________________
३५०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। मनःसम्बन्धश्चेति तद्भिन्नोऽहङ्कारो नियतविषयाभिमानव्यापारः स्वीकार्यः । सुषुप्ताविन्द्रियस्य व्यापारविरतावपि यद्व्यापारादुच्छ्वास-प्रश्वाससन्ततिर्जायते तद् बुद्धितत्त्वं प्रागुक्तभावाष्टकयोगि स्वीकार्यम् , तस्य ज्ञानरूपपरिणामेन सम्बन्धो विषयः पुरुषस्य स्वरूपतिरोधायकः । एवं च बुद्धितत्त्वनाशादेव विषयावच्छेदाभावात् पुंसो मोक्षः, भेदाग्रहाच्च । चेतनोऽहं करोमि' इत्यभिमानः, अत एव" प्रकृतेः क्रियमाणानि, गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा, कर्ताहमिति मन्यते ॥"
[गीता, अ० श्लो० ] इति स्मर्यत इति । अत्र नैयायिकादयः- ' चेतनोऽहं करोमीति बुद्धरसति बाधके भ्रमत्वायोगाच्चैतन्यकृत्यादिधर्मवत्येव बुद्धिः स्वीकर्तव्या, तथा च आत्मनो नामान्तरमेतत् , अथ 'बुद्धिरचेतना परिणामित्वात् तन्तुवत्' इति चेत् ? तर्हि 'बुद्धिर्न कृतिमती तत एव तद्वत् ' 'न धर्मा-ऽधर्मादिमती जन्यत्वाद् घटवद्'
विषयेण यदा सम्बन्धस्तदानीं तद्विषय पुरुषयोरवच्छेद्यावच्छेदकभाव इति कदाचिद् घटज्ञानं कदाचित् पटज्ञानमिति व्यासङ्ग उपपद्यत इति भावः । अहङ्कारकल्पनस्यावश्यकत्वं दर्शयति-स्वप्नावस्थायामिति । तद्भिन्नः मनोभिन्नः, अन्यत् स्पष्टम् । बुद्धितत्त्वाभ्युपगमस्यावश्यकत्वं दर्शयति-सुषुप्ताविन्द्रियस्येति । तस्य बुद्धिसत्त्वस्य । घटः पट इत्याकारको यो ज्ञानात्मकपरिणामस्तेन सह विषयविषयिभावसंबन्धेन संबद्धो घटपटादिलक्षणो विषयः पुरुषस्यान्यासम्पृक्ताखण्डचैतन्य. स्वरूपस्य तिरोधायक आवरको भवति, तथा च स्वविषयकबुद्धिपरिणामज्ञानातात्त्विकसंबन्धात् पुरुषसम्बद्धो घटादिः पुरुषस्वरूपतिरोधायक इत्यर्थः। बुद्धिपरिणामेन ज्ञानेन पुरुषस्य यो घटमहं जानामीत्येवंस्वरूपोऽतात्त्विकसम्बन्धः स एवो. पलब्धिरुच्यते, तथा च बुद्धितत्त्वबलादेव परम्परया पुरुषे विषयसम्बन्धलक्षणो विषयावच्छेद इति बुद्धितत्त्वनाशाद् विषयावच्छेदस्याप्यभावान्मोक्षो भवतीत्याह-एवं चेति । भेदाग्रहाच्च बुद्धया सह पुरुषस्य यो भेदस्तदग्रहात् पुनः । उक्कार्थे भगवद्गीतावचनसंवादमाह- अत एवेति- बुद्धया पुरुषस्य भेदाग्रहाच्चेतनोऽहं करोमीत्यभिमानस्य भावादेवेत्यर्थः। प्रकतेरिति-प्रकृतेर्गुणै:- सत्त्व-रज-स्तमोभिः, क्रियमाणानि सर्वशः कर्माणि कार्याणि, किन्तु अहङ्कारविमूढः- बुद्धया सह भेदेनागृहीत आत्मा-पुरुषोऽहं कर्तेत्येवं मन्यत इत्यर्थः । निरुक्तप्रकृत्यादिपञ्चविंशतितत्त्वाभ्युपगमप्रवणसांख्यमतायुक्तत्वावेदनाय तन्मतखण्डनपटिष्टयुक्तिकल्पननिष्णातान् नैयायिकादीन् प्रतिमल्लतयोत्थापयति- अत्रेति । नैयायिकादय इति- अस्य आहुरित्यनेन सम्बन्धः । किमाहुरित्यपेक्षायामाह-चेतनोऽहं करोमीति बुद्धरिति-अस्य भ्रमत्वायोगादित्यनेन सम्बन्धः, चेतनोऽहं करोमीति बुद्धिर्यदि चैतन्यांशे भ्रमात्मिका स्यात् तदा कर्तरि महत्तश्वे चैतन्यस्यारापोपपत्तयेऽन्य. श्वेतनः स्वीकरणीयः स्यात्, क्वचित् प्रमितमेवान्यत्रारोप्यते नाप्रमितमिति नियमात् , बाधके सति भ्रमत्वं भवति नान्यथा, न च कर्तरि चैतन्यस्य किञ्चिद् बाधकं समस्तीति य एव कर्ता स एव चेतन इति चैतन्य कृत्यादिधर्मवत्येव बुद्धिः स्वीकरणीया, एवं च परमते य एव चेतनः कर्ता च तस्यैवात्मेति संज्ञेत्यात्मशब्दसंशब्दिते पुरुषे बुद्धिरिति नामान्तरं, न तु तदन्यतत्त्वान्तरं बुद्धिशब्दवाच्यमित्यर्थः । ननु बुद्धौ कर्तृतयाऽभ्युपगतायां चैतन्यस्य बाधकमस्त्येवानुमानं प्रमाणमित्याशङ्कते- अथेति । तन्तुवदिति- यथा तन्तुः पटरूपेण परिणमत इति परिणामित्वात् तन्तुरचेतनस्तथा बुद्धिरहवाररूपेण परिणमत इति परिणामित्वाद् बुद्धिरचेतनेत्यर्थः । परिणामित्वादचैतन्यवदकर्तृत्वमपि साधयितुं शक्यते, तत्रापि तन्तुवदिति दृष्टान्तोद्भावनस्य कर्तुं शक्यत्वादिति प्रतिवन्द्या समाधत्ते-तहीति । तत एव परिणामित्वादेव । तद्वत् तन्तुवत् । अन्यदप्यनिष्टमेवं साधयतः साङ्ख्यस्य प्रसज्यत इत्याह-न धर्माऽधर्मादिमतीति- घटो यथा जन्यत्वान्न धर्माऽधर्मादिमान् तथा बुद्धिरपि जन्यत्वान्न धर्माऽधर्मादिमतीत्यर्थः। सांख्य आह- न स्यादिति- जन्यत्वहेतुना बुद्धौ धर्माधर्माद्यभावसाधनं न भवेदित्यर्थः। तत्र हेतुमाह- अनुकलेति- बुद्धौ जन्यत्वमप्यस्तु धर्माधर्मादिमत्त्वमप्यस्त्विति व्यभिचारशङ्कानिवर्तकतर्काभावादित्यर्थः। यदि व्यभिचारशङ्कानिवर्तकतर्काभावात् संदिग्धव्यभिचारोऽप्रयोजको वा जन्यत्वहेतुर्न बुद्धौ धर्माधर्मादिमत्त्वाभावसाधनाय प्रगल्भते तर्हि परिणामित्वमपि हेतुरनुकूलतर्काभावात् संदिग्धव्यभिचारोऽप्रयोजको वा.न चैतन्याभावसाधने समर्थः । तत्रापि परिणामित्वमस्तु चेतनत्वमप्यस्त्वित्येवं व्यभिचारस्य शक्तुिं शक्य