________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
३५१
इत्यादिकमपि स्यात्, न स्याद् अनुकूलतर्काभावादिति चेत् ? तुल्यमुभयत्र । किञ्च, यदि बुद्धिनित्या तदा बुद्धिकृतभोगावच्छेदस्य सर्वदाऽऽत्मनः सत्त्वादनिर्मोक्षापत्तिः, यद्यनित्या तर्हि जन्येतरस्यानित्यत्वायोग्यत्वात् जन्या वाच्या, तथा च तदुत्पत्तेः प्राक् तदाश्रितस्य धर्मादेरप्यभावे बुद्धितत्त्वस्यानुत्पत्ती नियतशरीरेन्द्रियादेरप्यभावेऽसंसारः स्यादिति न किश्चिदेतद् ' इत्याहुः ॥ १११ ॥
अत्र वेदान्त-साक्ष्यदर्शनयोः शुद्धा-ऽशुद्धद्रव्यार्थिकप्रकृतिकत्वं यदुक्तं तत्राविशेषदृष्ट्या भेदबीजाभावमाशङ्कते
यद्यप्येतन्मतेऽप्यात्मा, निर्लेपो निर्गुणो विभुः।
अध्यासाद् व्यवहारश्च, ब्रह्मवादेऽपि सम्मतः ॥ ११२ ॥ नयामृत-यद्यपीत्यादि । यद्यपि एतन्मतेऽपि- साक्ष्यमतेऽपि, आत्मा निलेप:- कर्तृत्वादि. लेपरहितः, निर्गुण:- गुणस्पर्शशून्यः, विभुः- व्यापकश्चेति शुद्धात्माभ्युपगमेन उभयत्र शुद्धितौल्यम्, न च भोक्तृत्वस्योपचरितस्यात्मन्यभ्युपगमेन साङ्ख्यदर्शने वेदान्तदर्शनापेक्षया अशुद्धत्वम् , यतोऽध्यासाद् व्यवहारो ब्रह्मवादेऽपि सम्मतः- ब्रह्मवादिनोऽपि हि बुद्धिगुणान् ज्ञानादीन् आत्मनि कल्पितानेवाभ्यु
त्वादिति समाधत्ते- तुल्यमुभयत्रेति । विकल्पजर्जरिता च साङ्ख्याभिमता बुद्धिरित्याह-किञ्चेति । बुद्धनित्यत्वे पुरुषस्यानिर्मोक्षापत्तिमुपदर्य तस्या अनित्यत्वं दूषयति- यद्यनित्यति बुद्धिरित्यनुवर्तते । जन्या वाच्येति-बुद्धिर्जन्या भावत्वे सत्यनित्यत्वाद् घटवदित्यनुमानमत्र बोध्यम् । भवतु जन्यत्वं बुद्धेः का नो हानिरित्यत आह-तथा चेति-बुद्धर्जन्यत्वे चेत्यर्थः । तदुत्पत्तेः प्राक् बुद्धयुत्पत्तेः प्राकाले । तदाश्रितस्य बुद्ध्याश्रितस्य । धर्मादेरभाव इति- नहि धर्मा धर्मिणमन्तरेणावतिष्ठन्ते इति बुद्धिरूपधर्म्यभावकाले बुद्धयाश्रितानां धर्माधर्मादिधर्माणामभावो न्यायप्राप्त एवेति । बुद्धितत्त्वस्यानुत्पत्ताविति-धर्माधर्मादीनां बुद्धयुत्पत्ति प्रति कारणत्वमवश्यमुपेयम् , अन्यथा मुक्तात्मानमधिकृत्यापि बुद्धयत्पत्तिः स्यात् , तथा च मुक्तस्यापि पुनः संसारः स्यात् , एवं च बुद्धयुत्पत्तितः प्राक् तत्कारणस्य धर्मादेरभावे बुद्धितत्त्वस्यानुत्पत्तावित्यर्थः । नियतशरीरेन्द्रियादेरप्यभाव इति" ऊचं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१॥"[ 1 __इति सात्त्विकबुद्धिसम्बन्धादू लोके देवादिशरीराद्युत्पत्तिः, राजसबुद्धिसम्बन्धान्मध्यलोके मनुष्यादिशरीराद्युत्पत्तिः, तामसबुद्धिसम्बन्धादधोलोके नारकीयशरीराद्युत्पत्तिरित्येवं योनिनियतशरीरेन्द्रियादिकस्यापि बुद्धितत्त्वानुत्पत्तौ बुद्धिरूप.
कारणाभावादभाव इत्यर्थः । असंसार: स्यात् बुद्धितत्त्वसम्बन्धप्रयुक्तनियतशरीरेन्द्रियादिजन्येष्टानिष्टभोक्तृत्वलक्षणबन्ध एव संसारः, स कारणाभावान स्यात् । साङ्ख्यमतखण्डनमुपसंहरति- इतीति । न किञ्चित् किञ्चित् तत्त्वनिरूपणसमर्थ न । एतत् साङ्खथमतम् ॥ १११ ॥
द्वादशोत्तरशततमपद्यमवतारयति- अत्रेति । वेदान्तेति- शुद्धद्रव्यार्थिकसङ्घहनयप्रकृतिकत्वं वेदान्तदर्शनस्य अशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकत्वं साख्यदर्शनस्यास्मिन् ग्रन्थे यत् प्रागुपदर्शितं तत्र वेदान्त-साङ्ख्यदर्शनयोरविशेषदृष्टया विशेषो नास्तीति बुद्धया भेदबीजाभावं वेदान्तदर्शन शुद्धद्रव्यार्थिकप्रकृतिकं साङ्ख्यदर्शममशुद्धद्रव्यार्थिकमित्येवं भेदस्य कारणाभावमाशङ्कते इत्यर्थः, विवृणोति- यद्यपीत्यादीति- तथाप्युपनिषदृष्टीत्यादिपञ्चदशोत्तरशततमपद्यस्य तथापीत्यपेक्षो यद्यपीति । एतन्मतेऽपीत्यस्य विवरण- सायमतेऽपीति । निर्लेप इत्यस्य-कर्तृत्वादिलेपरहित इति विवरणम् , एवमप्रेऽपि । इति शुद्धात्माभ्युपगमेन एवं प्रकारेण शुद्धात्मनः साङ्ख्यमतेऽप्यभ्युपगमेन । उभयत्र वेदान्त-सालयदर्शनयोः शुद्धितौल्यं समानैव शुद्धिः । साङ्क्षयदर्शनेऽशुद्धत्वमाशङ्कय प्रतिक्षिपति-न चेति । निषेधहेतूपदर्शनमुत्तरार्द्धमित्याह- यत इति । ब्रह्मवादे वेदान्तदर्शनेऽध्यासाद् व्यवहारमेवोपपादयति- ब्रह्मवादिनोऽपीति