________________
३५२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
पयन्ति न पारमार्थिकान्, इति नायमपि प्रकार उभयोः शुद्ध्य( द्धि )विशेषाय ॥ ११२ ॥
प्रत्युतात्मनि कर्तृत्वं, साङ्यानां प्रातिभासिकम् ।
वेदान्तिनां च निर्वाच्यं, मतं तद् व्यवहारिकम् ॥ ११३ ॥ नयामृत-प्रत्युत इति । प्रत्युतेति वैपरीत्ये, साख्यानां मते कर्तृत्वम् , उपलक्षणाद् भोक्तृत्वादि च, प्रातिभासिकं- अन्यस्थमेवान्यत्रारोपितम् , वेदान्तिनां तु मते नान्तःकरणधर्माणां कर्तृत्वादीनां कर्तव्यम् , तच्च परमार्थतोऽसदपि व्यवहारतः सदिति स्थूलव्यवहारानुरोधाद् वेदान्तदर्शन एवाशुद्धत्वं स्यात्, अविद्ययाऽपि अन्यधर्ममात्मन्यस्पर्श[ यदु]पचारेण च व्यवहारबलं कुण्ठमतिनिश्चलबलं चोत्ते. जयतीति साझ्यदर्शने एव शुद्धत्वं स्यादिति भावः ॥ ११३ ।।
किश्च, सत्कार्यवादित्वादपि साङ्क्षयस्य न व्यवहारानुरोधित्वम् , व्यवहारनयो हि कारणव्यापारानन्तरमेव कार्योत्पत्तिं पश्यन्नसत्कार्यपक्षमेवाश्रयते, न च क्षणिकासत्कार्यानभ्युपगममात्रेणास्य
अस्य 'अभ्युपयन्ति' इत्यनेनान्वयः। अयम् अभोक्तृत्वस्येत्याशङ्काग्रन्थोपदर्शितोऽपि । उभयोः वेदान्त-साङ्खयदर्शनयोः। “शुद्धया(द्धि)विशेषाय" इत्यस्य स्थाने "शुद्धयशुद्धिविशेषाय" इति पाठो भवितुमर्हति ॥ ११२॥
शुद्धद्रव्यार्थिकप्रकृतिकत्वाच्छुद्धत्वं वेदान्तदर्शने, अशुद्धद्रव्यार्थिकप्रकृतिकत्वादशुद्धत्वं साङ्खयदर्शने इति यद् भवतोऽनुमतं तन्न समीचीनं यत आत्मनि प्रातिभासिकं कर्तृत्वं न तु व्यावहारिकमित्यभ्युपगन्तृसाङ्खघदर्शनस्यैव शुद्धत्वम्, व्यावहारिक कर्तृत्वमात्मन इत्यभ्युपगन्तृवेदान्तदर्शनस्यैवाशुद्धत्वमित्यावेदकं त्रयोदशोत्तरशततमपद्यं विवृणोति- प्रत्युतेतीति । प्रत्युतशब्दोऽत्र वैपरीत्ये वर्तत इत्याह-प्रत्युतेति। वैपरीत्योपदर्शकमात्मनीत्यादिकं विवृणोति- सायानामिति । मते इति पूरणम् । मूलस्थं कर्तृत्वं भोत्कृत्वादिकमुपलक्षयतीत्याह- उपलक्षणाद् भोक्तत्वादि चेति । प्रातिभासिकमित्यस्य विवरणम् - अन्यस्थमेवान्यत्रारोपितमिति- प्रकृते अन्यत्र बुद्धौ स्थितं कर्तृत्वभोक्तृत्वादिकमन्यत्रात्मन्यारोपितमिति प्रातिभासिकं तदित्यर्थः । मूले “वेदान्तिनां च निर्वाच्यं मतं तद् व्यवहारिकम्" इत्यस्य स्थाने " वेदान्तिनां त्वनिर्वाच्य मतं तद् व्यावहारिकम् " इति पाठः सम्यग् । तद्विवरणं-- वेदान्तिनां त्विति । मते इति पूरितम् । “कर्तव्यम्, तञ्च" इत्यस्य स्थाने " आत्मन्यारोपः, किन्वनिर्वाच्यमात्मनि कर्तृत्वादिकम् , च" इति पाठः सम्यक्, तच्च अनिर्वाच्यं कर्तृत्वादिकं च। "अविद्ययाऽपि " इत्यस्य स्थाने " अविद्यापि " इति पाठः सम्यग, अस्य अस्पर्शयन्तीत्यनेन कुण्ठयतीत्यनेन उत्तेजयतीत्यनेन चान्वयः, " अन्यधर्ममात्मन्यस्पर्श यदु)पचारेण" इति स्थाने “अन्यधर्ममात्मन्यस्पर्शयन्ती, उपचारेण" इति पाठः सम्यक् , अन्यधर्म बुद्धिधर्म कर्तृत्वादिकम् , आत्मन्यस्पर्शयन्ती आत्मनि सम्बद्धमकुर्वती सती, "कुण्ठमतिनिश्चय" इत्यस्य स्थाने "कुण्ठयति निश्चय" इति पाठः सम्यक् , आत्मनि कर्तृत्वादिकमौपचारिकमेवेति कृत्वोपचारत एवात्मनि कर्तृत्वादिव्यवहार इति व्यवहारबलं कुण्ठयति-वस्तुसाधनासमर्थं करोति, यो यत्र कर्मण्यसमर्थः स तत्र कुण्ठ इत्युच्यते, निश्चयतश्च नात्मनि कर्तृत्वादिकमिति निश्चयबलमुत्तेजयति- पुष्णाति । इति एतस्मात् कारणाद् व्यवहारानुरोधिवेदान्तदर्शनतो निश्चयानुरोधिनि साङ्ख्यदर्शन एवोपचारानाश्रयणाच्छुद्धत्वं स्यादित्युक्तपद्यभावार्थ इत्यर्थः ॥ ११३ ॥
चतुर्दशोत्तरशततमपद्यमवतारयति-किश्चेति- साङ्ख्यस्य सत्कार्यवादित्वं च- " असदकरणादुपादानग्रहणात् सर्वसम्भवात् । शकस्य शक्यकरणात् कारणाभावाच्च सत् कार्यम् ॥" [ साङ्ख्यकारिका ] इतीश्वरकृष्णकारिकया व्यवस्थापितम्। साङ्ख्यस्य सत्कार्यवादित्वेऽपि कथं न व्यवहानुरोधित्वमित्यपेक्षायामाह-व्यवहारनय इति- अस्य पश्यन्नित्यनेन आश्रयते इत्यनेन चान्वयः । ननु व्यवहारोऽपि क्षणिकासत्कार्यवादमृजुसूत्रनयाभिप्रेतं नाभ्युपगच्छति साङ्ख्योऽपि च तं नाभ्युपैतीत्येतावता साङ्ख्यस्य व्यवहारानुरोधित्वमित्याशङ्कय प्रतिक्षिपति-न चेति । अस्य साङ्ख्यस्य । निषेधहेतुमुपदर्शयति-तदनभ्युपगमेति-साख्यस्य क्षणिकासत्कार्यानभ्युपगमेऽपीत्यर्थः। उत्पत्त्यनभ्युपगमेन स्वाधिकरण.