चिद् देवगतौ जन्म, केषाश्चित् तिर्यग्गतौ जन्म, एकस्य यदा जन्म तदाऽपरस्य कस्यचिन्मरणम् , एकोऽमुकशास्त्रज्ञाताऽपरस्तदन्यशास्त्रप्रवीणोऽन्यः सर्वशास्त्रनिपुणः कश्चित् किञ्चिज्ज्ञः, कश्चिद् बद्धः कश्चिन्मुक्त इत्येवं प्रतिनियतजन्ममरणादिव्यवहारो भवतीति नानात्मव्यवस्था व्यवहारकृदित्यर्थः । इत्येतावत् एतावन्मात्रम् । पुरस्कृत्येत्यस्य विवरणं तात्पर्यविषयीकृत्येति । अयं विवेकः सम्मतावित्यस्य फलितार्थमाह- यदुतेति । निरुक्तपद्यभावार्थमावेदयति- वेदान्तेति - वेदान्तदर्शनस्य प्रकृतिभूतो यः शुद्धद्रव्यार्थिकः . सङ्ग्रहनयस्तेनैकतया विषयीकृतस्यात्मनो यद् भेदकरणम् - एको बद्धोऽपरो मुक्त इत्येवं विभजनं नानात्माभ्युपगमनमिति यावत् , तेन सङ्ग्रहविषयभेदकत्वं यद् व्यवहारनयस्य लक्षणं तस्य समन्वयात्- साङ्ख्यदर्शने घटनात् साङ्ख्यदर्शनस्य व्यवहारनयप्रकृतिकत्वं सम्मतिका विवक्षितमिति तात्पर्यम्- अभिप्राय इत्यर्थः । तेन उक्तदिशा साडयदर्शने व्यवहार
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy