________________
३५६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । द्वयेतरयावद्भङ्गानां स्याद्वादलाञ्छितानां परस्परसाकाङ्क्षाणां तात्पर्यविषयतया सम्पद्यते, एकतरस्याप्यतात्पर्य सिद्धान्तविराधनाया अपरिहारात् , तदाह
" जे वयणिज्जविअप्पा संजुज्जन्तेसु होन्ति एएसु । सा ससमयपन्नवणा सिद्धन्तविराहणा अण्णा (तित्थयरासायणा अण्णा ) ॥"
[सम्मतिप्र० का० गा० ५३ ] ___ तदिह सामान्य-विशेषयोगः कुतस्तरामन्येषां भङ्गानामिति स्फुटमेव मिथ्यात्वम् , अतिरिक्तसामान्यविशेषापेक्षां विना महासामान्य-ऽन्यविशेषयोरिव वस्तुमात्रस्य स्वत एव सामान्य-विशेषात्मकत्वमित्यर्थस्यैव यथावन्नयद्वयविनियोगरूपत्वात्, अन्यथाऽनवस्थानात् , तदिदमुक्तम् -
ज्ञानस्य निरुक्कोभयावगाहित्वात् तजनकशास्त्रस्यापि निरुक्तोभयावगाहित्वमिति बोध्यम् । स्वमताग्रहादित्यस्य विवरणंस्वकल्पनाभिनिवेशादिति- कर्तुः स्वकल्पनाऽभिनिवेशः शास्त्रेऽपि तदवबोधके बोध्यः । मिथ्यात्वं प्रकृते मिथ्यैव मिथ्यात्वम् । ननु नयद्वयालम्बित्वानशास्त्रं यथा सम्यक्त्वमश्चति, तथा वैशेषिकशास्त्रेऽपि नयद्वयावलम्बित्वमस्तीति कथं न तस्य सम्यक्त्वमित्यत आह- नहीति- अस्य सम्यक्त्वप्रयोजकमित्यत्रान्वयः। यदि नयद्वयालम्बनं न शास्त्रस्य सम्यक्त्वप्रयोजकं तर्हि वाच्यं तत्प्रयोजकमिति पृच्छति-किन्विति । उत्तरयति- यथास्थान इति । तद्विनियोगः नयद्वयविनियोगः । स च नयद्वयविनियोगश्च, अस्य 'सम्पद्यते' इत्यनेनान्वयः । स्वप्रयुक्तेति- भङ्गद्वयं चेतरयावद्भशाश्च भनद्वयेतरयावद्भशाः, खप्रयुक्ताश्च ते जयद्वयेतरयावद्भङ्गाश्च स्वप्रयुक्तभङ्गद्वयेतरयावद्भङ्गास्तेषां खप्रयुक्तभावयेतरयावद्भङ्गानाम् , भङ्गद्वयस्य- स्यादस्त्येवेति स्यान्नास्त्येवेति भङ्गद्वयस्य सङ्ग्रहव्यवहारनयद्वयप्रयुक्तत्वे ऋमिकतदुभय-युगपत्तदुभयादिसंयोजनोपजातस्वरूपाणां तृतीय-चतुर्थ-पञ्चम-षष्ट-सप्तमभङ्गानामपि नयद्वयप्रयुक्तत्वमित्यावेदनायाद्य-द्वितीयभङ्गयोभनद्वयशब्देनाभिधानम् । कथम्भूतानां तेषामित्याकाङ्क्षायां तद्विशेषणमाह- स्याद्वादलाञ्छितामिति, परस्परसाकाडाणामिति च । कथं सर्वेषामेव भङ्गानामुक्तविशेषणविशिष्टानां तात्पर्यविषययत्वे सत्येव सम्यक्त्वं सम्भवति नान्यथेत्यत आह- एकतरस्यापीति सप्तानां निरुक्कभङ्गानां मध्यादेकस्यापि भङ्गस्येत्यर्थः। अतात्पर्ये तात्पर्याविषयत्वे । सिद्धान्तविराधनायाः स्याद्वादशद्धान्तावहेलनायाः । अपरिहारात् परिहर्तुमशक्यत्वात् । उक्तार्थं सम्मतिप्रन्थस्य गाथासंवादमाह-तदाहेति । जे० इति- “य वचनीयविकल्पाः संयुक्तयोर्भवन्त्यनयोः। सा स्वसमयप्रज्ञापना सिद्धान्तविराधना अन्या ॥" इति संस्कृतम्। तत् तस्मात् । इह स्वतन्त्रसामान्य-विशेषोभयप्ररूपके वैशेषिकदर्शने । सामान्येति- सामान्ययोगः प्रथममङ्गे विशेषयोगो द्वितीयभङ्गे इत्येवं भङ्गद्वये सामान्य-विशेषयोगसम्भवेऽपि तृतीयादिभङ्गानां सामान्य-विशेषयोः परस्परसापेक्षयोः सम्मेलनत एव सम्भवित्वेन परस्परनिरपेक्षसामान्य-विशेषयोगः कथमपि न सम्भवतीति वैशेषिकशास्त्रं स्पष्टमेव मिथ्यात्वम्, कुतस्तरामित्यनेन परस्परनिरपेक्षसामान्य-विशेषयोः स्वरूपत एवाभावात् प्रथमद्वितीयभायोरपि तादृश. सामान्यविशेषयोगो न सम्भवतीत्यावेदितम् । यथा महासामान्येऽतिरिक्तसामान्यं नास्ति, अन्त्यविशेषेऽनिरिक्तविशेषो नास्ति. अथापि महासामान्यस्य स्वत एव सामान्यरूपत्वम् , अन्त्यविशेषस्य च स्वत एव विशेषरूपत्वम्, तथैव वस्तुमात्रस्यैवातिरिक्तसामान्य-विशेषापेक्षामन्तरेणैव खत एवानुवृत्तिरूपत्वात् सामान्यात्मकत्वं स्वत एव व्यावृत्तिरूपत्वाद् विशेषरूपमित्येवं वस्तुमात्रस्य खत एव सामान्य-विशेषात्मकत्वमित्येव यथावन्नयद्वयविनियोगः, स च स्याद्वाद एवेति स्याद्वादस्यैव सम्यक्त्वं न तु वैशेषिकशास्त्रस्य तद् यथोक्तनयद्वयविनियोगाभावान्मिथ्यात्वमेवेत्याशयेनाह - अतिरिकेति । अन्यथा वस्तुमात्रस्य स्वतः सामान्य-विशेषानात्मकत्वस्याङ्गीकारे। अनवस्थानादिति- घट-पटादौ घटोऽयं घटोऽयमित्यनुगतप्रतीत्यनुरोधेन घटत्वसामान्यस्य पटोऽयं पटोऽयमित्यनुगतप्रतीत्यनुरोधेन पटत्वसामान्यस्य, एवं मठत्वादिसामान्यस्य च यथाऽतिरिक्तस्यानीकारः; एवमयं घटोऽस्माद् घटाद् भिन्नः, अयं पट एतस्मात् पटाद् भिन्न इत्यादिव्यावृत्तिप्रत्ययानुरोधेनातिरिक्तस्य विशेषस्याजीकारः,