________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपदेशः । ३५॥ व्यवहारपक्षपाति( त्वम् ), तदनभ्युपगमेऽप्युत्पत्त्यनभ्युपगमेन व्यवहारबहिर्भावादित्यभिप्रायं स्पष्टीकरणपूर्वकं निगमयन्नाह
अनुत्पन्नत्वपक्षश्च, निर्युक्तौ नैगमे श्रुतः।
नेति वेदान्ति-साडयोक्त्योः , सङ्ग्रह-व्यवहारता ॥ ११४ ॥ नयामृत-अनुत्पनेत्यादि । अनुत्पन्नत्वपक्षश्च नियुक्तो-नमस्कारनियुक्ती, नैगमे- नैगमनये श्रुतः, " उप्पन्नाणुपन्नो इत्थ णयाऽऽइनिगमस्साणुप्पन्नो । सेसाणं उत्पन्नो" [
] इति वचनात् । तथा चानुत्पत्तिवादी साक्ष्यो नैगमनयमेवोपजीवेत् , व्यवहारिकोत्पत्तिवादी वेदान्ती च व्यवहारनयमिति भावः, इति-हेतोर्वेदान्तिसाक्ष्योक्त्योः - तद्दर्शनयोः, सङ्ग्रह-व्यवहारता- सङ्ग्रह-व्यवहाराख्यशुद्धा- शुद्धद्रव्यार्थिकप्रकृतिकता न भवति, तथा च सम्मातै तथोक्तेः का गतिरिति भावः ॥ ११४ ॥ समाधत्ते तथापीति द्वयेन
तथाप्युपनिषद् दृष्टिसृष्टिवादात्मिका परा। तस्यां स्वप्नोपमें विश्वे, व्यवहारलवोऽपि न ॥ ११५ ॥ साजधशास्त्रे च नानात्मव्यवस्था व्यवहारकृत् ।
इत्येतावत् पुरस्कृत्य विवेकः सम्मतावयम् ॥ ११६ ॥ नयामृत-तथापीति । तथापि उपनिषद्- वेदान्तदर्शनप्रवृत्तिः, दृष्टिसृष्टिवादात्मिका पराउत्कृष्टा, मूलाभियुक्ताभ्युपगतत्वात् , तस्यां चाज्ञातसत्त्वाभावेन स्वप्नोपमे विश्वे- जगति सति व्यवहार. क्षणध्वंसानधिकरणलक्षणसम्बन्धात्मकप्रथमक्षणसम्बन्धरूपाया उत्पत्तेरनभ्युपगमेन । व्यवहारबहिर्भावात् प्रथमक्षणसम्बन्धरूपोत्पत्त्यभ्युपगन्तृव्यवहारनयाद् बहिर्भूतत्वात् । इत्यभिप्रायम् इत्याकारकाशयम् । स्पष्टीकरणपूर्वकं स्पष्टावेदनपुरस्सरम् । विवृणोति - अनुत्पन्नेत्यादीति । निर्युक्तावित्यस्य स्पष्टीकरण- नमस्कारनिर्युक्ताविति- वेन नियुक्तिग्रन्थबहुप्रकरणकत्वेन तत्र कुत्रोक्तमिति जिज्ञासाया नोन्मेषः । 'नैगमेऽनुत्पन्नत्वपक्ष' इत्यस्य प्रतिपादकं नमस्कारनियुक्तिवचनमुकयति-उत्पन्न० इति-" उत्पन्नानुत्पन्नोऽत्र नय आदिनिगमस्यानुत्पन्नः । शेषाणामुत्पन्नः" इति संस्कृतम् । तथा व मैगमनयस्यानुत्पन्नत्वपक्ष इति व्यवस्थितौ च । व्यवहारनयमित्यनन्तरमुपजीवेदित्यस्यानुवृत्तिः। मूले इतिशब्दो हेतुपर इत्याशयेनाह- इति हेतोरिति- एतस्मात् कारणादित्यर्थः। वेदान्ति-साङ्ख्ययोरित्यस्य विवरणम्-तदर्शनयोरिति-वेदान्त-साजयदर्शनयोरित्यर्थः । सङग्रह-व्यहारतेत्यस्य विवरणम्-सग्रह-व्यवहाराख्यशुद्धाशुद्धद्रव्यार्थिकप्रकृतिकतेति । नेति मूलं भवतीति क्रिया ' यत्रान्यत् क्रियावाचि पदं न श्रूयते.' इत्यादिवचनप्रामाण्यादुपात्ता । तथा च वेदान्त-साडयदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकत्वाभावव्यवस्थितौ च । “सम्मात" इति मुद्रणदोषात्, अत्र “सम्मतौ" इति पाठः समुचितः, तस्य सम्मतिग्रन्थे इत्यर्थः । तथोक्तः वेदान्ति-साडयदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकत्वकथनस्य, तथा च सम्मतिप्रन्थस्य तत्प्रतिपादकवचनमसङ्गतमिति । इति भावः प्रश्नयितुरेवमाशयः ॥११४॥
पद्यद्वयं युगपदेवावतारयति- समाधत्ते तथापीति द्वयेनेति- तथापीत्यादिपद्यद्वयेनोक्तां शङ्का समाधत्ते- निराकरोतीत्यर्थः । विवृणोति-तथापीतीति- एवं सत्यपीत्यर्थः। उपनिषदित्यस्य विवरणं-वेदान्तदर्शनप्रवृत्तिरिति । परेत्यस्य विवरणम्- उत्कृष्टति । दृष्टसृष्टिवादात्मिकैव वेदान्तदर्शनप्रवृत्तिरुत्कृष्टेत्यत्र हेतुमाह-मूलाभियुक्तति- वेदान्त
४५ .