________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
विंशे व्यवहारप्रकृतित्वाभावेऽपि न क्षतिः, आत्मन एव सकलशास्त्रप्रयोजनभागित्वेन मुख्यत्वान्मुख्योदेशेनैव च नयानां प्रकृतिविकृतिचिन्ताया युक्तत्वादिति भावः ॥ ११५-११६ ॥
यद्येवं सहङ्घ-व्यवहारौ वेदान्त-साङ्ख्यदर्शनप्रवर्तकौ, नैगमनयस्तर्हि कस्य दर्शनस्य प्रवर्तक इति जिज्ञासायाह
हेतुर्मतस्य कस्यापि शुद्धाशुद्धो न नैगमः।
अन्तर्भावो यतस्तस्य सङ्ग्रह-व्यवहारयोः ॥ ११७ ॥ . नयामृत-हेतुरिति । सामान्य विशेषादुभयग्राहित्वेन शुद्धाशुद्धो नैगमनयः कस्यापि मतस्यदर्शनस्य, न हेतु:- न प्रकृतिः, यतः सामान्यग्रहाय प्रवृत्तस्य सङ्ग्रह एव, विशेषग्रहाय च प्रवृत्तस्य व्यवहार एवान्तर्भाव इति तदुभयभिन्नं स्वात्मानमेवालभमानस्य न भिन्नदर्शनप्रकृतिकत्वमभिधातुं युज्यत इति ॥ ११७ ॥ कुतस्तर्हि वैशेषिकदर्शनमुत्पन्नं कथं वा तन्न सम्यगित्याकाङ्खायामाह
द्वाभ्यां नयाभ्यामुन्नीतमपि शास्त्रं कणाशिना ।
अन्योऽन्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् ॥ ११८ ॥ नयामृत०-द्वाभ्यामिति । द्वाभ्यां- सामान्य-विशेषग्राहिभ्यां सङ्घह-व्यवहाराभ्यां नयाभ्याम् , उन्नीतं- पृथग व्यवस्थापितमपि, कणाशिना- कणादमुनिना, शास्त्रम् , अन्योऽन्यनिरपेक्षत्वात्- परस्परद्वयावलम्बनमेव शास्त्रस्य सम्यक्त्वप्रयोजकम् , किन्तु यथास्थाने तद्विनियोगः, स च स्वप्रयुक्तभङ्गविविक्तद्रव्य-पर्यायोभयावगाहित्वात् , स्वमताग्रहात्- स्वकल्पनाभिनिवेशात् , मिथ्यात्वम् , नहि नयजयप्रकृतिकत्वस्याभ्युपगमेन, अस्य न क्षतिरित्यनेनान्वयः, कथमेवमपि न क्षतिरित्यपेक्षायामाह- आत्मन एवेति अस्य मुख्यत्वादित्यनेनान्वयः, अन्यत् स्पष्टम् ॥ ११६ ॥
सप्तदशोत्तरशततमपद्यमवतारयति- यद्यवमिति। विवृणोति-हेतुरितीति । “सामान्य-विशेषादुभयग्राहित्वेन" इत्यस्य स्थाने “ सामान्यविशेषोभयग्राहित्वेन" इति पाठः सम्यग, नैगमो यदि सामान्यमेव गृह्णीयाद् विशेषमेव वा गृह्णीयात् तर्हि शुद्धः स्यात् न चैवम्, किन्तु सामान्यमपि गृह्णाति विशेषमपि गृह्णातीत्येवं सामान्यविशेषोभयप्राहित्वेनेत्यर्थः । मतस्येत्यस्य विवरणं दर्शनस्येति । न हेतुरित्यस्य विवरण-न प्रकृतिरिति । अत्रोत्तरार्दोक्तं हेतुं विवृणोति- यत इति- एतदनन्तरं तस्येति दृश्यम्, तस्य- नैगमस्य । कथमेकस्य तस्य सङ्ग्रहेऽन्तर्भावो व्यवहारे चाऽन्तर्भाव इत्यपेक्षायामाह- सामान्यग्रहायेति । एवं च सङ्ग्रह-व्यवहारभिन्नो नैगमनयो नास्ति कस्य भिन्नदर्शनहेतुत्वमित्याह-तदुभयभिन्नमिति-सङ्ग्रह-व्यवहारान्यतरभिन्नमित्यर्थः, तेनोभयभेदस्य केवलान्वयित्वेऽपि न क्षतिः । स्वात्मानमेव नेगमनयस्वरूपमेव । अलभमानस्य अप्राप्नुवतो नैगमनयस्य । “भिन्नदर्शनप्रकृतिकत्व" इत्यस्य स्थाने “भिन्नदर्शनप्रकृतित्व" इति पाठो युक्तः, भिन्नदर्शनकारणत्वं वक्तुं न घटत इत्यर्थः ।।११७॥ ___ अष्टादशोत्तरशततमपद्यमवतारयति- कुत इति- कस्मान्नयादित्यर्थः, अस्य 'उत्पन्नम्' इत्यनेनान्वयः । कथं वा कस्मात् कारणाद्वा। तन्न सम्यग् वैशेषिकदर्शनं न समीचीनम् । विवृणोति-द्वाभ्यामिति । द्वाभ्यामित्यस विवरण- सामान्य-विशेषग्राहिभ्यां सङ्गह-व्यवहाराभ्यामिति । उन्नीतमित्यस्य विवरणं-पृथगू व्यवस्थापितमिति। कणाशिनेत्यस्य विवरण- कणादमुनिनेति । कथं कणादमुनिप्रणीतं वैशेषिकदर्शनाख्यं शास्त्रं मिथ्यात्व मित्यपेक्षायां हेतूपदर्शकमुत्तरार्द्ध विवृणोति-अन्योऽन्यनिरपेक्षत्वादिति । अन्योऽन्यनिरपेक्षत्वं सामान्य-विशेषात्मकार्थयोरेव न तु तत्प्रतिपादकशास्त्रस्येत्यतस्तद्विवरण- परस्परविविक्तद्रव्य-पर्यायोभयावगाहित्वादिति- शास्त्रजन्य